सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 60, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 60

५२ ] जैमिनीयब्राह्मणम् [ १.१५१
क्षेपीयसी ह खलु वै रात्रिर् अहः । एहीळं भवत्य्
अप्रवर्हाय ॥
यद् ऋचश् च साम्नश् चात्ये१रिच्यत तद् उद्दशीयम् अभवत् ।
सहर्चा च साम्ना च प्रतितिष्ठति य एवं वेद । तद् अनृशंसस्य
कुर्यान् न नृशंसस्य—परिमितजीवी हि नृशंसो ऽतिरिक्तजीव्य्
अनृशंसः —अतिरिक्तस्यैवावरुद्धयै । अथ ह वा एतेन देवास
साम्ना वंशम् इवोधृत्यासुरान् अभ्यत्यक्रामन् । यद् उद्दंशम्
इवोधृत्यासुरान् अभ्यत्यक्रामंस् तद् उद्दशीयम् अभवत् । तद्
उद्दशीयस्योद्दंशीयत्वम् । अभ्य् अजितं जयति न जितं पराजयते
य एवं वेद ॥
सर्वेषां वा एतत् पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति
गायत्रस्य अर्कम्य् अर्कम् अर्काविणो इति रथन्तरस्य ब्रह्माणस् त्वा