जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 429, कुल 588 में से
संदर्भ में पढ़ेंपञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ४०३
सन्तानरहितो भवति । एवं जीवः कुम्भे स्थितः स्यात्तदाऽपि न सन्ततिर्भवतीति । पूर्वोक्त-
(कुलीर-मीन-कुम्भ-धनुरिति) राशिचतुष्टयानामन्यतमे राशौ पुत्रस्थाने = पञ्चमे भावे,
यदि सुराचार्यः = बृहस्पतिः स्थितो भवति तदाऽसौ गुरुः नृणां = जनिमन्तां, तत्फलं = पुत्रो-
त्पत्तिं कुरुते ॥ ३०-३१ ॥
मीनके गुरुमें थोड़ी सन्तान, धनुस्थ गुरुमें कष्टसे सन्तान, उच्च गुरुमें सन्तानरहित,
कुम्भके गुरुमें सन्तान न होवे ॥ ३० ॥
पुत्रस्थानमें कर्क-मीन-कुम्भ-धनु राशि हो यदि उसपर बृहस्पति हो तो मनुष्योंको
सन्तान उत्पन्न होनेका फल करे ॥ ३१ ॥
+-------------------+-------------------+-------------------+-------------------+
| २ | १ | १२ वृ. १. | १२।८।७।५ |
| ३ | | ४. | |
| | | वृ. ११ | |
+-------------------+-------------------+-------------------+-------------------+
| ४ वृ. ३. | १।२।३।४ | १० | पुत्रोत्पत्तिः |
| | योगाः | | |
+-------------------+-------------------+-------------------+-------------------+
| ५ | ७ | ९ वृ. २. | ४।१२।११। |
| ६ | | ८ | ९ वृ. |
+-------------------+-------------------+-------------------+-------------------+
पापग्रहेण संदृष्टे देवशापात्सुतक्षयः ।
षष्ठाधिपयुते दृष्टे विप्रशापात्सुतक्षयः ॥ ३२ ॥
सुतेशे कुजसंयुक्ते रिपुनाथेन वीक्षिते ।
शुभदृष्टिविहीने च रिपुदोषात्सुतक्षयः ॥ ३३ ॥
नवमे पापसंयुक्ते मन्दयुक्ते सुताधिपे ।
त्रिकोणे मान्दिसंयुक्ते पितृदोषात्सुतक्षयः ॥ ३४ ॥
मातृस्थानगते पापे सुतेशे मन्दसंयुते ।
व्ययनाशगते पापे मातृदोषात्सुतक्षयः ॥ ३५ ॥
राहुकेतुयुते दृष्टे पञ्चमे बलवर्जिते ।
तदीशे वा तथा प्राप्ते सर्पदोषात्सुतक्षयः ॥ ३६ ॥
गुरुपुत्रेशदारेशभूमिजाः संयुता यदि ।
दुर्देवपीडया पुत्रीपुत्रनाशं वदेद् बुधः ॥ ३७ ॥
इदानीं सन्तानक्षयकारणान्याह-पापग्रहेणेत्यादिषड्भिः । सुते, सुतेशे, गुरौ वा पा-
पग्रहेण संदृष्टे सति जातस्य देवशापात् = कस्यचिद् देवस्यावहेलनाप्रयुक्तदोषात् सुतक्षयो
भवति । तस्मिन्नेव षष्ठाधिपेन = षष्ठभावपतिना युते वा दृष्टे विप्रशापात्=ब्राह्मणस्य दुर्वाक्य-
वशात्सुतक्षयो भवति ॥ ३२ ॥
सुतेशे = पञ्चमभावेशे कुजेन संयुक्ते रिपुनाथेन = षष्ठेशेन वीक्षिते तस्मिञ्शुभग्रहदृष्टि-
रहिते च रिपुदोषात् = शत्रोरपराधेन सुतक्षयो भवति ॥ ३३ ॥
नवमे भावे पापग्रहेण संयुक्ते, सुताधिपे = पञ्चमभावेशे, मन्दयुक्ते = शनिना सहिते वा
मान्दिना = गुलिकेन संयुक्ते त्रिकोणे ( ५।९ ) व्यवस्थिते सति पितृदोषात् = पितुरपराधेन
सुतक्षयो भवति ॥ ३४ ॥
कस्मिंश्चित्पापे मातृस्थान- ( ४ भावं ) गते, पापे सुतेशे मन्दसंयुते, अर्थात् कश्चित्पाप-
ग्रहः सुतेशो भूत्वा शनिना सहितः सन्, व्यये ( १२ ) नाशे ( ८ ) वा भवेत् तदा मातृ-
दोषात् = जननीशापवशात्सुतक्षयो वाच्यः ॥ ३५ ॥