जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
DevanagariSanskritpublished106 पृष्ठ
पृष्ठ 55, कुल 106 में से
संदर्भ में पढ़ेंपृष्ठ 55
१.१७१ ] जैमिनीयब्राह्मणम् [ ४७
यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते यमलोकं ह वा अस्य तद्
गच्छति । तद् धापि मृतोदीरिण आहुर् यमस्यैतत् सभायाम्
अपश्याम् इति । तद् एतेन पुनर् आदियते यद् एतं सौम्यं
चरुम् आहरन्ति ॥
तं हावेक्षेत
यन् मे मनो ऽयमं गतं यद् वा मे अपरागतम् ।
राजा सोमेन तद् वयं पुनर् अस्मासु दध्मसि ॥
मनसि मे चक्षुर् अधात् चक्षुषि मे मनः ॥
आयुर्भरया ऋचो माच्छेत्सिंते मा सान्नो भागधेयाद् वियोषम् ॥
इति । तद् धापि छायां पर्यवेक्षेतारमनो ऽप्रणाशाय ॥
अथो सर्पिषोर् अण्योर आदधीत चक्षुष आप्यायनाय । तद् अपि
विज्ञानम् आसाद्¹ । य आत्मानं न परिपश्येद् अपेतासुस् स