सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 61, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 61

१.१९६ ] जैमिनीयब्राह्मणम् [ ५३
प्रजापतिर् यद् देवेभ्यस् तन्वो व्यभजत् ततो या हरि-
वत्य् आसीत् ताम् आत्मने ऽशिशंषत् । ताम् इन्द्राय प्रायच्छत् ।
तयेन्द्रो ज्यैष्ठ्यम् अगच्छत् । तद् यद् हरिवतीषु स्तुवन्ति तद्
ध्य् एव ज्यैष्ठ्यम् । हरिवतीः परोक्षम् अनुष्टुभस् संपद्यन्ते ।
तास् संस्तुताश् चतुस्त्रिंशदक्षरा भवन्ति । ततो ये चतुस्त्रिंशे अक्षरे
साम्नस् ताभ्यां लोको विधीयत इत्य् आहुः । यत् पञ्चत्रिंशद-
क्षरासु स्तुयुः परं रूपम् उपयथेरन् बार्हतम् । यत् त्रयस्त्रिंशद-
क्षरासु स्तुयुर् अवरं रूपम् उपयथेरन् आनुष्टुभम् । यत् सप्तदश-
स्तोमस् स्यात् परमं रूपम् उपयथेरन् । यत् पञ्चदशस्तोमस्
स्याद् अवमं रूपम् उपयथेरन् । यत् षोडशिना षोडशस्तोमेन
चतुस्त्रिंशदक्षरासु स्तुवन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति ।
तेनैभ्यस् समृद्धेन 'स्वायां जनतायाम अर्धुकं भवति ॥
षोडश स्तोत्राणि षोडश शस्त्राणि । तद् द्वात्रिंशत् । द्वात्रिंशदक्षरा-
न्वनुष्टुप् । आनुष्टुभम् षोडश्य् अनुष्टुभं संपन्नः । देवच्छन्दांसि वा
अन्यान्न् आसन्न् असुरच्छन्दान्स्य् अन्यानि ॥ १९२ ॥३
१ प्रारम्भे रश हरिः ओम् ॥ व न्यायार्याय नमः ॥ तावाम्
शुभमस्तु ॥ वेदव्यासशिष्याय जैमि- २ एवं यलव । रश स्वरान् निर- ३ र ॥ १ ॥
एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम् ।
नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम् । ते
देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्जीमहीति । त
एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत । ते द्वयक्षरेण चतुर्दशाक्षरं
त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं
षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम् । अष्टाक्षरे वाढौ । तानि
यत् षोडशषोडश समपद्यन्त तत् षोडशिनष् षोडशित्वम् । तद्
गायत्र्य् एव सप्तदश्य् उपसमपद्यत । तस्माद् आहुस् सप्तदशः
प्रजापतिर् इति ॥
इन्द्रो वै वृत्रम् अजिघांसत् । स प्रजापतिम् उपाधावद् धनानि
वृत्रम् इति । तस्मा एतं षोडशिनं वज्रं प्रायच्छद् यद् अस्य
वीर्यम् आसीत् तद् आदाय शकर्यः । तं नाशक्नोद् धन्तुम् । तं
पुनर् उपाधावद् धनान्य् एव वृत्रम् इति ॥ १९३ ॥२
१ र ॥ २ ॥
तस्मै शकर्यः प्रायच्छत् । ततो वा इन्द्रो वृत्रम् अहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ॥
स ऐक्षत यद्य् असौ दिवा प्रदास्यामि रात्रिम् एषां भ्रातृव्यलोको
ऽभ्यधिरोक्ष्यते । यद्य् असौ नक्तं प्रदास्याम्य् अहर् एषां भ्रातृव्य-
लोको ऽभ्यधिरोक्ष्यत इति । स एतद् अपश्यत् । यावत्य् एतद्
आदित्यो विषितो भवति तस्मै तावत्य् एव प्रायच्छत् । तेना-
सुरान् उभाभ्याम् अहोरात्राभ्याम् अन्तरैत् । उभाभ्याम् एवा-
होरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तरैति य एवं वेद ॥
यथा ह वै सूर्यंत्याध्रायैवं' षोडशी स्तोत्राणां स्वर्गलोकस्य
समष्ट्यै । प्र स्वर्गं लोकम् आप्नोति य एवं वेद ॥ १९४ ॥२
१ ? कोशेषु समैं (व रूमम) त्याधा वैसं (यव यैवम ) २ र ॥ ३ ॥
तद् आहुस् त्रिवृद् एव स्तोमः कार्य इति । स त्रिवृद् वै
वज्रः । वज्रष् षोडशी । अथो आहुष् षोडश' एव कार्य इति ।
पञ्चदशो वै वज्रः । इन्द्रो वज्रस्योद्यन्ता षोडशः । सेन्द्रेण वज्रेण
वृत्रं पाप्मानं हनानीति । सेन्द्रेण हैव वज्रेण द्विषन्तं पाप्मानं
भ्रातृव्यं हन्ति य एवं वेद ॥
अथो आहुस् सप्तदश एव कार्य इति । पञ्चदशो वै वज्रः । इन्द्रो
वज्रस्योद्यन्ता षोडशः । प्रजापतिर् एव सप्तदशः । सो ऽनुष्ठाता
सो ऽभिगोप्ता सो ऽभिवादयिता प्रहर जहि माप्रकमीः इति ।
सेन्द्रेण वज्रेण सम्रजापतिकेन वृत्रं पाप्मानं हनानीति । सेन्द्रेण
हैव वज्रेण सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य
एवं वेद ॥
अथो आहुर् एकविंश एव कार्य इति । सर्वाभ्यो वा एतं सप्तभ्यो
होत्राभ्य इन्द्रो वज्रं निरमिमीत तिस्रस् तिस्र एव होत्रायै । स
एकविंशष् षोडशी समपद्यत । तेनेन्द्रो वृत्रम् अहन् । हन्ति
द्विषन्तं भ्रातृव्यं य एवं वेद ॥
तद् उ होवाच यामनो भ्रातलायनो विराजो वा एष संपदे
षोडशी । वैराजो वै षोडशी विराजिविराजि प्रतिष्ठितः । स यन्नै-
वैतं विराजं संपद्यमानं मन्येत तद्