सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 440, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 440

(बुध-शुक्र-शुक्लचन्द्रान्यतमेन) वीक्षिते = अवलोकिते च सति जातो नरः, त्रिकालज्ञः =
भूत-वर्त्तमान-भविष्यविद् भवेत् ॥ ६७-६८ ॥
पञ्चमेश-दुःस्थान (६।८।१२) में हो या अदृश्य राशिमें हो तो जातक विशेषकर मन्द-
बुद्धि होता है । यदि पञ्चमेश बुध और गुरुसे युक्त होकर केन्द्र या कोणमें हो तथा बलवान्
हो तो जातक बुद्धिमान् और इशारेसे अभिप्रायको जाननेवाला होता है ॥ ६७ ॥
वृहस्पति अपने नवांशमें, या शुभषड्वर्गमें या गोपुरादि वैशेषिकांशमें, या शुभग्रहके
नवांशमें होकर शुभदृष्ट हो तो जातक त्रिकालज्ञ (भूत-वर्त्तमान-भविष्य जाननेवाला)
होता है ॥ ६८ ॥
हृद्रोगी पञ्चमे पापे सपापे च रसातले ।
क्रूरषष्ट्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६६ ॥
इदानीं जातस्य हृद्रोगयोगमाह—हृद्रोगीति । जातकस्य पञ्चमे भावे पापे = सूर्य-
भौम-शनि-क्षीणचन्द्रान्यतमे तिष्ठति, रसातले = लग्नाच्चतुर्थभावे च सपापे = पापग्रहेण
सहिते सति तथा तत्र क्रूरषष्ट्यंशसंयुक्ते शुभग्रहाणां दृष्ट्या योगेन च वर्जिते सति जातो नरः
हृद्रोगी = हृद्रोगयुक्तो भवति ॥ ६९ ॥
चतुर्थ और पञ्चम भावमें पापग्रह हो, पापषष्ट्यंशसे युक्त हो और शुभग्रहके योग तथा
दृष्टिसे रहित हो तो जातकको हृदय रोग होता है ॥ ६९ ॥
अथ पुण्यविचारः ।
अन्नदानपरो नित्यं पञ्चमेशे शुभांशके ।
शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७० ॥
इदानीं यस्मिन्योगे जातोऽन्नदानपरो भवति तमाह—अन्नदानपर इति । पञ्चमेशे
शुभांशके विलसति, भूमिजे = मङ्गले शुभखेचरेण संयुक्ते केन्द्रमाश्रिते च सति जातो नरः
नित्यं = सततम्, अन्नदानपरः = अन्नदानैकशीलः भवति ॥ ७० ॥
इति पञ्चमभावफलानि ।
पञ्चमेश शुभग्रहके नवांशमें होकर शुभग्रहसे युक्त हो और मङ्गल केन्द्रमें हो तो जातक
अन्नदान करनेमें तत्पर रहता है ॥ ७० ॥
अथ षष्ठभावफलम् ।
तत्रादौ रोगविचारः ।
रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये-
दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिर्भवेत् ।
षष्ठोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बन्धिनौ
लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१ ॥
अथाधुना षष्ठभावफलानि विवक्षुरादौ षष्ठभावे विचारणीयविषयान् ततो रोगयोगं
चाह—रोगत्यादिना । रोगः = आमयः, अरिः = शत्रुः, व्यसनं = दुराचरणम्, क्षतं = व्रणा-
बाघातश्चैतानि वसुधापुत्रारितः = मङ्गलतः षष्ठभावतश्च सञ्चिन्तयेत् = विचारयेत् । तदेव =
षष्ठस्थानं ( भौमान्वितम् ) रोगकरमुक्तम् । जीवे = गुरौ, रिपुगे = षष्ठभावगते सति जातः,
जितारिः = शत्रुनाशको भवेत् । अरीशबुधौ = षष्ठेशो बुधश्च, विधुन्तुदेन = राहुणा युतौ,
लग्नेशस्य सम्बन्धिनौ (स्थान-दृष्टि-मित्र-सहचरान्यतमसम्बन्धयुक्तौ ) भवेतां तदा