सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 38, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 38

Here is a line-by-line transcription of the Sanskrit text from the page in pure Devanagari.


३० ] जैमिनीयब्राह्मणम् [ १.१०८
णैवैनान् तद् रूपेण गायति ॥
अनुष्टुभि¹ प्रस्तुतायां गायत्रम् एव गायन् दिवं मनसा गच्छेत् ।
वाचा गायन् वाक् इति निधनं करोति । परोक्षेणैवैनान् तद् रूपेण
करोति² ॥
पङ्क्त्यां³ प्रस्तुतायां गायत्रम् एव गायन्न ऋतून् मनसा गच्छेत् ।
परोक्षेणैवैनान् तद् रूपेण गायति ॥
ओपम् एवैतद् उत्तमं तृचं गायति । प्रजननो वा एष तृचः ।
ओपम् एव प्रजया पशुभिः प्रजायते य एवं वेद । प्रजापतिर् यत्
प्रजा असृजत ता एतेनैव तृचेनासृजत । पवमानस्य ते कवे वाजिन्
सर्गा असृक्षत इति सर्गांश एवासृजत । असूर्यं वारे अव्यये इति चासृ-
जत । तांसां सृष्टानां परावापाद् अबिभेत् । स एताम् उत्तमां समु-
द्रवतीम् अपश्यत् । तयैनाः अच्छा समुद्रम् इन्दवः इत्य् एव समुद्रेण
समन्तं परिण्यरौधात् । ता अस्य न परोष्यन्त । नास्य वित्तं परो-
प्यते य एवं वेद । अगन्न् ऋतस्य योनिम् आ इति । अहा ह वा
ऋतस्य योनिः । एतस्य ह⁴ वा इदम् अक्षरस्य कृतौ⁵ जाताः
प्रजा गच्छन्ति चा च गच्छन्ति ॥ १०४ ॥⁶
१ वष यद्यनुष्टुभि ३ वष यदि पंक्यां ५ ? यरलवष कृतोर् श कृतोर्
२ ? यल गायति ४ यव श म ६ र ष ॥ ३९ ॥
देवासुरा वा एषु लोकेष्व् अस्पर्धन्तास्मिन्¹ भुवने । ते देवा
अकामयन्तेमान् लोकान्² जयेमासुराञ् स्पर्धां भ्रातृव्यान् इति । त
एतान््य् आज्यानि स्तोत्राण्य् अपश्यन् । तैर अस्तुवत । तैर् इमान्
लोकान् आजयन् । इमम् एव लोकम् आग्नेयेनाजयनन् अन्तरिक्षं
मैत्रावरुणेनामुम् ऐन्द्रेण दिवं पूर्वैन्द्राग्नेन । तद् यद् इमान्
लोकान् आजयंस् तद् आज्यानाम् आज्यत्वम् । एमान् लोकान्
जयति³ स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ॥
ते देवा अब्रुवन् वीमानि भजामहा इति । तेषां ह विभागे न
समपादयन् । ते ऽब्रुवन्न् आजिम् एषाम् अयाम गिरि काष्ठां कृ-
त्वेति । यद् अब्रुवन्न् आजिम् एषाम् अयामेति तद् एषां द्वितीयम्
आज्यत्वम् । यद् उ गिरि काष्ठाम् अकुर्वंस् तस्माद् असौ गिरिः
काष्ठो नाम ॥ १०५ ॥⁴
१ सर्वेषु कोशेषु अस्पर्धन्त (यर २ वष अधिपाठः जयेम ४ र ष ॥ ४० ॥
न्ता) यस्मिन् ३ य अधिपाठः जयति
'तेषां पच्छो' ऽसृज्यन्त । तेषाम् अग्निः प्रथम उदजयत् ।
अथ मित्रावरुणौ अथेन्द्रः । अथैकम् अनुजितम् आसीत् । तद्
इन्द्रो ऽवेद् अभिर् वावेद्म् उज्जेष्यतीति । सो ऽब्रवीद् अग्ने
यतर आवयोर् इदम्³ उजयात् तन् नौ सहासद् इति । तथेति ।
तद् अग्निर् उदजयत् । तद् एनयोस् सहाभवद् अर्धम अग्-
न्यस्य स्तोत्रम् अर्धम अन्यस्य । ऐन्द्राग्नो यज्ञः । स य एवम्
एता देवानाम् उजितीर् वेद यत्र कामयत 'उद् इह' जयेयम्
इत्य् उैव तत्र⁷ जयति ॥
तद् आहुर् यद् आज्यानि सर्वाणि समाननिधनानि केनाजामि
क्रियन्त इति । नानादेवत्यानीति ब्रूयात् तेनाजामीति । अथो यन्
नानारूपाणीति ब्रूयात् तेनो एवेति ॥
ते वा एते पशव एव । यद् आज्यान्य् अन्तस्सद्मसं स्तुवन्ति
तस्माद् ग्राम्याः पशवो ऽन्तर् ग्रामे न्योकसः । पराचीषु पुनर्
अभ्यावर्तन्⁵ । तस्माद् ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं
समावर्तन्ते । नानारूपासु स्तुवन्ति । तस्माद् ग्राम्याः पशवो नाना-
रूपाः । नानादेवत्यासु स्तुवन्ति । तस्माद् ग्राम्याः पशवो नाना ।
ते⁶ यथायथं सायं गृहान् अभ्युपायन्ति ॥ १०६ ॥⁷
१-१ ? एवं यलश । र तेषां ३-३ सर्वेषु कोशेषु त उदितह ६-६ ? कोशेषु नाना न
पच्छशो वष तेषां वचौ ४-४ यरलश उत्तरत्र वष उक्तं ७ र ष ॥ ४१ ॥
२ लक्ष शतरम् ५ वष 'वर्तत
देवासुरास् संयत्ता ज्योङ् न व्यजयन्त । तेष्व् असुरेष्व् इदं
सर्वम् आसीत् । अथैकम् एवाक्षरं देवेष्व् आसीत् । वाग् एव ।
सो ऽग्निर अब्रवीद् अहं वा इदम् अदर्श यथेदं जेष्यामीति ।
तद् वै ब्रूहीत्य् अब्रुवन् । सो ऽब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय
धुराधुरम् आसजामेति । यद् अब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय
धुराधुरम् आसजामेति तद् आज्यधुराम आज्यधूरत्वम्¹ । ते
ऽक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजन् । तान् अजयन् ।
जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ॥
स यदीतरा पुरो विगायेद् ब्यू एवाज्यधुरो गायेत् । स यो हैवं
विद्वान् संग्रामयोस् संनिहितयोर् ब्रूयाद् अक्षरेण त्वा संनिदधा-
मीति परं ग्रामं स हैव तं ग्रामं जयति । अथो यस्मिन्न् एवं
विद् ग्रामे भवति स उ हैव तं ग्रामं जयति ॥
ते देवा अब्रुवन् वीमानि भजामहा इति । तस्माद् उ गिरिः²
काष्ठो नाम ॥ १०७ ॥³
१ रवष अधिपाठः र्तिदिं । श द्वे २-२ ? य र श तस्माद् ग (र गी)ताः तस्मादु गताः
अक्षरे त्रुटिते वष ते वां तस्माद्गिताः ल ते वां ३ र ष ॥ ४२ ॥
सै 'तेषां सकृद् एवं सर्वेषाम् असृज्यन्त¹ । तेषाम् अग्निर्
एवोदजयत् । तस्यापगमनम् अगातस्याक्षो ऽच्छित् । तस्य रथचक्रं
पतित्वा कृष्णाधिकां कोशान्तेन³ पर्यवर्तत । तम् अब्रुवन्न् ईक्षि-
ष्वाक्षादो वा⁴ अयँ श्रेष्टो भविष्यति पाप्मा⁴ वा अस्य पर्यवर्तंति ।
स यो हैवं विद्वांन् परिवर्तयते⁵ ऽक्षाद् एव श्रेष्ठस् स्वानां भवत्य्
अथो हास्य तं पाप्मानम् एव परिवर्तयन्ति ॥