सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 558, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 558

५३२ सटीकजातकपारिजाते-
'गुलिकस्फुटोदितनक्षत्रवशाद् गुलिकदशा' ।
अधुना श्लोकेनानेन गुलिकदशोच्यते । गुलिकः स्थितो यस्मिन्नक्षत्रे तस्मान्नक्षत्राद्-
गुलिकदशा प्रकल्पिता भवति । अत्रेदमवधेयम् । गुलिकस्थितनक्षत्रे यस्य ग्रहस्य दशा
आरभ्यते, तदादिग्रहदशागुलिकदशेति नाम्ना व्यवह्रियते । तस्यां गुलिकदशायां तद्युक्त-
भवनांशेशौ = गुलिकयुक्तराशिपतिनवांशपती' तत्सहकारी च ( सम्बन्धी च ) मृत्युदा
भवन्ति । एतदुक्तं भवति । गुलिको यस्मिन् राशौ तिष्ठति तदीशः, यस्मिन्नवांशे तिष्ठति
तदीशः, गुलिकेन सह सम्बन्धकर्त्ता चैतेषां दशायां ( गुलिकदशायां ) मरणं वाच्यम् ॥३७॥
गुलिक जिस नक्षत्रमें स्थित हो उससे उसकी दशा कल्पित करे। उससे युक्त गृहेश
और अंशेश दोनों और सहकारी मृत्यु देते हैं ॥ ३७ ॥
अथ शूलदशा ।
दिनेशाविनशुक्रौ च राजारौ कारकाः स्मृताः ।
कारकस्य त्रिशूलर्क्षे यदा चरति या दशा ॥ ३८ ॥
“विक्रमाष्टमाधिपवशाज्ज्ञातस्यायुः, पितृकारको रविशुक्रौ,
मातृकारको चन्द्रकुजौ” ।
तत्कारकस्थितगृहादिषु सर्वभेषु चक्रप्रमाणदलवत्सरसंयुतेषु ॥
वीर्यान्वितेषु शुभदृष्टियुतेषु सौख्यं नीचारिपापयुतभेषु वदन्त्यनिष्टम् ॥३९॥
दिनेशाविति । दिनेशौ = अत्र 'कटपयवर्गेर्भवैरिति'त्यादिना दिनं = ८, तदीशौ त्र्यष्टमे-
शोऽष्टमादप्यष्टमेशः=तृतीयाष्टमभावयोरधिपती । इनशुक्रौ = सूर्यः, शुक्रश्च । राजारौ =
राजा चन्द्रः, आरो भौमश्च । कारकाः स्मृताः । एतदुक्तं भवति । तृतीयाष्टमेशावायुष्कारकौ ।
सूर्य-शुक्रौ पितृकारकौ । चन्द्र-मङ्गलौ मातृकारकौ । अयमर्थः 'अन्यकर्त्रा गद्येन स्पष्टीकृतः
(विक्रमाष्टमाधिपवशाज्ज्ञातस्यायुः, पितृकारको रविशुक्रौ, मातृकारको चन्द्रकुजौ) इति । तथा च-
“रविशुक्रयोः प्राणी जनकः । चन्द्रारयोर्जननी' इति जैमिनिः । एतद्योजनमुत्तरार्द्धे-
नाह-कारकस्य त्रिशूलर्क्षे इति । तत्तत्कारकस्य त्रिशूलर्क्षे=अष्टमर्क्षं इत्यर्थः । या दशा यदा
चरति सा दशा तदा तस्य मृत्युदा भवति । यत्कारकादष्टमराशिसम्बन्धिनी दशा यस्मिन्
समये चलति तदानीं तस्य तस्य मृत्युं वदेदिति भावः ॥ ३८ ॥
तत्कारकेति । तत्कारकस्थितगृहादिषु = तत्तद्भावकारको ग्रहो यत्र कुत्र भावे स्थितो
भवेत्तद्भावराश्यादिषु, सर्वभेषु = यत्र कुत्रापि सर्वत्रैष नियम इत्यर्थः, चक्रप्रमाणदलवत्स-
रेण = कालचक्रदशोक्तार्द्धप्रमाणवर्षेण संयुतेषु = मिलितेषु वर्षेषु, यदि कारको बली शुभदृष्टो
वा शुभयुतो भवेत्तदा तस्य तस्य सौख्यमार्या वदन्ति । यदि च कारको ग्रहो नीचे, शत्रु-
गृहे, पापयुतो वा भवेत्तदा तस्य तस्यानिष्टं वदन्ति । अयमर्थः । यस्य कस्य भावस्य
कारकः शुभो वाऽशुभो यद्राशौ भवेत्तदङ्के कालचक्रदशाप्रमाणार्द्धं संयोज्य तावन्मिते वर्षे
कारकप्रकृत्या सुखमनिष्टं वा विजानीयादिति ॥ ३९ ॥
तृतीयेश और अष्टमेश आयुःकारक, सूर्य और शुक्र पितृकारक, चन्द्र और मङ्गल मातृ-
कारक कहे हैं । कारकके त्रिशूल राशिमें जो दशा जब आती है उसमें उस २ का मरण कहे ॥
जो कारक जिस किसी भावमें हो उस राशिमें ६ राशि जोडकर उतने २ वर्षमें यदि
कारक शुभदृष्टि-युत हो तो उस २ का सुख कहना । यदि कारक नीच-शत्रुगृह-पापयुत
दृष्ट हो तो अनिष्ट कहना चाहिये ॥ ३९ ॥
अथ महादशाविशेषः ।
यत्तारंशगतः शशी तदधिपेनालोकितो वा युत-
स्तेषां चक्रदशा विशेषफलदा वक्ष्यामि तच्चक्रजम्