जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
DevanagariSanskritpublished106 पृष्ठ
पृष्ठ 96, कुल 106 में से
संदर्भ में पढ़ेंपृष्ठ 96
देवान् सर्वान् लोकान् सर्वान् कामान् आप्नोति ॥
अग्निरू एष यद् रथन्तरम् । अग्निरू वै मृत्युः । स यो ऽन्यत्राक्षरे-
भ्यस् स्तोदिध स एवोद्गाता यजमानं मृत्योरू आस्ये ऽध्यस्यति ।
अथो यो ऽक्षरेषु स्तोद्धि—अन्नम् उ वै स्तोमः—स्तोमेनस्तोमे-
नैव मृत्योर आस्यम् अपिधायैतं मृत्युम् अतितरति । अथो
समुद्र एष यद् रथन्तरम् । अथ यो ऽन्यत्राक्षरेभ्यस् स्तोद्धि
स एवैतं समुद्रं प्रविशति । अथो यो ऽक्षरेषु स्तोद्धि यथा नावा
वा प्लवेन वा द्वीपाद् द्वीपं संक्रमिद् एवम् एवैतं समुद्रम्
अतितरति ॥
स्वर्दृशम् इति निराह । यदा वै स्वर् गच्छत्य् अथामृतो भवति ।
तं सर्वेभ्यो देवेभ्यस् सर्वेभ्यो भूतेभ्यः प्राह स्वर् अयं ब्राह्मणो
ऽगान्न् अमृतो ऽभूद् इति । सर्वे