सामग्री पर जाएँ
सर्वकोश
हितोपदेशः (हिन्दी अनुवाद सहित)

हितोपदेशः (हिन्दी अनुवाद सहित)

नारायण पण्डित द्वारा

स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)

DevanagariHindipublished302 पृष्ठ

पृष्ठ 218, कुल 302 में से

संदर्भ में पढ़ें
पृष्ठ 218

१९८ हितोपदेशः [ विग्रहः १०४-
दुःख होना अच्छा है परन्तु उस अनुचित काम करनेसे उसका नाश होना अच्छा
नहीं है ॥ १०३ ॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियः सदा ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ १०४ ॥
जिस राजाके पास वैद्य, गुरु और मंत्री सदा हाँमें हाँ मिलाने वाले हों वह
राजा शरीर, धर्म और कोशसे शीघ्र रहित ( नष्ट ) हो जाता है ॥ १०४ ॥
शृणु देव !-
पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति ।
हत्वा भिक्षुं महालोभान्निध्यर्थी नापितो हतः' ॥ १०५ ॥
सुनिये महाराज ! जो वस्तु किसीने पुण्यसे पा ली वह वस्तु मुझे भी मिल
जायगी, यह नहीं सोचना चाहिये; अधिक लोभसे भिखारीको मार कर एक
धनका अभिलाषी नाई मारा गया ॥ १०५ ॥
राजा पृच्छति - 'कथमेतत् ?' । मन्त्री कथयति-
राजा पूछने लगा-'यह कथा कैसी है ?' मंत्री कहने लगा ।-
कथा १०
[ एक क्षत्रिय, नाई और भिखारीकी कहानी १० ]
'अस्त्ययोध्यायां चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना महता
क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरमाराधितः । ततः क्षीणपापो-
ऽसौ स्वप्ने दर्शनं दत्वा भगवदादेशाद्यक्षेश्वरेणादिष्टः - 'यत्त्वमद्य
प्रातः क्षौरं कृत्वा लगुडं हस्ते कृत्वा गृहे निभृतं स्थास्यसि
ततोऽस्मिन्नेवाङ्गणे समागतं भिक्षुं पश्यसि । तं निर्दयं लगुड-
प्रहारेण हनिष्यसि । ततः सुवर्णकलशो भविष्यति, तेन त्वया
यावज्जीवं सुखिना भवितव्यम् ।' ततस्तथानुष्ठिते तद्वृत्तम् । तत्र
क्षौरकरणायानीतेन नापितेनालोक्य चिन्तितम्- 'अये ! निधि-
प्राप्तेरयमुपायः । अहमप्येवं किं न करोमि ?' ततःप्रभृति नापितः
प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते ।
एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्मादपराधा-
त्सोऽपि नापितो राजपुरुषैर्व्यापादितः । अतोऽहं ब्रवीमि-
'पुण्याल्लब्धं यदेकेन' इत्यादि ।