जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 513, कुल 588 में से
संदर्भ में पढ़ेंस्त्रीजातकाध्यायः ॥१६॥ ४८७
आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भू र्भवेत्
क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्झिता ।
अन्योन्यांशकयोः सितावनिजयोरन्यप्रसक्ताङ्गना
द्यूने वा यदि शीतरश्मिसहिते भर्तुस्तदाऽनुज्ञया ॥ १६ ॥
इदानीं विधवा-पुनर्भू-भर्तृत्यक्तयोगानाह—आग्नेयैरिति । आग्नेयैः = पापग्रहैः,
अस्तराशिसहितैः = सप्तमस्थानगतैः, विधवा भवति । मिश्रैः = शुभैः पापैश्च सप्तमस्यैः,
पुनर्भूर्भवेत् (पुनर्भू लक्षणमग्रिमश्लोके द्रष्टव्यम् ) पुनरन्येन परिणीता भवेत् । हीनबले,
क्रूरे = पापग्रहे, अस्तगे=सप्तमभावगे, तथाभूते केनचित् सौम्येन = शुभग्रहेण, ईक्षिते =
दृष्टे स्त्री, स्वपतिना प्रोज्झिता = स्वभर्त्रा परित्यक्ता स्यात् । अन्योन्येति । सितावनिजयोः=
शुक्राङ्गारकयोः, यत्र तत्रान्योन्यांशगयोः शुक्रनवांशे भौमः, भौमनवांशे शुक्नो भवेत्तदा सा
अङ्गना = स्त्री, अन्यप्रसक्ता = परपुरुषरक्ता भवति । वा यदि तौ सितावनिजौ, शीतरश्मिना=
चन्द्रेण, सहितौ, द्यूने = सप्तमे भावे भवेतां तदा सा स्त्री, भर्तुरनुज्ञया=पतिनिर्देशेन पर-
पुरुषमुपयाति न तु स्वेच्छयेति । तथा जातकाभरणे—
अन्योन्यांशावस्थितौ भौमशुक्रौ स्यातां कान्तासङ्गताऽन्येन नूनम् ।
चन्द्रोपेतौ शुक्रवक्रौ स्मरस्थावाङ्गेन स्यात् स्वामिनधामनन्ति ॥ १९ ॥
सातवां भाव यदि पापग्रहोंसे युक्त हो तो स्त्री विधवा हो । यदि पापग्रह, शुभग्रह दोनों
हों तो दो बार ब्याही जाय या अनेक पतिवाली हो । बलरहित क्रूरग्रह सप्तम गृहमें हो
उसे शुभग्रह देखता हो तो अपने पतिसे त्यागी जाय ( उसका स्वामी उसको छोड़ दे ) ।
शुक्र और मंगल परस्पर एक दूसरेके अंशमें हों तो अन्य पुरुषमें वह स्त्री प्रसक्त रहे । यदि
दोनों सप्तम भवनमें चन्द्रमासे युक्त हों तो पतिकी आज्ञासे पर पुरुष संगिनी हो ॥ १९ ॥
स्वैरिणी या पतिं त्यक्त्वा सवर्णं कामतः श्रयेत् ।
अक्षतं च प्रजाद्वारं पुनर्भूः संस्कृता पुनः ॥ २० ॥
इदानीं स्वैरिणी-पुनर्भू लक्षणमुच्यते । या स्त्री स्वकीयं पतिं त्यक्त्वा कामतः = स्वे-
च्छया, सवर्णं = निजवर्णतुल्यमन्यं पुरुषं श्रयेत् सा स्वैरिणी भवति । अक्षतमिति । विवाहि-
तायाः यस्याः स्त्रियाः प्रजाद्वारं = यतः प्रजाः ( अपत्यानि ) निःसरन्ति, 'योनिरिति यावत्'
अक्षतं = पुरुषसङ्गेन-(मैथुनेन ) रहितं स्यात् सा स्त्री पुनरन्येन पुरुषेण संस्कृता = विवा-
हिता भवति तदा सा 'पुनर्भूः' भवतीति ॥ २० ॥
जो स्त्री अपने पतिको छोड़कर कामसे ( अपनी इच्छासे ) सवर्ण ( अपने जातिके )
अन्य पुरुषका सेवन करे वह स्वैरिणी कहलाती है । प्रथम पतिसे यदि स्त्रीकी योनि अक्षत
(मैथुन रहित) हो तो उसकी दूसरी शादी होती है, इस लिये उसका नाम पुनर्भू होता है ॥
सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं पुंश्चली पापदृष्टे ॥
कौजे ऽस्त्यंशे सौरिणा व्याधियोनिर्च्चारूश्रोणी वल्लभा सद्ग्रहांशे ॥ २१ ॥
इदानीं जनन्या सह पुंश्चली-व्याधियोनि-सुभगयोगानाह—सौरारक्षं इति । सौर-
रक्षे = शनिभौमराशौ ( १०।११।१।८ = एषामन्यतमराशौ ) लग्नगते तस्मिन्, सेन्दुशुक्रे =
चन्द्रशुक्राभ्यां सहिते, तथाभूते पापदृष्टे = केनचित्पापग्रहेण निरीक्षिते च जाता स्त्री, मात्रा
सह पुंश्चली = जनन्या सहितैव परपुरुषगामिनी स्यात् । कौज इति । अस्तांशे = यज्जन्म-
तसप्तमे राशौ यन्नवांशो भवति तस्मिन्, कौजे = कुजसम्बन्धिके, अर्थात्सप्तमे राशौ भौम-
नवांशे सति तस्मिन्, सौरिणा = शनिना दृष्टे स्त्री व्याधियोनिः = सरोगभगा भवति । चारु
श्रोणी वल्लभा सद्ग्रहांशे = तस्मिन् सप्तमे भावे शुभग्रहस्य नवांशे सति स्त्री चारुश्रोणी
( सुन्दरकटियुक्ता ) वल्लभा = भर्तृप्रिया च भवति । तथा च सारावल्याम्—