सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 97, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 97

१.३४१ ] जैमिनीयब्राह्मणम् [ ८९

स्तोमी बालाकिस् सायकं जानश्रुतेयम् अन्तेवासिनम् उद्वापयन्
स्वयशे ऽनुव्याजहार । तथा न्वा अयं जानश्रुतेयम् सामागासीद्
यथास्येदानीं रुधिरम् उत्पतिय्यतीति । अथ हाजिनवासिनो
युध्यमानास् सदः प्रपेदुः । तस्य ह दण्डः पतित्वा रुधिरम्
उत्पातयांचकार । स होवाचाथ कथं गायेद् इति । तस्मै हैतद्
उवाच असृक् इत्य् एव न निर्द्योतयेद् धो इत्य् एव गायेत् । नो
ह सर्वं तृतीयसवनं छन्नं गायेत् । यो हैनं छादयन्तं ब्रूयाद् अंध-
क्षन् वा अयम् उद्गातात्मानं च यजमानं चेति तथा हैव स्याद्
इंद्धाम् एव निर्द्योतयेद् ३इंदीमानीति वै पशव्य सन्ति३ ॥
अथैतत् छ्यावाश्वम् । ऐहो वा एहि या इत्य् एषैते४ गायन्ति ।
वाग् एषा वाग् अनुष्टुब् वाच्य् एतद् वाचा प्रतिष्ठितामेति ।
तद् ध तथा गायन्तं ब्रह्मदत्तं चैकितानेयं गळुना आक्षांकायणो
ऽनुव्याज