जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 542, कुल 588 में से
संदर्भ में पढ़ें५१६ सटीकजातपारिजाते-
इदानीं त्रेधा कालचक्रगतिनिरूपणमाह—कालचक्रगतिरिति । पूर्वसूरिभिः = गर्गपरा-
शराद्यैः कालचक्रस्य, त्रेधा = त्रिविधा, गतिः निश्चिता = निर्णीता । कास्ता इत्याह-१ मण्डू-
कगमनम्, २. पृष्ठतो गमनम्, ३. सिंहावलोकनं ( एतदेव पुनरागमनं नाम ) भवेत् ।
गतीनां लक्षणञ्च पृष्ठत इति । कर्किकेसरिणोः = कर्कसिंहयोः पृष्ठतो गमनं भवति । मीन-
वृश्चिकयोः, चापमेषयोश्च गतिः केसरी = सिंहावलोकनम् । कन्याकर्कटयोः, सिंहयुग्मयोः
मण्डूकी गतिर्भवति । एतदुक्तं भवति । सव्ये, अपसव्ये च चक्रे कर्किकेसरिणोः गमनं ( कर्क-
स्य मिथुने सिंहस्य कर्के गमनं ) पृष्ठतो गमनं कथ्यते । एवं मीनवृश्चिकयोः, धनुर्मेषयोश्च ।
नवमपञ्चमयोः । पारस्परिकं गमनं केसरी-गतिरुच्यते । एवमेव सिंहमिथुनयोश्च कन्याक-
र्कटयोः गमनं मण्डूकी गतिः भवति । तथा च पाराशरीये—
प्रथमे गतिर्मण्डूकी द्वितीये मर्कटी तथा । बाणायनवपर्यन्तं गतिः सिंहावलोकनम् ॥
कन्यायां कर्कटे चापि सिंहमे मिथुनेऽपि च । मण्डूकीगतिसंज्ञो वै तादृशं रोगकारणम् ॥
मीने तु वृश्चिके चापि चापे मेषे तथैव च । सिंहावलोकनं चैव तादृशं च फलं लभेत् ॥ इति॥
एतत् क्लान्तईशाविचारे बोद्धव्यम् । कस्यचिद्दशायां कर्कतो मिथुनस्यान्तर्दशा,
सिंहात्कर्कस्यान्तर्दशा चेद्भवति तदा तत्पृष्ठतो गमनं ( मर्कटी गतिः ) कथ्यते । एवं किल
सर्वत्र बोद्धव्यम् । तस्य फलञ्च वक्ष्यमाणप्रकारेण विज्ञेयम् ॥ ८९-९१३ ॥
इस कालचक्रकी गति पंडितोंने तीन प्रकारकी कही हैं । १-मण्डूक गमन । २-पृष्ठसे
( पीछे ) गमन । ३-सिंहावलोकन नाम पुनरागमनका ॥ ८९-९० ॥
कर्क सिंहका पृष्ठसे गमन है । ५ से ४में तथा ४से ३में आना पृष्ठ गमन है। मीन वृश्चिक का
धनुर्मेषका सिंहावलोकन गति है ( मीनसे वृश्चिकमें और धनुसे मेषमें जानेको सिंहावलोकन
कहते हैं) कन्या-कर्ककी, सिंह-मिथुनकी (६ से ४ में और ५ से-३ में जानेकी) मण्डूक
गति कहते हैं ॥ ९१३ ॥
सिंहावलोकसमये ज्वरातिस्थाननाशनम् ॥ ९२ ॥
बन्धुस्नेहादिनाशं च समानजनपीडनम् ।
जले वा पतनं कूपे विषशस्त्राग्निजं भयम् ॥ ९३ ॥
वाहनात्पतनं वाऽपि दशाच्छिद्रान्विते सति ॥
क्रूरास्तनीचापचयखेचरस्य दशा यदि ॥ ९४ ॥
दशाच्छिद्रमिति ज्ञेयं प्रवदन्ति विपश्चितः ॥ १ ॥
इदानीं सिंहावलोकफलं दशाच्छिद्रञ्चोच्यते । क्रूरग्रहस्य, अस्तङ्गतस्य ( रविणा सहि-
तस्य ) नीचङ्गतस्य, अपचयस्य ( क्षीणरश्मेः ) ग्रहस्य दशा दशाच्छिद्रमिति विपश्चितः
( विद्वांसः ) कथयन्ति । शेषं स्पष्टमेवेति ॥ ९१३-९४३ ॥
( सिंहावलोकके समय ज्वरसे कष्ट, स्थानका नाश, बन्धुस्नेहादिका नाश, समान जनकी
पीडा, जलमें वा कूपमें गिरना, विष-शस्त्र-अग्निका भय, वाहन ( घोड़ा आदि ) से गिरना
ये सब उस समय दशा छिद्र होने पर कहने चाहिये। क्रूर, अस्ते गत, नीचगत, निर्बल
ग्रहकी दशा दशाछिद्र है यह पण्डित लोग कहते हैं ॥ ९२-९४३ ॥
मण्डूकगतिसम्भूतसमये मरणं गुरोः ॥ ९५ ॥
पित्रोर्वा विषशस्त्राग्निज्वरचोराग्निभिर्भयम् ।
मण्डूकसमये सव्ये समानजनपीडनम् ॥ ९६ ॥
केसरीयुग्ममण्डूके मातुर्मरणमादिशेत् ।
मरणं राजभीतिं च सन्निपातज्वरेर्भयम् ॥ ९७ ॥