जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 117, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥४॥ ६१
जन्मकाले चन्द्रे षडष्टव्ययभावानामन्यतमगते, तत्र सूर्यरहितेन पापग्रहेण (मं० श०
रा० के०) वीक्षिते, देवमन्त्री=बृहस्पतिर्विलग्ने प्राप्तोऽपि भवति तदाऽपि बालको मृत्युमुपैति ।
अत्र 'विलग्नयातस्त्वपि देवमन्त्री'त्यनेनेदमुक्तं भवति-लग्नवर्त्ती गुरुररिष्टनाशको भवति ।
“एक एव बली जीवो लग्नस्थोऽरिष्टसञ्चयम् ।
हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥” इत्युक्तेः ।
परञ्च चन्द्रमा यदि षडष्टव्ययगतः पापदृष्टश्च भवति तदानीं लग्नवर्त्तिन्यपि गुरौ
बालकस्य मृत्युरेव भवति । प्रवलारिष्टोऽयमिति भावः ॥ ४ ॥
जन्मकालमें यदि चन्द्रमा छठें, आठवें या १२ वें भावमें रहकर सूर्यके अतिरिक्त पाप-
(मं० श० रा० के०) ग्रहसे देखा जाता हो तो बृहस्पतिके लग्नमें रहने पर भी बालक
मरता ही है, याने यह प्रवल अरिष्ट योग है । (सु० शा० कार) ॥ ४ ॥
गण्डान्ततारासहिते मृगाङ्के पापेक्षिते पापसमन्विते वा ।
बालो लयं याति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥ ५ ॥
गण्डान्तमृक्षसन्धिः ( १ अ. २२ श्लो. ) तेषां ताराः “ज्येष्ठापौष्णभसर्पभान्त्यघ-
टिकायुग्मं च मूलाश्विनीपित्र्यादौ घटिकाद्वयम्” एतेषामन्यतमे विद्यमाने चन्द्रे, पापग्रहेण
निरीक्षिते वा युक्ते बालो लयं = मृत्युं याति । अथवा चन्द्रे कस्मिन्नपि राशौ मृत्युभागगते
( अ. १. श्लो. ५७ द्रष्टव्यम् ) पापग्रहेणावलोकिते तथैव = मृत्युमुपैति ॥ ५ ॥
गण्डान्त नक्षत्रमें चन्द्रमा हो, पापग्रहसे दृष्ट या युत हो, वा चन्द्रम 'मृत्युभागमें पाप-
दृष्ट हो तो बालक मृत्युको प्राप्त हो (मरे) ॥ ५ ॥
अथ पित्रादीनामरिष्टयोगाः ।
ताताम्बिकासोदरमातुलांश्च मातामही मातृपिता च बालः ।
सूर्यादिकैः पञ्चमधर्मयातैः क्रूरर्त्तुंगैराशु हताः क्रमेण ॥ ६ ॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७ ॥
क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीक्षणयोगहीनौ ।
केन्द्रच्युतो यद्यसुरेशमन्त्री जातस्य माता समुपेति नाशम् ॥ ८ ॥
इदानीं तातादीनां मरणयोगा उच्यन्ते । लग्नात्पञ्चमो वा नवमः भावः पापर्क्षो भवेत्,
तत्र सूर्यादिग्रहे प्राप्ते तातादीनामाशु नाशं ब्रूयात् । यथा सूर्ये तातस्य (पितुः) । चन्द्रेऽ-
म्बिकायाः (मातुः) । भौमे सोदरस्य । बुधे मातुलस्य (मातृभ्रातुः) । गुरौ मातामह्याः
(मातृमातुः) । शुक्रे मातृपितुः । शनैश्चरे बालस्य = जातकस्यैव मृत्युर्भवतीति ॥ ६ ॥
अथ सूर्य्याचन्द्रमसौ लग्नाच्चतुर्थभावगतौ भवेतां शनिश्च सप्तमस्थो भवेत्तदाऽयं योगो
मातुः मरणकारको भवति । एवं लग्नात् षष्ठगतोऽशुभग्रहः सोदरस्य नाशको भवति । अत्र
यदा यदा इति पुनरुक्तेन गोचरे वर्षे च षष्ठस्थोऽशुभग्रहः सोदरनाशक इति ध्वन्यते ॥ ७ ॥
अथापरो जननीमरणयोगः । लग्नं चन्द्रश्च पापग्रहनिरीक्षितौ भवेतां तथा
शुभग्रहैरनवलोकितौ वियुक्तौ च भवेतां, गुरुश्च केन्द्रगतो न भवेत् तदा जातस्य माता
नाशमुपैति = म्रियत इत्यर्थः । अर्थादेव यदि चन्द्रः शुभेक्षितयुतो गुरुः केन्द्रे च भवति
तदा शुभं स्यान्मातुरिति ॥ ८ ॥
लग्नसे ५।९ भाव पापग्रहकी राशि हो उसमें सूर्यादि ग्रह हों तो क्रमसे पिता, माता,
भाई, मामा, मातामही ( नानी) मातामह ( नाना) और बालक जल्द नाश
होते हैं ॥ ६ ॥