जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 543, कुल 588 में से
संदर्भ में पढ़ेंकालचक्रदशाध्यायः ॥१७॥ ५१७.
अथ मण्डूकगतिफलमाह— मण्डूकगतीति । पूर्वोक्तमण्डूकगतिसमये (अन्तर्दशा-
याम्) गुरोः = स्वकीयश्रेष्ठजनस्य, पित्रोर्वा = अथवा स्वकीयपित्रोः (मातुः पितुश्च)
मरणं भवति । तथा विषशस्त्राग्निज्वरचोराहिभिर्भयं भवति । अथ सव्ये = सव्यचक्रोद्भूते,
मण्डूकसमये (मण्डूकगतिदशायां) समानजनस्य (भ्रातृमित्रादेः) पीडनं भवति । तत्र
केसरीयुग्ममण्डूकेऽर्थात् सिंहतः कन्यायां गते, मिथुनतः कर्कटे गते सति, मातुः=जातस्य
मातुः, मरणमादिशेत् । तथा तत्र स्वस्य मरणं, राजभीतिं, सन्निपातरोगम्, अरेः (शत्रुतः)
भयं च वदेत् ॥ ९५-९७ ॥
अपसव्य मण्डूक गति दशा समयमें गुरुका मरण होता है। वा माता पिताके मरण
होते हैं। विष-शस्त्र-अग्नि-ज्वर-चोर-सर्पसे भय हो। सव्य चक्रकी मण्डूकगति समयमें
अपने समान जनको पीड़ा हो । सिंहसे मिथुनवाले मण्डूकमें माताकी मृत्यु हो और अपना
मरण, राजदण्ड, सन्निपात तथा शत्रु भय हो ॥ ९५-९७ ॥
सव्ये सिंहावलोके तु चतुष्पाद्भयमग्निजम् ।
पृष्ठतो गमने सव्ये धनधान्यपशुक्षयः ॥ ९८ ॥
पितुर्मरणमालस्यं तत्समानेषु वा मृतिः ।
मण्डूकगमने वामे श्रीसुतार्तिपरिश्रमम् ॥ ९९ ॥
तापज्वरं मृगाद् भीतिं पदच्युतिमरेर्भयम् ।
सिंहावलोकने वामे स्थानभ्रंशः पितुर्मृतिः ॥ १०० ॥
पृष्ठतो गमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ १०१ ॥
स्पष्टार्थाश्चैते श्लोकाः ॥ ९८-१०१ ॥
सव्य चक्रके सिंहावलोकनमें चतुष्पदसे भय, अग्निभय हो । सव्यवाले पृष्ठ गमनमें धन-
धान्य-पशुका क्षय, पिताका मरण, आलस्य वा उसके सदृशकी मृत्यु होती है। मण्डूक
गमनमें स्त्री-सुतकी पीड़ा, परिश्रम, तापज्वर, मृगासे भय, पदच्युति, शत्रुसे भय होते हैं।
अपसव्य चक्रके सिंहावलोकनमें स्थानभ्रंश, पिताकी मृत्यु हो । अपसव्य चक्रवाले पृष्ठ-
गमनमें भी जलभय, पदच्युति, पिताका नाश, राजाका क्रोध, दुर्ग जंगलमें जाना घूमना
फल कहे ॥ ९८-१०१ ॥
अथ कालचक्रदशाप्रकारः ।
दशानलादितिभुजङ्गदिनेशानां पूषांशुराजपदविश्वसमीरणानाम् ।
वाक्यानि सव्यगतिचक्रभवादिकानि चत्वारि सर्वमुनयः प्रवदन्ति तज्ज्ञाः॥
चित्राहिबुर्ध्न्यभरणीपूर्वाषाढेन्द्रमन्त्रिणाम् ।
सव्यचक्रान्त्यवाक्यानि चत्वारि क्रमशो विदुः ॥ १०३ ॥
द्विदैवकमलागारपितृदानववैरिणाम् ।
अपसव्यस्य चक्रस्य वाक्यं चादिचतुष्टयम् ॥ १०४ ॥
जलेशमित्रेन्द्रमृगश्रविष्ठाभगार्यमाश्रवत्तरतारकाणाम् ।
अन्त्यानि वाक्यान्यपसव्यजानि चत्वारि चक्रोपगतानि चाहुः ॥ १०५ ॥
कालचक्रदशाप्रकारः पूर्वमुक्तोऽप्यधुना प्रसङ्गवशादुच्यते—दशेति । अश्विनी-कृत्ति-
का-पुनर्वसु-श्लेषा-हस्त-रेवती-मूल-पूर्वाभाद्रपद-उत्तराषाढ-स्वाती-ति दशनक्षत्राणां
सव्यगतिचक्रभवादिकानि “पौरश्चानोगतासहोची १, नक्षत्रदासीचर्वणयः २, रूपोत्रझुर्निंगधा-
वरज्ञम् ३, षाणीज्वध्मन्दिनक्षत्रम् ४” इति चत्वारि वाक्यानि तज्ज्ञाः सर्वमुनयः प्रवद-
न्ति । चित्रा-उत्तरभाद्र-भरणी-पूर्वाषाढ-पुष्येति पञ्चानां चत्वारि “इंसथ्ववांवरपत्र-
४४ जा०