सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 118, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 118

९२ सटीकजातकपारिजाते-
यदि सूर्य, चन्द्रमा चतुर्थ स्थानमें स्थित हों और शनि सप्तममें हो तो माताकी मृत्यु
कहे। यदि लग्नसे छठे स्थानमें क्रूरग्रह हो तो भाईके नाशका कारण होता है ॥ ७ ॥
लग्न और चन्द्रमा क्रूरग्रहसे दृष्ट हों शुभग्रहोंसे दृष्ट-युत न हों और वृहस्पति यदि
केन्द्रमें न हो तो जातककी माता नाशको प्राप्त होवै ॥ ८ ॥
अथ सगर्भामृत्युयोगौ ।
सभानुजे शीतकरे बिलग्नाद् दिवाकरे रिःफगृहोपयाते ।
धरासुते बन्धुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ ६ ॥
विलग्नचन्द्रौ शुभदृग्विहीनावशोभनव्योमचरान्तरस्थौ ।
विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ १० ॥
षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु ।
पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ ११ ॥
लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृष्टिवर्जितौ ।
शस्त्रेण मृत्युं समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ १२ ॥
इदानीं गर्भयुक्तायाः स्त्रिया मरणयोगा उच्यन्ते । लग्नाद्द्वादशे भावे शनिसूर्ययुक्तश्चन्द्रो
भवेत्तथा मङ्गलश्चतुर्थभावे भवेत्तदा तज्जननी = गर्भस्थस्य शिशोर्माता सगर्भा = गर्भयुक्तैव
विपद्यते = म्रियते । अयं विचारो निषेककाले युक्तः, प्रसवे सगर्भाया मरणासम्भवात् । अत
एव गर्भाधाने यद्ययं योगः स्यात्तदा गर्भिण्याः स्त्रिया मरणं भवेदिति । योगान्तरम्-
निषेककाले लग्नं चन्द्रश्च युगपदेकत्र वा पृथक् शुभग्रहदृष्टिरहितौ, पापग्रहद्वयमध्यगतौ च
भवेतां तदा सगर्भा स्त्री मरणमेतीति । उक्तञ्च बृहज्जातके-
'पापद्वयमध्यसंस्थितौ लग्नेन्दू न च सौम्यवीक्षितौ ।
युगपत्पृथगेव वा यदेन् नारी गर्भयुता विपद्यते ॥' इति ।
योगकर्त्तॄणां बलवतो ग्रहस्य मासे मरणं वाच्यमिति ॥ सगर्भामिररणयोगौ ।
अथ पापग्रहाः षष्ठाष्टमव्ययभावगता
भवेयुः तेषु शुभग्रहा न भवेयुः; अथवा पाप-
द्वयवर्ती शुक्नो वा गुरुर्भवेत्तदा सपुत्रा नारी =
पुत्रेण सहिता स्त्री सद्यः = प्रसूतिकाले एव
म्रियते । प्रसवकालिकोऽयं विचारः । निषेके-
ऽप्यस्मिन्योगे सगर्भाया मरणं वाच्यमिति ।
अथ पापखेचरौ = भौमसूर्यौ क्रमेण लग्ना-
[प्रथम चक्र: १-चं. श., २-मं., ३-गु., ४-मं., ५, ६, ७, ८-बु. शु., ९, १०, ११, १२-च. श. सू.]
शस्त्रकृतमृत्युयोगः ।
स्तयातौ ( १।७ ) भवेतां ( कुजो लग्नगतः
सूर्यः सप्तमगतश्च स्यादिति ) तौ च शुभ-
ग्रहयुतिदृष्टिरहितौ यदि स्यातां तदा गर्भिणी
स्त्री शस्त्रेण = खङ्गादिना मृत्युं समुपैति यदा
मासाधिपो ( १७ श्लोके वक्ष्यमाणः ) नष्ट-
करो विबलो भवेत् । अत्रेदमुक्तं भवति-
निषेककाले यो ग्रहो निर्बलो भवेत्तस्य
यस्मिन्मासे आधिपत्यं भव