जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 439, कुल 588 में से
संदर्भ में पढ़ेंपञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ४१३
चन्द्रसूर्यौ चेद्यदि द्विदेहगौ = द्विस्वभावराशिगतौ भूत्वा केन्द्रे भवेतां तदा पित्रोः, मृत्यु-
दाहौ = मरणं शवदहनञ्च, द्विकालगौ भवेताम् । न खलु मरणावसर एव शवदाहो भवेत् ।
अर्थान्मरणानन्तरं कालान्तरे तच्छवदाहो भवेदिति । अत्रेदं वक्तुं युज्यते-यस्य नरस्य
जन्मकाले सूर्याचन्द्रमसौ केन्द्रे द्विदेहगौ भवतस्तस्य पितरौ स्वजनपरोक्षे ( विदेशादौ )
म्रियेते अतस्तयोः मृत्युदाहौ नैककालौ भवत इति । अर्थादेव जन्मकाले चन्द्रसूर्यौ स्थिरर्क्षे
केन्द्रे भवेतां तदा पितरौ मरणकाल एव पुत्रहस्तेन दह्येते इति ॥ ६५ ॥
सूर्य या चन्द्रमा चर ( मे. क. तु. म. ) राशिका होकर यदि केन्द्र ( १।४।७।१० भाव )
में हो तो पुत्र माता-पिताका दाह ( मरणानन्तर शवदाह ) नहीं करता । यदि सूर्य और
चन्द्रमा द्विस्वभाव ( मि. कं. ध मी ) राशिमें होकर केन्द्रमें हों तो माता-पिताकी मृत्यु
और दाह एक समय नहीं होते, बल्कि मरणके कुछ काल ( दिन ) के बाद दाह होता है ।
अर्थतः सिद्ध हुआ कि स्थिरराशिके चन्द्र और सूर्य यदि केन्द्रमें हों तो पुत्र अपने माता-
पिताका दाह मरण कालही में करता है । सु. शा. कारः ॥ ६५ ॥
अदृश्ययातौ पितृमातृनाथौ पित्रोर्मुखादर्शनदौ भवेताम् ।
पुत्राधिपोऽदृश्यगृहोपगश्चेत्पुत्राननादर्शनदोऽन्त्यकाले ॥ ६६ ॥
इदानीमन्तकाले पित्रोः पुत्रस्य च मुखादर्शनयोगावाह-अदृश्ययाताविति । जातस्य
जन्मकाले पितृमातृनाथौ-पितृमातृभावेशौ ( ५।४ भावपती) यदि अदृश्ययातौ = लग्नभो-
ग्य-सप्तमभुक्तार्न्तगतौ ( अदृश्यचक्रार्धगतौ ) भवतस्तदा जातस्य पित्रोर्मुखादर्शनदौ
भवेतामर्थादस्मिन्योगे जातो नरः पित्रोर्मुखं न पश्येदिति । अथ पुत्राधिपः = जातकस्य
पुत्र-(५) भावेशः चेद्यदि, अदृश्यगृहोपगः = अदृश्यचक्रार्द्धगतः स्यात्तदाऽन्त्यकाले = मर-
णावसरे पुत्राननादर्शनदः स्यात् । अस्मिन्योगे जातो नरो मरणकाले पुत्रमुखं न पश्यती-
त्यर्थः । उभयत्रापि परोक्षस्थितिकारणादिति वक्तव्यम् ॥ ६६ ॥
नवमेश और चतुर्थेश यदि अदृश्य चक्रार्द्ध ( लग्नके भोग्यांश और सप्तमके भुक्तांश
इन दोनोंके मध्य ) में हों तो पुत्र अपने माता और पिताका मुख ( मरनेके समय ) नहीं
देखता । यदि पञ्चमेश अदृश्य राशिमें हो तो मरनेके समय पिता माता अपने पुत्रका मुख
नहीं देख पाते । तात्पर्य यह है कि दोनों योगमें पुत्रके परोक्षमें माता-पिताकी मृत्यु हो ॥
अथ बुद्धिविचारः ।
दुःस्थे बुद्धिस्थानपेऽदृश्यगे वा जातो मन्दप्रायबुद्धि समेति ॥
केन्द्रे कोणे सौम्यवागीशयुक्ते वीर्योपेते बुद्धिमानिङ्गितज्ञः ॥ ६७ ॥
त्रिकालज्ञो भवेज्जीवे स्वांशे मृद्वंशसंयुते
गोपुराद्यंशके वाऽपि शुभांशे शुभवीक्षिते ॥ ६८ ॥
अधुना जातस्य बुद्धिविचारः क्रियते-दुःस्थ इत्यादिद्वाभ्याम् । बुद्धिस्थानपे = पञ्चम-
भावेशे, दुःस्थे = षडष्टव्यय-( ६।८।१२ ) गते, वा अदृश्यगे = अदृश्यचक्रदलंगते सति
जातो नरः मन्दप्रायबुद्धिं = स्थूलबुद्धि, समेति = प्राप्नोति । अत्र योगे जातः मलिनप्रज्ञो
भवतीति । अथ बुद्धिस्थानपे केन्द्रे ( १।४।७।१० ) कोणे ( ५।६ ) गते, तस्मिन् सौम्य-
वागीशयुक्ते = बुधगुर्वोरन्यतरेण द्वाभ्यां वा युक्ते, ( अथवा केवलं बुध-गुरू केन्द्रे कोणे वा
भवेतामित्यपि वक्तुं युज्यते ) वीर्योपेते = बलयुक्ते च सति जातो बुद्धिमान्, इङ्गितज्ञः =
सङ्केतेनैव मनोगतविषयज्ञो भवति ।
जीवे = बृहस्पतौ, स्वांशे = स्वराशेः (९।१२) नवांशे, मृद्वंशेन = शुभषष्ठ्यंशेन संयुते,
अपि वा गोपुराद्यंशके ( १ अ० ४५-५६ श्लो. द्र. ) शुभांशे वा विलसति, शुभग्रहेण