सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 72, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 72

[६४ ] जैमिनीयब्राह्मणम् [ १.२४४

ह्यासैते एव देवते । एषु लोकेषु सर्वपाप्मानम् अपघ्नत्यौ
तिष्ठतः ॥
यावद् उ ह वा अयम् अग्निर् अस्मिन् लोके दीप्यते तावद्
अमुष्मिन् लोक आदित्यः । न हैव तावद् एवंविदो लोकः
क्षय्यः ॥
यथा ह वा इदम् आयतनम् आयतनीं प्रेप्सेद् एवम् इमं लोकम्
आपः प्रेप्सन्ति याश् चामूर् याश् चेमाः । तायन्न¹ संभिन्दन्त्य्
एतस्यैव स्तोमस्य क्रतोः²। एष षूवैनास् स्तोमो ऽविर्दहते । स
यो न्यावेकस्य राज्यस्यै त्राता द्वयोर् यस् त्रयाणां लोकी वाव
स तेन मन्येत । अन्ये तु सलोक्य् असद् यस् तेषाम्
एको ऽसद् ये ऽस्य लोकस्य त्रातारः । अस्य ह स लोकस्य त्रातृ-
णाम् एको भवति य एवं वेद । तेन लोकी सः । यावद् ध वा
अप्सु एवंविदो ब्राह्मणा भवितारो न हैव तावद् याश् चामूर्
आपो याश् चेमास् ता उभयीस् संपद्येमं लोकं निर्मृष्टारः
॥ २४१ ॥¹²
१ २ व श नासाम् ५ ? एवं कोशेषु ८ व श विं
२ व श एवासांम् ६ ? य श वहिर्दत्य् र ल संविर्दत्य् ९ २ व श राज्ञस्य
३ र ल प्राप्सेद् य व श प्राप्येद् व संभिदत्य् १० ? य २ व श ते नु
४ कोशेषु प्रेप्स्यन्ति ७ ? र कृतोर् ११ ? र अन्ते ल अन्ये
१२ २ ॥ १३ ॥

तस्य वा एतस्याग्निष्टोमस्य गायत्रीम् एव प्रातःसवनं संप-
द्यते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम् । तद् एतत्
स्वयंसंपन्नं प्रातःसवनम् । गायत्रम् एव सर्वम् ॥
अथ चत्वारि छन्दांसि माध्यंदिनं सवनं गायत्री बृहती ककुप्
त्रिष्टुप् । तस्या एतस्यै ककुभो ऽष्टाविंशत्यक्षरायै विंशतिम्
अक्षराणि गायत्र्याम् उपदधाति । सा त्रिष्टुप् संपद्यते । अथ यान्य्
अष्टाव् अतिरिच्यन्ते तानि बृहत्याम् उपदधाति । सा त्रिष्टुप्
संपद्यते । त्रिष्टुब् एव त्रिष्टुप् ॥
अथ षट् छन्दांसि तृतीयसवनं गायत्र्यूष्णिङ्ककुभाव् अनुष्टुब्
जगती बृहती । तस्या एतस्यै गायत्र्यै चतुर्विंशत्यक्षरायै विंशतिम्
अक्षराणि ककुभ्यु उपदधाति । सा जगती संपद्यते । अथ यानि
चत्वार्य् अतिरिच्यन्ते तान्य् उष्णिह्यु उपदधाति । सा द्वात्रिंशद-
क्षराऽनुष्टुप् संपद्यते । अनुष्टुब् एवानुष्टुप् । तां त्रेधा व्यूहति ।
तस्यै षोडशाक्षराण्य् अनुष्टुभ्य् उपदधाति । सा जगती संपद्यते ।
स्वयम् एव परस्ताज् जगती । अथ यानि षोडशातिरिच्यन्ते तानि
यज्ञायज्ञीयस्य बृहत्याम् उपदधाति । सा द्वापञ्चाशदक्षरा जगती
संपद्यते । चत्वार्य् अक्षराणि जगतीम् अतियन्ति य एते चतुष्पादाः
पशवः । अथो स्तना एव विराजो दोहः । अथो प्रतिष्ठैव । यथा
चतुष्पदी प्रतिष्ठाय¹ तथा । तद् व् अत्रैवानुव्येति । न किं चनाति-
रिच्यते । वामदेव्यस्य न्यूने² त्रीण्य् उपदधाति —॥ २४२ ॥³
१ ? यलवश प्रतिष्ठिते र प्रतिष्ठितं २ कोशेषु न्यूनेन ३ २ ॥ १४ ॥

—यज्ञायज्ञीय एकम् ॥
गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीय-
सवनम् । ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति वैश्यस्येव
रयिः पुष्टिर् य एवं वेद ॥
तस्यो एवाक्षरशो गायत्रीम् एव प्रातःसवनं संपद्यन्ते त्रिष्टुभं
माध्यंदिनं सवनं जगतीं तृतीयसवनम् । एकान्नसप्ततिः प्रातः-
स्सवनस्य स्तोत्रियास् षष्टिस् त्रिष्टुभो माध्यंदिनं सवनं चतुर्विं-
शतिश् च जगतीस् तृतीयसवनम् । एका च ककुप् । पुरुषो वै
ककुप् । स ह स यजमान एवैतस्यां संपद्य् अव्यूढः । तद् व् अत्रै-
वानुव्येति । न किं चनातिरिच्यते । एकस्यै ककुभो ऽष्टाविंशत्य-
क्षरायै चत्वार्य् अक्षराण्य् आदाय वामदेव्यस्य न्यूने¹ त्रीण्य्
उपदधाति यज्ञायज्ञीय एकम् । अथ या गायत्री परिशिष्यते
ताम् अद एकान्नसप्तत्यां प्रातःसवनस्य स्तोत्रियासु प्रत्युपदधाति ।
तद् उ ह्यानन्तम् । अनन्तां श्रियं जयति य