सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 428, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 428

४०२ सटीकजातकापारिजाते-
इदानीमनपत्यतायोगानाह-गुरूल्गनेत्यादिशलोकपञ्चकेन ।
१ बृहस्पति-लग्नेश-सप्तमेश-पञ्चमेशा यदि निर्बला भवेयुस्तदा जातस्यानपत्यता
(सन्ततिराहित्यं) भवति । अस्मिन्योगे जातो नरोऽसन्ततिर्भवतीति )
२ पञ्चमे भावे पापग्रहे विद्यमाने पञ्चमेशे नीचगते तत्र शुभग्रहदृष्टिविहीने सति
अनपत्यता भवतीति ।
३ गुरोः लग्नाच्चन्द्राच्च पञ्चमे भावे यदि पापग्रहा भवेयुस्तथा शुभदृष्टियोगरहिता
भवेयुस्तदा अनपत्यता भवति ।
४ पापग्रहः पञ्चमभावगतः पञ्चमेशः पापद्वयमध्यगतः शुभग्रहदृष्टियोगरहितश्च भवेत्तदा
अनपत्यता भवति ।
५ गुरुः पापद्वयमध्यगतः पुत्रेशः (पञ्चमेशः) निर्बलः शुभदृष्टियोगरहितः स्यात्तदा
अनपत्यता भवति ॥ २४-२८ ॥
बृहस्पति, लग्नेश, सप्तमेश और पञ्चमेश, इन सबके बलहीन होनेपर अनपत्यता
(सन्तानरहित) कहे ॥ २४ ॥
पापग्रह पुत्रस्थानमें हो, पुत्रेश नीच राशिमें हो, शुभग्रहकी दृष्टि न हो तो अनप-
त्यता कहे ॥ २५ ॥
बृहस्पति, लग्न और चन्द्रमा इनके पांचवें पापग्रह हों शुभग्रहसे दृष्ट युत न हों तो
अनपत्यता कहे ॥ २६ ॥
पुत्रस्थानमें पापग्रह हो, पुत्रेश पापग्रहके मध्यमें हो, वहां शुभग्रहकी दृष्टि योग न हो
तो अनपत्यता कहे ॥ २७ ॥
पापग्रहोंके बीचमें गुरु हो पुत्रेश निर्बल हो शुभग्रह न देखता हो या न युत हो तो
अनपत्यता कहे ॥ २८ ॥
पुत्रस्थाने बुधक्षेत्रे मन्दक्षेत्रेऽथवा यदि ।
मान्दिमन्दयुते दृष्टे तदा दत्तादयः सुताः ॥ २६ ॥
इदानीं दत्तादिसुतयोगमाह-पुत्रस्थान इति । बुधक्षेत्रे = मिथुनकन्ययोरन्यतरे अथवा
मन्दक्षेत्रे = मकर-कुम्भयोरन्यतरे पुत्रस्थाने = पञ्चमे भावे सति तस्मिन् मान्दिमन्दयुते
दृष्टे=गुलिकशनैश्चरयोरन्यतरेण द्वाभ्यां वा सहिते वा दृष्ट तदा जातस्य दत्तादयः सुताः
भवन्ति । अत्र योगे जातस्य नौरसः पुत्रो भवति, किन्तु दत्तकात्मजादय एव पुत्रत्वेनोप-
भुज्यन्त इति । तथा च फलदीपिकायाम्-
'मान्दं सुतर्क्ष यदि वाऽथ बौधं मान्र्यर्कपुत्रान्वितवीक्षितं चेत् ।
दत्तात्मजः स्यादुदयास्तनाथसम्बन्धहीनो विबलः सुतेशः' इति ।
यदि पुत्रभावमें बुधकी राशि (३।६) वा शनिकी राशिमें (१०।११) शनि वा गुलिक
हो वा इसकी दृष्टि हो तो दत्तक आदि पुत्र हो ॥ २९ ॥
मीनस्थोऽल्पसन्तानश्चापस्थः कृच्छ्रसन्ततिः ॥
असन्ततिः कुलीरस्थो जीवः कुम्भे न सन्ततिः ॥ ३० ॥
पुत्रस्थाने कुलीरे वा मीने कुम्भे शरासने ।
स्थितो यदि सुराचार्यस्तत्फलं कुरुते नृणाम् ॥ ३१ ॥
इदानीं गुरोः स्थितिवशेन सन्तानविचारमाह-मीनस्थ इति । जीवः = गुरुर्यदि मीन-
स्थो भवेत्तदा जातोऽल्पसन्तानः स्यात् । यदि गुरुश्चापस्थः = धनुर्गतः स्यात्तदा,
कृच्छ्रसन्ततिः = कष्टेन सन्तानवान् स्यात् । अत्र योगे जातस्य विविध-(देवाराराधन)
प्रयासेन पुत्रो जायते । यदि गुरुः कुलीरस्थः = कर्कराशिगतः स्यात्तदा असन्ततिः = जातः