सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 128, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 128

१०२ सटीकजातकापारिजाते-
ननु चन्द्रः प्रतिमासं सर्वेष्वपि स्थानेषु गच्छतीति किं वर्षान्ते मरणमुक्तमित्युच्यते ।
तेषु न केवलं गते चन्द्रे किन्तु बलवति = बलयुक्ते, चन्द्रे पापैर्दृष्टे च । यस्मिन्मासे बलवान्
चन्द्रः पापद्दष्टश्च पूर्वोक्तस्थानेषु चारवशाद्गच्छेत्तदा मरणं किल इति निश्चयेन मुनिभिः
प्राक्तनैर्गदितं = भाषितं वक्तव्यमिति । उक्तं च सारावल्याम्—
"योगे बलिनः स्थानं स्वं वा लग्नं गतेऽपि वा चन्द्रे ।
बलवति पापैर्दृष्टे वर्षान्ते मृत्युकालः स्यात् ॥" इति ॥ ३९ ॥
जिन अरिष्टोंके फलका समय नहीं लिखा है उनमें योग करनेवाले ग्रहोंमेंसे जो बल-
वान् हो उसकी राशिपर जब गोचरका चन्द्रमा हो उस समय अरिष्ट होगा। अथवा अपनी
राशिमें या लग्नराशिमें चन्द्रमा चारवश जब जाय तथा बलयुक्त रहे और पापग्रहसे दृष्ट रहे
तो १ सालके भीतरमें मृत्यु होती है ऐसा प्राचीन मुनियों ने कहा है। (सु.ज्ञा.कार) ॥३९॥
अथ वर्षद्वयमायुः ।
वक्री शनिर्भौमगृहोपयाततः केन्द्रेऽथवा शत्रुगृहे विनाशे ॥
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ४० ॥

वक्री = वक्रगतिकः, शनिः, भौमगृहो-
(१।८) पयातः सन् केन्द्रे (१।४।७।१०भावे)
अथवा शत्रुगृहे = षष्ठभावे वा विनाशेऽष्टमे
भावे, विद्यमानः, सम्प्राप्तबलेन = पूर्णबलेन,
कुजेन, दृष्टो भवेत् तदा प्रजातं बालकं, वर्ष-
द्वयं जीवयति, तदनन्तरं मारयतीति ॥४०॥

[कुण्डली १ :]

१२१ मं.२ (लग्न)३
११२ वर्षायुः४
१०५
९८ श.७६

वक्री शनि मंगलके गृहमें (१।८) होकर केन्द्रमें हो अथवा छठें या ८ वेंमें हो उसे बल-
वान् मंगल देखता हो तो ऐसे समयका उत्पन्न बालक दो वर्ष तक जीता है ॥ ४० ॥
अथ वर्षत्रयमायुः ।
बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः ॥
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ ४१ ॥

भौमगृहे विद्यमानो बृहस्पतिर्लग्नादष्ट-
मभावगतो भवति, तत्र सूर्येन्दुभौमार्कजदृष्ट-
मूर्तिः=सूर्यचन्द्रमङ्गलशनैश्चरैरवलोकितश्च भ-
वति, तथा भार्गवदृष्टिहीनः = शुक्रदृष्टिरहितो
भवति, तदा प्रजातं बालकं त्रिभिरब्दैः
लोकान्तरं प्रापयति = मारयतीत्यर्थः । उक्तं
च ग्रन्थान्तरे—

[कुण्डली २ :]

४५६ चं. श. (लग्न)७
३३ वर्षायुः८ शु.
२९ र. बु.
१ वृ.१२१११० मं.

"मेषालिगः सुरगुरुर्निधने विशुक्रैरालोकितो गगनगैर्नृ तिकृत् त्रिवर्षात् ।
वर्षद्वयेन रिपुनाशगतस्तथैव वक्री शनिर्बलवता कुसुतेन दृष्टः ॥" इति ॥ ४१ ॥
बृहस्पति मंगलके गृहमें अष्टम भावमें हो (मेष या कन्या लग्नमें इस योगका संभव
होता है) उसे सूर्य-चन्द्रमा-मंगल-शनि देखते हों और शुक्र न देखता हो तो वह बालक
तीन वर्ष में मरे ॥ ४१ ॥