सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 20, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 20

१२ ] जैमिनीयब्राह्मणम् [ १.४३
स यं प्रथमं स्रुवम् उन्नयति तद् वै दर्शपूर्णमासयो रूपम् ।
दर्शपूर्णमासाभ्याम् एवास्थेष्ठं भवति य एवं विद्वान् प्रथमं स्रुवम्
उन्नयति ॥
अथ यं द्वितीयं स्रुवम् उन्नयति तद् वै चातुर्मास्यानां रूपम् ।
चातुर्मास्यैर् एवास्थेष्ठं भवति य एवं विद्वान् द्वितीयं स्रुवम्
उन्नयति ॥
अथ यं तृतीयं स्रुवम् उन्नयति तद् वा इष्टिपशुबन्धानां रूपम् ।
इष्टिपशुबन्धैर् एवास्थेष्ठं भवति य एवं विद्वान् तृतीयं स्रुवम्
उन्नयति ॥
अथ यं चतुर्थं स्रुवम् उन्नयति तद् वै त्र्यम्बकवाजपेयाश्वमेधानां
रूपम् । त्र्यम्बकवाजपेयाश्वमेधैर् एवास्थेष्ठं भवति य एवं विद्वान्
चतुर्थं स्रुवम् उन्नयति ॥
अथ समिधम् आदाय प्राङ् प्रेति । पुरुष इत् समित् । तम् अन्नम्
इन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय । यत्र देवानाम् ऋषीणां
प्रियं धाम तत्र म इदम् अग्निहोत्रं गमय इति । तूष्णीम् उपसा-
दयति । अथ समिधम् अभ्यादधाति स्वर्गस्य त्वा लोकस्य संक्रमणं
हिरण्मयं वंशं दधामि स्वाहा इति । अथ जुहोति । स यां प्रथमां
जुहोति देवांस् तयाप्रीणाति । अथ यां द्वितीयां जुहोत्य् ऋषींस्
तयाप्रीति ॥ ४० ॥
अथोपमार्ष्टि । स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः
प्रीणाति । तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः
कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति ॥
अथ यद् द्वितीयम् उपमार्ष्टि तेन ग्रहांश् च पितॄंश् च
प्रीणाति । तं ग्रहाश् च पितरश् चाहुश् श्रद्धा ते मा विगात् सर्वैः
कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति ॥
अथ यद् द्विर अङ्गुल्या प्राश्नाति स यत् प्रथमं प्राश्नाति तेन प्राणा-
पानौ तृप्यतः । तं प्राणापानाव् आहतुश् श्रद्धा ते मा विगात्
सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति ॥
अथ यद् द्वितीयं प्राश्नाति तेनोदानव्यानौ तृप्यतः । तम् उदाना-
पानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं
लोकम् आप्नुहीति ॥
अथ यत् स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश् च प्रीणाति ।
तं समानव्यानौ गर्भाश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस्
तृप्य स्वर्गं लोकम् आप्नुहीति ॥
अथ यत् स्रुचं निरवनाति तेन देवजनान् प्रीणाति । तं देवजना
आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम्
आप्नुहीति ॥
अथ यत् स्रुचस् संक्षालनं निनयति तेन वयांसि प्रीणाति । तं
वयांस्य् आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं
लोकम् आप्नुहीति ॥
अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सृजन्ति तेन ऋषीन्
प्रीणाति । तम् ऋषय आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस्
तृप्य स्वर्गं लोकम् आप्नुहीति ॥
अथ यत् स्थालीसंक्षालनं निनयति तेन सर्पजनान् प्रीणाति । तं
सर्पजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं
लोकम् आप्नुहीति ॥
अथ यत् पश्चाद् वा पुरस्ताद् वा परिक्रम्य दक्षिणतो ऽग्नीनाम्
आस्ते प्रजापतिर् एव तद् भूत्वास्ते३ कम् अहम् अस्मि कं मम इति ॥ ४१ ॥
१ वष गृ° २-२ यश तत्तो गृद्धिम् संतायते ३ ल१ हुत्वास्ते वष शुक्रवास्ते
भृगुर् ह१ वै वारुणिर् अनूचान आस । स हात्य्२ एव पितरं मेने
ऽति देवान् अत्य् अन्यान् ब्राह्मणान् अनूचानान् । स ह वरुण
ईक्षांचक्रे न वै मे पुत्रः किं चन प्रजानाति । हन्तैनं