सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 161, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 161

आयुर्दायाध्यायः ॥ ५ ॥ १३५
अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शनिं दानवपूजितं च ।
तद्रश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ २५ ॥
स्वराशौ, स्वोच्चे, अतिमित्रस्य गृहे, वक्रत्वे च स्थिते ग्रहे गणितागता रश्मयो द्विगु-
णिता भवन्ति । वक्रावसानेऽष्टमभागवर्ज्या अष्टमांशेन रहिता रश्मयो भवन्ति । सपत्ने =
शत्रुराशौ द्वादशभागहानिः कार्या । शनिं, दानवपूजितं=शुक्रं, च हित्वा अस्तङ्गतेषु द्युचरेषु
चार्द्धं ह्रसति । शनिशुक्रयोरस्तङ्गतयोरपि न हानिर्भवति । तथोक्तं—
मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः ।
वक्रे पुनस्तथोच्चे स्वराशिगे तद्वच्चक्रत्वे ॥
द्विगुणाः स्युर्दीधितयो वक्रस्थेऽप्येवमेव स्युः ।
वैरिद्वादशभागे नीचे च भवन्ति षोडशांशोनाः ॥
अस्तं गतो विरश्मिः शनिसितवर्ज्यं ग्रहो ज्ञेयः ॥ इति सारावल्याम् ।
अनेन विधिना लब्धा ये ग्रहाणां रश्मयस्तेषां योगे ग्रहदत्तं रश्मिजमायुः (रश्मियोगतु-
ल्यवर्षकमायुः ) महेन्द्रशास्त्रोदितं=महेन्द्रनामाचार्यकथितमार्या आहुः । तत्र रश्मियोगसङ्-
ख्याफलानि सारावल्यां ३६ अध्याये द्रष्टव्यानि । बाहुल्यभयादत्र नाङ्कितानि ॥ २४-२५ ॥
यदि ग्रह अपनी राशिमें, उच्चमें, अतिसुहृद्के गृहमें, वक्रमें गणितागत रश्मि दूनी
करे । वक्रके अवसानमें अष्टमांश हीन करे । शत्रु स्थानमें हो तो १२ वां भाग घटावे । शनि
और शुक्रको छोड़कर अस्त ग्रह हो तो आधा त्याग दे । सब रश्मियोंके योगतुल्य ग्रहोंके
रश्मिजायु होती है यह महेन्द्रशास्त्रका कहा हुआ श्रेष्ठ विद्वान् कहे हैं ॥ २४-२५ ॥
अथ चक्रायुः ।
रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः ।
सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ २६ ॥
अधुना चक्रायुरुच्यते-रव्यादीति । चक्रायुषो विशेषविवरणं १७ अध्याये द्रष्टव्यम् । इह
दिङ्दर्शनमात्रमेव क्रियते । रव्यादिसप्तग्रहैस्तारकांशानां भुक्तावशेषा ये तैः साधितमब्दसमूहं
वर्षसङ्कुलमायुः । अत्रेदमुक्तं भवति। सूर्यादिसप्तग्रहैः पृथक् पृथग् भुक्तस्य नक्षत्रस्य ये भागा
अवशिष्टास्तेभ्योऽनुपातेनोर्वारितान्यायुर्वर्षाणि समानीय तेषां योगश्चक्रायुर्भवति । तत्रानुपातः
यदि नक्षत्रमानैः ( भभोगैः ) पठितमायुस्तदा भोग्यघटीभिः किमिति सर्वेषामायुः पृथक्
पृथक् भवति । तत्र १७ अध्याये पठितायूंषि-“भूतेकंविशदिरियो नवदिक्सूषोडशाब्धयः सूर्या-
दीनां क्रमादब्दाः” इति । एतदेवायुः सव्यापसव्योपगवाक्यजं ( वक्ष्यमाणम् ) इनादिकानां
ग्रहाणां चक्रायुरार्या वदन्ति ॥ २६ ॥
सूर्यादि सप्तग्रहका तारकांशभुक्तसे अवशिष्ट वर्षोंका जो समूह वही आयु है, वा सूर्या-
दि की आयु सव्यापसव्यसे जो प्राप्त हो वही चक्रायु है ऐसा विद्वान् लोग कहते हैं ॥२६॥
अथ दशायुः ।
आदित्यमुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् ।
आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ २७॥
एतेन दशायुरुच्यते । दशायुषो विवरणं १८ अध्याये द्रष्टव्यम् । इह किञ्चिदुच्यते ।
आदित्यमुख्यनवखेचराणां=सूर्यादिनवग्रहाणां योगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् ।
एतदुक्तं भवति । सूर्यादयो नवग्रहाः पृथक् पृथक् येषु नक्षत्रेषु भवेयुस्तेषां भोग्यघटीभ्योऽ-
नुपातवशाज्जायमानं वर्षाद्यं यत्तत्तेषां दशाजनितमायुः ( दशायुः) स्यात् । अथ अष्टकवर्गजातं
यदायुः प्रोक्तं तत्सकलमेवाहुः तज्ज्ञा आयुर्विषयज्ञाः प्रवदन्ति । नाष्टकवर्गायुषि भुक्तभोग्या-