जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 162, कुल 588 में से
संदर्भ में पढ़ेंनयनं कर्त्तव्यमिति भावः । अथ पराशराद्यैर्दशायुरेव नक्षत्राशुरपरनाम्ना व्यवह्रियते । तत्र
कृत्तिकादिनवनक्षत्राणां प्रथमावृत्तौ, उत्तरफल्गुनी प्रभृतिनवनक्षत्राणां द्वितीये पर्यये, उत्तरा-
षाढादिनक्षत्रनवकानां तृतीये पर्यये सूर्यादयो नव ग्रहाः स्वामिनो भवन्ति । कृत्तिकायां
जन्म चेत् तदा सूर्यस्य दशा । रोहिण्यां चन्द्रस्यैवं क्रमेण । ते च क्रमिका ग्रहास्तथा तेषां
वर्षप्रमाणानि च पराशरोक्तानि—
रवीन्द्वाराहिजीवार्किबुधकेतुसिताः क्रमात् । आग्नेयाद्भगणेशाः स्युः स्वामिनो वत्सराः क्रमात् ॥
षडाशाः सप्त धृतयो नृपा एकोनविंशतिः । अत्यष्टिः सप्त च नखा उच्चे नीचेऽर्धमुच्यते ॥
सू०=६। चं०=१०। मं० = ७। रा० = १८ । वृ० = १६ । श०=१९ । बु० =
१७ । के०=७। शु० = २० । एतान्युच्चे । एवम् ३।५।३½।९