जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 514, कुल 588 में से
संदर्भ में पढ़ें४८८ सटीकजातकपारिजाते-
सौरारगृहे तद्गत् शशिनि सशुक्रे विलग्नगे जाता । मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥
द्यूने तु कुजनवांशे शनिना दृष्टे सरोगयोनिः स्त्री ।
सद्ग्रहभागे चारुश्रोणी पतिवल्लभा भवति ॥ २१ ॥
शनि या मङ्गलकी राशिमें लग्न हो वहां शुक्र चन्द्रमाके सहित हो, उसे पापग्रह देखते
हों तो वह स्त्री माताके सहित पुंश्चली हो । सातवेंमें मङ्गलके नवांशको शनि देखता हो
तो योनिमें व्याधि हो ! यदि शुभ ग्रहके अंशमें हो तो स्त्रीकी कमर रमणीय हो और वह
पतिकी प्यारी होवे ॥ २१ ॥
बलहीनेऽस्तगे पापे सौम्यग्रहानिरीक्षिते ।
पत्या विसृज्यते नारी नीचारिस्थे च वैरिणी ॥ २२ ॥
श्लोकोऽयं सरलार्थोऽपि च १६ तमश्लोकस्य द्वितीयपदे गतार्थो भवतीति ॥ २२ ॥
निर्बल पापग्रह सप्तम स्थानमें हो उसे शुभग्रह देखते हों तो वह स्त्री पतिसे त्यागी
जाय । यदि नीच या शत्रु-स्थानमें वह पापग्रह हो तो वह पतिकी वैरिणी हो ॥ २२ ॥
उत्सृष्टा मदनस्थिते दिनकरे शत्रुग्रहालोकिते
ऽविश्वस्ताऽवनिजे वधूरमणयोरन्योन्यवैरं तु वा ।
सौम्यासौम्ययुते कलत्रभवने जाता पुनर्भूर्ः शनौ
कामस्थे रिपुवीक्षिते त्वविधवा जाता जरां गच्छति ॥२३॥
इदानीं स्त्रीजातके सप्तमभावफलं ग्रहपरत्वेनोच्यते-उत्सृष्टेति । दिनकरे = सूर्ये, मदन-
स्थिते = सप्तमभावमुपगते, तस्मिन्, शत्रुग्रहेणालोकिते सति स्त्री पतिना उत्सृष्टा = त्यक्ता
भवति । अवनिजे=भौमे, मदनस्थिते शत्रुग्रहालोकिते च स्त्री अविश्वस्ता, वा तत्र वधूरम-
णयोः=स्त्रीपुंसोरन्योन्यवैरं=परस्पर विद्वेषो भवति । कलत्रभवने = सप्तमे भावे, सौम्यासौ-
म्ययुते=शुभपापग्रहैः सहिते सति जाता स्त्री पुनर्भूर्ः=पत्यन्तरकर्त्री, भवति । शनौ, कामस्थे=
सप्तमभावस्थे, रिपुणा वीक्षिते च सति जाता स्त्री तु अविधवा सती (कुमारिकैव ) बाल्य इति
यावत् जरां वृद्धत्वं गच्छति । अर्थात्शनिः सप्तमे पापद्दष्टो भवेत्तदा कुमारिकैव स्त्री वृद्धत्व-
मुपयाति । तस्या विवाहो न भवेदित्यर्थः । तथा बृहज्जातके-
'उत्सृष्टा रविणा, कुजेन विधवा बाल्येऽस्तराशिस्थिते ।
कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति' इति ॥ २३ ॥
सूर्य सप्तममें हो उसका शत्रु उसे देखता हो तो वह स्त्री उत्सृष्टा ( त्यागी ) हो । मङ्गल
हो तो विश्वाससे हीन अथवा स्त्रीपुरुषमें परस्पर वैर हो । सप्तम भवनमें शुभ अशुभ दोनों
प्रकारके ग्रह हों तो पुनर्भूर् हो । शनि सप्तम स्थानमें शत्रुसे देखा जाता हो तो बुढ़ापा तक
कुमारी रहती है ॥ २३ ॥
पापर्क्षे मदनस्थिते शनियुते वैधव्यमेत्यङ्गना
जारासक्तविलासिनी सितकुजावन्योन्यराश्यंशगौ ॥
चन्द्रे कामगृहं गते तु पतिना सार्द्धं दुराचारिणी
मन्दारर्क्षविलग्नौ शशिसितौ बन्ध्या सुतस्थे खले ॥ २४ ॥
पापर्क्ष इति । मदनस्थिते = सप्तमभावगते, पापर्क्षे = पापग्रहर्क्षे, शनियुतेऽथोत्सप्तमो
भावः पापराशिस्तत्र शनिः स्थितो भवेत्तदा, अङ्गना = जायमाना कन्या, वैधव्यमेति=भर्तृ-
मरणं प्राप्नोति । जारिणीमाह । सितकुजौ = शुक्रमङ्गलौ, अन्योन्यराश्यंशगौ=शुक्रः कुज-
राशिनवांशगतः, कुजः शुक्रराशिनवांशगतः स्यात्तदा जाता स्त्री, जारासक्तविलासिनी=पर-
पुरुषरतामोदवती भवति । दम्पत्योः व्यभिचारित्वमाह । चन्द्रे, कामगृहं=सप्तमभावं गते तु
स्त्री पतिना सार्द्धं दुराचारिणी भवति । चन्द्रमा यदि स्त्रीजातके सप्तमे भवेत्तदा सा स्त्री