हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
हठयोगप्रदीपिका २५
संस्थाप्य पश्चिमेन भागेन पृष्ठभागेनेति । विधिर्विधानं करयोरित्यर्थात् । तेन
कराभ्यां हस्ताभ्यां दृढं यथा स्यात् तथा पादाङ्गुष्ठौ धृत्वा गृहीत्वा । दक्षिणं करं
पृष्ठतः कृत्वा वामोरुस्थितदक्षिणचरणाङ्गुष्ठं गृहीत्वा । वामकरं पृष्ठतः कृत्वा
दक्षिणोरुस्थितवामचरणाङ्गुष्ठं गृहीत्वेत्यर्थः । हृदये हृदयसमीपे । सामीपिकाधारे
सप्तमी । चिबुकं हनुं निधायोरसश्चतुरङ्गुलान्तरे चिबुकं निधायेति रहस्यम् ।
नासाग्रं नासिकाग्रमालोकयेत् पश्येद् । यन्त्रैतद् यमिनां योगिनां व्याधेर्विनाशं
करोतीति व्याधिविनाशकारि पद्मासनमेतन्नामकं प्रोच्यते, सिद्धैरिति शेषः ॥ ४४ ॥
मतान्तरे—
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ ४५ ॥
मत्स्येन्द्रनाथाभिमतं पद्मासनमाह—उत्तानविति । उत्तानौ ऊरुसंलग्न-
पृष्ठभागौ चरणौ पादौ प्रयत्नतः प्रकृष्टाद् यत्नादूरुसंस्थावूर्वोः सम्यक् तिष्ठत
इत्यूरूसंस्थौ तादृशौ कृत्वा । उर्वोर्मध्ये ऊरुमध्ये । तथा चार्थे । पाणी करावुत्तानौ
कृत्वा । ऊरुसंस्थोत्तानपादोभयपाष्णिसंलग्नपृष्ठं सव्यं पाणिमुत्तानं कृत्वा तदुपरि
दक्षिणं पाणिं चोत्तानं कृत्वेत्यर्थः । ततस्तदनन्तरं दृशौ दृष्टी— ॥ ४५ ॥
नासाग्रे विन्यसेद् राजदन्तमूले तु जिह्वया ।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य पवनं शनैः ॥ ४६ ॥
नासाग्रे नासिकाग्रे विन्यसेद् विशेषेण निश्चलतया न्यशेदित्यर्थः । राज-
दन्तानां दंष्ट्राणां सव्यदक्षिणभागे स्थितानां मूले उभे मूलस्थाने जिह्वया उत्तम्भ्य
ऊर्ध्वं स्तम्भयित्वा । गुरुमुखादवगन्तव्योऽयं जिह्वाबन्धः । चिबुकं वक्षसि निधा-
येति शेषः । शनैर्मन्दमन्दं पवनं वायुमुत्थाप्य । अनेन मूलबन्धः प्रोक्तः ।
२६ हठयोगप्रदीपिका
मूलबन्धोऽपि गुरुमुखादेवावगन्तव्यः । वस्तुतस्तु जिह्वाबन्धेनैवायं चरितार्थः
इति हठरहस्यविदः ॥ ४६ ॥
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४७ ॥
एवं यत्रास्यते तदिदं पद्मासनं पद्मासनाभिधानं प्रोक्तम् । आसनज्ञैरिति
शेषः । कीदृशम् ? सर्वेषां व्याधीनां विशेषेण नाशनं येनकेनापि भाग्यहीनेन
दुर्लभम् । धीमता भुवि भूमौ लभ्यते प्राप्यते ॥ ४७ ॥
कृत्वा संपुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि संनिधाय चिबुकं ध्यायंश्च तच्चेतसि ।
वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन् पूरितं
न्यञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ४८ ॥
एतच्च महायोगिसंमतमिति स्पष्टयितुमन्यदपि पद्मासने कृत्यविशेषमाह —
कृत्वेति । संपुटितौ संपुटीकृतौ करावुत्सङ्गस्थाविति शेषः । दृढतरमतिशयेन दृढं
सुस्थिरं पद्मासनं बद्ध्वा कृत्वेत्यर्थः । चिबुकं हनुं गाढं दृढं यथा स्यात् तथा
वक्षसि वक्षःसमीपे संनिधाय संनिहितं कृत्वा चतुरङ्गुलान्तरेणेति योगिसंप्रदाया-
ज्ज्ञेयम् । जालंधरबन्धं कृत्वेत्यर्थः । तत् स्वस्वेष्टदेवतारूपं ब्रह्म वा । ‘ॐ तत्सदिति
निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' (B. G., XVII. 23) इति भगवदुक्तेः, चेतसि
चित्ते ध्यायन् चिन्तयन् । अपानमनिलम् अपानवायुम् ऊर्ध्वं प्रोत्सारयन् मूलबन्धं
कृत्वा सुषुम्नामार्गेण प्राणमूर्ध्वं नयन् पूरितं पूरकेण अन्तर्धारितं प्राणं न्यञ्चन्
नीचैरधोऽञ्चन् गमयन् । अन्तर्भावितण्यर्थोऽञ्चतिः । प्राणापानयोरैक्यं कृत्वेत्यर्थः ।
नरः पुमानतुलं बोधं निरुपमज्ञानं शक्तिप्रभावाच्छक्तिराधारशक्तिः कुण्डलिनी
हठयोगप्रदीपिका २७
तस्याः प्रभावात् सामर्थ्यादुपैति प्राप्नोति । प्राणापानयोरैक्ये कुण्डलिनीबोधो
भवति । कुण्डलिनीबोधे सुषुम्नामार्गेण प्राणो ब्रह्मरन्ध्रं गच्छति । तत्र गते
चित्तस्थैर्यं भवति । चित्तस्थैर्ये संयमादात्मसाक्षात्कारो भवतीत्यर्थः ॥ ४८ ॥
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् ।
मारुतं धारयेद् यस्तु स मुक्तो नात्र संशयः ॥ ४९ ॥
पद्मासन इति । पद्मासने स्थितो यो योगी योगाभ्यासी पूरितं
पूरकेणान्तर्नीतं मारुतं वायुं सुषुम्नामार्गेण मूर्धानं नीत्वेति शेषः, धारयेत्
स्थिरीकुर्यात् स मुक्तः । अत्र संशयो नास्तीत्यन्वयः ॥ ४९ ॥
अथ सिंहासनम्—
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ ५० ॥
सिंहासनमाह—गुल्फौ चेति । वृषणस्याधः अधोभागे सीवन्याः पार्श्वयोः
सीवन्या उभयभागयोः क्षिपेत् प्रेरयेत् स्थापयेदिति यावत् । गुल्फस्थापनप्रकार-
मेवाह—दक्षिण इति । सीवन्या दक्षिणे भागे सव्यगुल्फं स्थापयेत् । सव्यके
सीवन्याः सव्यभागे दक्षिणगुल्फं स्थापयेत् ॥ ५० ॥
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः संप्रसार्य च ।
व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५१ ॥
हस्ताविति । जान्वोरुपरि हस्तौ तु संस्थाप्य सम्यग् जानुसंलग्नतलौ
यथा स्यातां तथा स्थापयित्वा । स्वाङ्गुलीः हस्ताङ्गुलीः संप्रसार्य सम्यक्
प्रसार्य । व्यात्तवक्त्रः संप्रसारितललज्जिह्वमुखः सुसमाहितः एकाग्रचित्तः
नासाग्रं नासिकाग्रं यस्मिन् निरीक्षेत ॥ ५१ ॥
२८ हठयोगप्रदीपिका
सिंहासनं भवेदेतत् पूजितं योगिपुंगवैः ।
बन्धत्रितयसंधानं कुरुते चासनोत्तमम् ॥ ५२ ॥
एतत् सिंहासनं भवेत् । कीदृशम् ? योगिपुंगवैः योगिश्रेष्ठैः पूजितं प्रस्तुत-
मासनेषूत्तमं सिंहासनं बन्धानां मूलबन्धादीनां त्रितयं तस्य संधानं संनिधानं
कुरुते ॥ ५२ ॥
अथ भद्रासनम्—
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ ५३ ॥
भद्रासनमाह—गुल्फाविति । वृषणस्याधः सीवन्याः पार्श्वयोः सीवन्या
उभयतः । गुल्फौ पादग्रन्थी क्षिपेत् । क्षेपणप्रकारमेवाह—सव्यगुल्फमिति ।
सव्ये सीवन्याः पार्श्वे सव्यगुल्फं क्षिपेत् । तथा पादपूरणे । दक्षगुल्फं तु
दक्षिणे सीवन्याः पार्श्वे क्षिपेत् ॥ ५३ ॥
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् ।
गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः ॥ ५४ ॥
पार्श्वपादौ च पार्श्वसमीपगतौ पादौ पाणिभ्यां भुजाभ्यां दृढं बद्ध्वा
परस्परसंलग्नाङ्गुलिभ्यामुदरसंलग्नतलाभ्यां पाणिभ्यां बद्ध्वेत्यर्थः । एतद्
भद्रासनं भवेत् । कीदृशम् ? सर्वेषां व्याधीनां विशेषेण नाशनम् । गोरक्षेति ।
सिद्धाश्च ते योगिनश्च सिद्धयोगिनः, इदं भद्रासनं गोरक्षासनमित्याहुः ।
गोरक्षेण प्रायशोऽभ्यस्तत्वाद् गोरक्षासनमिति वदन्ति ॥ ५४ ॥
एवमासनबन्धेषु योगीन्द्रो विगतश्रमः ।
अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनक्रियाम् ॥ ५५ ॥
हठयोगप्रदीपिका २९
आसनान्युक्तानि । तेषु यत् कर्तव्यं तदाह—एवमिति । एवमुक्तेष्वा-
सनबन्धेषु बन्धनप्रकारेपु विगतः श्रमो यस्य स विगतश्रमः, आसनानां
बन्धेषु श्रमरहितः । योगिनामिन्द्रो योगीन्द्रः । नाडिकानां नाडीनां शुद्धिम् ।
‘प्राणं चेदिडया पिबेन्नियमितम्’ (II. 10) इति वक्ष्यमाणरूपा मुद्रा
आदिर्यस्याः सूर्यभेदादेस्तादृशीम् । पवनस्य प्राणवायोः क्रियां प्राणायामरूपां
चाभ्यसेत् ॥ ५५ ॥
आसनं कुम्भकं चित्रं मुद्रारूयं करणं तथा ।
अथ नादानुसंधानमभ्यासानुक्रमो हठे ॥ ५६ ॥
अथ हठाभ्यसनक्रममाह—आसनमिति । आसनमुक्तलक्षणं चित्रं
नानाविधं कुम्भकं ‘सूर्यभेदनमुज्जायी’ (II. 44) इत्यादिवक्ष्यमाणम् । मुद्रा
इत्याख्या यस्य तन्मुद्राख्यम् । महामुद्रादिरूपकरणं हठसिद्धौ प्रकृष्टोपकारकम् ।
तथा चार्थे । अथैतत्त्रयानुष्ठानानन्तरं नादस्यानाहतध्वनेरनुसंधानमनुचिन्तनं हठे
हठयोगेऽभ्यासोऽभ्यसनं तस्यानुक्रमः पौर्वापर्यक्रमः ॥ ५६ ॥
ब्रह्मचारी मिताहारी त्यागी योगपरायणः ।
अब्दादूर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥ ५७ ॥
हठसिद्धेरवधिमाह—ब्रह्मचारीति । ब्रह्मचर्यवान् मिताहारो वक्ष्यमाणः
सोऽस्यास्तीति मिताहारी त्यागी दानशीलो विषयपरित्यागी वा योगपरायणः
योगाभ्यसनपरः । अब्दाद् वर्षादूर्ध्वं सिद्धः सिद्धहठो भवेत् । अत्रोक्तेऽर्थे विचारणा
स्यान्न वेति संशयप्रयुक्ता न कार्या । एतन्निश्चितमेवेत्यर्थः ॥ ५७ ॥
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ।
भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते ॥ ५८ ॥
३० हठयोगप्रदीपिका
पूर्वश्लोके मिताहारीत्युक्तं, तत्र योगिनां कीदृशो मिताहार इत्यपेक्षाया-
माह—सुस्निग्धेति । सुस्निग्धोऽतिस्निग्धः स चासौ मधुरश्च तादृश आहारश्चतु-
र्थांशविवर्जितश्चतुर्थभागरहितः । तदुक्तमभियुक्तैः—
‘द्वौ भागौ पूरयेदन्नैस्तोयेनैकं प्रपूरयेत् ।
वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥’ इति ।
शिवो जीवः ईश्वरो वा । ‘भोक्ता देवो महेश्वरः ’ इति वचनात् । तस्य
संप्रीतये सम्यक्प्रीत्यर्थं यो भुज्यते स मिताहार इत्युच्यते ॥ ५८ ॥
कट्वम्लतीक्ष्णलवणोष्णहरीतशाक-
सौवीरतैलतिलसर्षपमद्यमत्स्यान् ।
आजादिमांसदधितक्रकुलत्थकोल-
पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः ॥ ५९ ॥
अथ योगिनामपथ्यमाह द्वाभ्याम्—कट्विति । कटु कारवेल्ल इत्यादि,
अम्लं चिञ्चाफलादि, तीक्ष्णं मरीचादि, लवणं प्रसिद्धम् , उष्णं गुडादि, हरीतशाकं
पत्रशाकम् , सौवीरं काञ्जिकम् , तैलं तिलसर्षपादिक्नेहः, तिलाः प्रसिद्धाः, सर्षपाः
सिद्धार्थाः, मद्यं सुरा, मत्स्यो झषः । एषामितरेतरद्वन्द्वः । एतानपथ्यानाहुः ।
अजस्येदमाजं तदादिर्यस्य सौकरादेस्तदाजादि तच्च तन्मांसं चाजादिमांसम् ,
दधि दुग्धपरिणामविशेषः, तकं गृहीतसारं दधि, कुलत्थो द्विदलविशेषः, कोलं
कोल्याः फलं बदरम् । ‘कर्कन्धूर्बदरी कोलिः’ इत्यमरः (II. 4. 36) । पिण्याकं
तिलपिण्डम् , हिङ्गु रामठं, लशुनम् । एषामितरेतरद्वन्द्वः । एतान्याद्यानि यस्य
तत्तथा । आद्यशब्देन पलाण्डुगृञ्जनमादकद्रव्यमाषान्नादिकं ग्राह्यम् । अपथ्य-
महितम् । योगिनामिति शेषः । आहुर्योगिन इत्यध्याहारः ॥ ५९ ॥
हठयोगप्रदीपिका ३१
भोजनमहितं विद्यात् पुनरस्योष्णीकृतं रूक्षम् ।
अतिलवणमम्लयुक्तं कदशनशाकोत्कटं वर्ज्यम् ॥ ६० ॥
भोजनमिति । पश्चादग्निसंयोगेनोष्णीकृतं यद्भोजनं सूपौदनरोटिकादि रूक्षं
घृतादिहीनम्, अतिशयितं लवणं यस्मिंस्तदतिलवणम्, यद्वा लवणमतिक्रान्तमति-
लवणं चाकूवा इति लोके प्रसिद्धं शाकं, यवक्षारादिकं च । लवणस्य सर्वथा
वर्जनीयत्वादुत्तरपक्षः साधुः । तथा च दत्तात्रेयः—
‘ अथ वर्ज्यानि वक्ष्यामि योगविघ्नकराणि च ।
लवणं सर्षपं चाम्लमुग्रं तीक्ष्णं च रूक्षकम् ।
अतीव भोजनं त्याज्यमतिनिद्रातिभाषणम् ॥’ इति ।
स्कन्दपुराणेऽपि—‘ त्यजेत् कट्वम्ललवणं क्षीरभोजी सदा भवेत् ’ इति ।
अम्लयुक्तमम्लद्रव्येण युक्तमपि त्याज्यं किमुत साक्षादम्लम् । अत्र तृतीयपादं
‘ पललं वा तिलपिण्डम्’ इति केचित् पठन्ति । तस्यायमर्थः । पललं मांसं
तिलपिण्डं पिण्याकं कदशनं कदन्नं यावनालकोद्रवादि शाकं विहितेतरशाकमात्रम्
उत्कटं विदाहि मिरचीति लोके प्रसिद्धं, मिरचा इति हिन्दुस्थानभाषायाम् ।
कदशनादीनां समाहारद्वन्द्वः । अतिलवणादिकं वर्ज्यं वर्जनार्हम् । दुष्टमिति
पाठे दुष्टं पूतिपर्युषितादि । अहितमिति योजनीयम् ॥ ६० ॥
वह्निखीपथिसेवानामादौ वर्जनमाचरेत् ।
तथाहि गोरक्षवचनम्—
वर्जयेद् दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् ।
प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ ६१ ॥
एवं योगिनां सदा वर्ज्यान्युक्त्वाभ्यासकाले वर्ज्यान्याहार्धेन—वह्नीति ।
वह्निश्च स्त्री च पन्थाश्च तेषां सेवा वह्निसेवनस्त्रीसङ्गतिर्थयात्रागमनादि-
३२ हठयोगप्रदीपिका
रूपास्तासां वर्जनमादावभ्यासकाल आचरेत् । सिद्धेऽभ्यासे तु कदाचित् । शीते
वह्निसेवनं गृहस्थस्य ऋतौ स्वभार्यागमनं तीर्थयात्रादौ मार्गगमनं च न निषिद्ध-
मित्यादिपदेन सूच्यते । तत्र प्रमाणं गोरक्षवचनमवतारयति—तथाहीति । तत्पठति
—वर्जयेदिति । दुर्जनप्रान्तं दुर्जनसमीपवासम् । 'दुर्जनप्रीतिम्' इति क्वचित्
पाठः। वह्निस्त्रीपथिसेवनं व्याख्यातम् । प्रातःस्नानम् उपवासश्चादिर्यस्य फलाहारादेः
तच्च तयोः समाहारद्वन्द्वः । प्रथमाभ्यासिनः प्रातःस्नाने शीतविकारोत्पत्तेः ।
उपवासादिना पित्ताद्युत्पत्तेः । कायक्लेशविधिं कायक्लेशकरं विधिं क्रियां बहु-
सूर्यनमस्कारादिरूपां बहुभारोद्वहनादिरूपां च । तथा समुच्चये । अत्र प्रतिपदं
वर्जयेदिति क्रियासंबन्धः ॥ ६१ ॥
गोधूमशालयवषाष्टिकशोभनान्नं
क्षीराज्यखण्डनवनीतसितामधूनि ।
शुण्ठीपटोलकफलादिकपञ्चशाकं
मुद्गादिदिव्यमुदकं च यमीन्द्रपथ्यम् ॥ ६२ ॥
अथ योगिपथ्यमाह—गोधूमेत्यादिना । गोधूमाश्च शालयश्च यवाश्च
षाष्टिकाः षष्ट्या दिनैर्यै पच्यन्ते तण्डुलविशेषास्ते शोभनमन्नं पवित्रान्नं श्यामाक-
नीवारादि तच्चैतेषां समाहारद्वन्द्वः । क्षीरं दुग्धमाज्यं घृतं खण्डः शर्करा नवनीतं
मथितदधिसारः सिता तीव्रपदी खण्डशर्करेति लोके प्रसिद्धा मिसरीति हिन्दुस्थान-
भाषायाम् । मधु क्षौद्रम् एषामितरेतरद्वन्द्वः । शुण्ठी प्रसिद्धा पटोलकफलं परवर
इति भाषायां प्रसिद्धं शाकं तदादिर्यस्य कोशातक्यादेस्तत्पटोलकफलादिकं ‘शेषाद्वि-
भाषा’ (Pāṇ., V. 4. 154) इति कपप्रत्ययः । पञ्चानां शाकानां समाहारः
पञ्चशाकम् । तदुक्तं वैद्यके—
‘सर्वशाकमचाक्षुष्यं चाक्षुष्यं शाकपञ्चकम् ।
जीवन्तीवास्तूमूल्याक्षीमेघनादपुनर्नवाः ॥’ इति ।
हठयोगप्रदीपिका ३३
मुद्गा द्विदलविशेषा आदिर्यस्य तन्मुद्गादि । आदिपदेन आढकी ग्राह्या ।
दिव्यं निर्दोषमुदकं जलम् । यम एषामस्तीति यमिनः तेष्विन्द्रो देवश्रेष्ठो
यो योगीन्द्रस्तस्य पथ्यं हितम् ॥ ६२ ॥
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् ।
मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६३ ॥
अथ योगिनो भोजननियममाह--पुष्टमिति । पुष्टं देहपुष्टिकरमोदनादि
सुमधुरं शर्करादिसहितं स्निग्धं सघृतं गव्यं गोदुग्धघृतादियुक्तं गव्यालाभे
माहिषं दुग्धादि ग्राह्यम् , धातुप्रपोषणं लड्डुकापूपादि । मनोऽभिलषितं पुष्टादिषु
यन्मनोरुचिकरं तदेव योगिना भोक्तव्यम् । मनोऽभिलषितमपि किमविहितं
भोक्तव्यम् , नेत्याह । योग्यमिति । विहितमेवेत्यर्थः । योगी भोजनं पूर्वोक्त-
विशेषणविशिष्टमाचरेत् कुर्यादित्यर्थः । न तु सक्तुभर्जितान्नादिना निर्वाहं
कुर्यादिति भावः ॥ ६३ ॥
युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा ।
अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः ॥ ६४ ॥
योगाभ्यासिनो वयोविशेषारोग्याद्यपेक्षा नास्तीत्याह--युवेति । युवा
तरुणः वृद्धो वृद्धावस्थां प्राप्तः, अतिवृद्धोऽतिवार्द्धकं गतो वा । अभ्यासादा-
सनकुम्भकादीनामभ्यासनात् सिद्धिं समाधितत्फलरूपामाप्नोति । अभ्यासप्रकारमेव
वदन् विशिनष्टि । सर्वयोगेष्विति । सर्वेषु योगेषु योगाङ्गेष्वतन्द्रितोऽनलसः ।
योगाङ्गाभ्यासात् सिद्धिमाप्नोतीत्यर्थः । जीवनसाधने कृषिवाणिज्यादौ जीवन-
शब्दप्रयोगवत् साक्षात्परंपरया वा योगसाधनेषु योगाङ्गेषु योगशब्दप्रयोगः ॥६४॥
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् ।
न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ ६५ ॥
3
३४ हठयोगप्रदीपिका
अभ्यासादेव सिद्धिर्भवतीति द्रढयन्नाह द्वाभ्याम् — क्रियायुक्तस्येति ।
क्रिया योगाङ्गानुष्ठानरूपा तया युक्तस्य सिद्धिर्योगसिद्धिः स्यात् । अक्रियस्य
योगाङ्गानुष्ठानरहितस्य कथं भवेन्न कथमपीत्यर्थः । ननु योगशास्त्राध्ययनेन
योगसिद्धिः स्यान्नेत्याह — नेति । शास्त्रस्य योगशास्त्रस्य पाठमात्रेण केवलेन
पाठेन योगस्य सिद्धिर्न प्रजायते नैव जायत इत्यर्थः ॥ ६५ ॥
न वेषधारणं सिद्धेः कारणं न च तत्कथा ।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६६ ॥
नेति—वेषस्य काषायवस्त्रादेः धारणं सिद्धेर्योगसिद्धेः कारणं न ।
तस्य योगस्य कथा वा कारणं न । किं तर्हि सिद्धेः कारणमित्यत आह—
क्रियैवेति ॥ ६६ ॥
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च ।
सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ ६७ ॥
इति श्रीसहजानन्दसंतानचिन्तामणिखात्मारामयोगीन्द्रविरचितायां
हठप्रदीपिकायामासनविधिकथनं नाम प्रथमोपदेशः
योगाङ्गानुष्ठानस्यावधिमाह — पीठानीति । पीठान्यासनानि चित्रा अनेक-
विधाः कुम्भकाः सूर्यभेदादयः दिव्यान्युत्कृष्टानि करणानि महामुद्रादीनि,
हठसिद्धौ प्रकृष्टोपकारकत्वं करणत्वम् । हठाभ्यासे सर्वाणि पीठकुम्भककरणानि
राजयोगफलावधि राजयोग एव फलं तदवधि तत्पर्यन्तं कर्तव्यानीति शेषः ॥६७॥
इति श्रीहठप्रदीपिकायां ज्योत्स्नाभिधायां ब्रह्मानन्दकृतायां प्रथमोपदेशः
द्वितियोपदेशः
अथासने दृढे योगी वशी हितमिताशनः ।
गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥ १ ॥
अथासनोपदेशानन्तरं प्राणायामान् वक्तुमुपक्रमते—अथेति । अथेति
मङ्गलार्थः । आसने दृढे सति वशी जिताक्षः हितं पथ्यं च तन्मितं च
पूर्वोपदेशोक्तलक्षणं तत्तादृशमशनं यस्य स हितमिताशनः गुरुणोपदिष्टो यो मार्गः
प्राणायामाभ्यासप्रकारस्तेन प्राणायामान् वक्ष्यमाणान् सम्यगुत्साहसाहसधैर्यादि-
भिरभ्यसेत् । दृढे स्थिरे कुक्कुटादिविवर्जिते सिद्धासनादाविति वा योजना ॥ १ ॥
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ २ ॥
‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति महदुक्तेः प्रयोजनाभावे
प्रवृत्त्यभावात् प्राणायामप्रयोजनमाह—चले वात इति । वाते चले सति चित्तं
चलं भवेत् । निश्चले वाते निश्चलं भवेत्, चित्तमित्यत्रापि संबध्यते । वाते चित्ते
च निश्चले योगी स्थाणुत्वं स्थिरदीर्घजीवित्वमिति यावत् । ईशत्वं वाप्नोति ।
ततस्तस्माद् वायुं प्राणं निरोधयेत् कुम्भयेत् ॥ २ ॥
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते ।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ३ ॥
३६ हठयोगप्रदीपिका
यावदिति । देहे शरीरे यावत्कालं वायुः प्राणः स्थितः तावत्कालपर्यन्तं
जीवनमुच्यते लोकैः । देहप्राणसंयोगस्यैव जीवनपदार्थत्वात् । तस्य प्राणस्य
निष्क्रान्तिर्देहाद् वियोगो मरणमुच्यते । ततस्तस्माद् वायुं निरोधयेत् ॥ ३ ॥
मलाकुलासु नाडीषु मारुतो नैव मध्यगः ।
कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ ४ ॥
मलशुद्धेर्हठसिद्धिजनकत्वं व्यतिरेकेणाह—मलाकुलास्विति । नाडीषु
मलैराकुलासु व्याप्तासु सतीषु मारुतः प्राणो मध्यगः सुषुम्नामार्गवाही नैव
स्यात् । अपि तु शुद्धमलास्वेव मध्यगो भवतीत्यर्थः । उन्मनीभाव उन्मन्या
भावो भवनं कथं स्यान्न कथमपीत्यर्थः । कार्यस्य कैवल्यरूपस्य सिद्धिर्निष्पत्तिः
कथं भवेन्न कथंचिदपीत्यर्थः ॥ ४ ॥
शुद्धमेति यदा सर्वं नाडीचक्रं मलाकुलम् ।
तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ ५ ॥
अन्वयेनापि मलशुद्धेर्हठसिद्धिहेतुत्वमाह—शुद्धिमेतीति । यदा यस्मिन्
काले मलैराकुलं व्याप्तं सर्वं समस्तं नाडीनां चक्रं समूहः शुद्धिं मलरहित्यम् एति
प्राप्नोति तदैव तस्मिन्नेव काले योगी योगाभ्यासी प्राणस्य संग्रहणे क्षमः समर्थो
जायते ॥ ५ ॥
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया ।
यथा सुषुम्नानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ ६ ॥
मलशुद्धिः कथं भवतीत्याकाङ्क्षायां तच्छोधकं प्राणायाममाह—
प्राणायाममिति । यतो मलशुद्धिं विना प्राणसंग्रहणे क्षमो न भवति ततस्तस्मादी-
हठयोगप्रदीपिका ३७
श्वरप्रणिधानोत्साहसाहसादिप्रयत्नाभिभूतविक्षेपालस्यादिराजसतामसधर्मया सात्त्वि-
क्या प्रकाशप्रसादशीलया धिया बुद्ध्या नित्यं प्राणायामं कुर्यात् । यथा येन
प्रकारेण सुषुम्नानाड्यां स्थिता मलाः शुद्धिमपगमं प्रयान्ति नश्यन्तीत्यर्थः ॥ ६ ॥
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ७ ॥
मलशोधकप्राणायामप्रकारमाह द्वाभ्याम्—बद्धपद्मासन इति । बद्धं
पद्मासनं येन तादृशो योगी प्राणं प्राणवायुं चन्द्रेण चन्द्रनाड्येड्या पूरयेत् ।
शक्तिमनतिक्रम्य यथाशक्ति धारयित्वा कुम्भयित्वा । भूयः पुनः सूर्येण सूर्यनाड्या
पिङ्गलया रेचयेत् । बाह्यवायोः प्रयत्नविशेषादुपादानं पूरकः । जालंधरादिबन्ध-
पूर्वकं प्राणनिरोधः कुम्भकः । कुम्भितस्य वायोः प्रयत्नविशेषाद् वमनं रेचकः ।
प्राणायामाङ्गरेचकपूरकयोरेवेमे लक्षणे इति । ‘भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ’
(II. 35) इति गौणरेचकपूरकयोर्नातिव्याप्तिः । तयोर्लक्ष्यत्वाभावात् ॥ ७ ॥
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः ।
विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ ८ ॥
प्राणमिति । सूर्येण सूर्यनाड्या पिङ्गलया प्राणमाकृष्य गृहीत्वा शनैर्मन्द-
मन्दमुदरं जठरं पूरयेत् । विधिवद् बन्धपूर्वकं कुम्भकं कृत्वा पुनर्भूयश्चन्द्रेणेडया
रेचयेत् ॥ ८ ॥
येन त्यजेत् तेन पीत्वा धारयेदतिरोधतः ।
रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ ९ ॥
उक्ते प्राणायामे विशेषमाह—येनेति । येन चन्द्रेण सूर्येण वा
त्यजेत् रेचयेत् तेन पीत्वा तेनैव पूरयित्वा । अतिरोधतोऽतिशयितेन रोधेन
३८ हठयोगप्रदीपिका
स्वेदकम्पादिजननपर्यन्तेन । सार्वविभक्तिकस्तसिल् । येन पूरकस्ततोऽन्येन शनै-
रेचयेन्न तु वेगतः । वेगाद् रेचने बलहानिः स्यात् । येन पूरकः कृतस्तेन-
रेचको न कर्तव्यः । येन रेचकः कृतस्तेनैव पूरकः कर्तव्य इति भावः ॥ ९ ॥
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया ।
सूर्याचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां
शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ १० ॥
बद्धपद्मासन इत्याद्युक्तमर्थं पिण्डीकृत्यानुवदन् प्राणायामस्यावान्तरफल-
माह—प्राणमिति । चेदिडया वामनाड्या प्राणं पिबेत् पूरयेत् तर्हि नियमितं
कुम्भितं प्राणं भूयः पुनरन्यया पिङ्गलया रेचयेत् । पिङ्गलया दक्षनाड्या
समीरणं वायुं पीत्वा पूरणानन्तरं बद्ध्वा कुम्भयित्वा वामयेडया त्यजेद् रेचयेत् ।
सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ तयोः । ‘देवताद्वन्द्वे च’ (Pāṇ., VII. 3. 21)
इत्यानङ् । अनेनोक्तेन विधिना प्रकारेण सदा नित्यमभ्यासं चन्द्रेणापूर्य
कुम्भयित्वा सूर्येण रेचयेत्, सूर्येणापूर्य कुम्भयित्वा चन्द्रेण रेचयेदित्याकारकं
तन्वतां विस्तारयतां यमिनां यमवतां नाडीगणा नाडीसमूह। मासत्रयादूर्ध्वतो
मासानां त्रयं तस्मादुपरि शुद्धा मलरहिता भवन्ति ॥ १० ॥
प्रातर्मध्यंदिने सायमध्यरात्रे च कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ११ ॥
अथ प्राणायामाभ्यासकालं तदवधिं चाह— प्रातरिति । प्रातररुणोदय-
मारभ्य सूर्योदयाद् घटिकात्रयपर्यन्ते प्रातःकाले मध्यंदिने मध्याह्ने पञ्चधा
विभक्तस्य दिनस्य मध्यभागे सायं संध्यात्रिनाडीप्रमितार्कास्तादधस्तादूर्ध्वं चेत्यु-
हठयोगप्रदीपिका ३९
क्तलक्षणे संध्याकाले रात्रेर्धमर्धरात्रः तस्मिन्नर्धरात्रे रात्रेर्मध्ये मुहूर्तद्वये च
शनैरशीतिपर्यन्तमशीतिसङ्ख्यावधि चतुर्वारं वारचतुष्टयम् । ‘कालाध्वनोरत्यन्त-
संयोगे’ (Pāṇ., II. 3. 5) इति द्वितीया । चतुर्षु कालेष्वेवैकस्मिन् काले-
ऽशीतिप्राणायामाः कार्याः । अर्धरात्रे कर्तुमशक्तश्चेत् त्रिसंध्यं कर्तव्या इति
संप्रदायः । चतुर्वारं कृताश्चेद् दिनेदिने (३२०) विंशत्यधिकशतत्रयपरिमिताः
प्राणायामा भवन्ति । वारत्रयं कृताश्चेत् (२४०) चत्वारिंशदधिकशतद्वयपरि-
मिता भवन्ति ॥ ११ ॥
कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे ।
उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥ १२ ॥
कनिष्ठमध्यमोत्तमानां प्राणायामानां क्रमेण ज्ञापकविशेषानाह—
कनीयसीति । कनीयसि कनिष्ठे प्राणायामे स्वेदः प्रस्वेदो भवेद् भवति ।
स्वेदानुमेयः कनिष्ठः । मध्यमे प्राणायामे कम्पो भवति । कम्पानुमेयो मध्यमः ।
उत्तमे प्राणायामे स्थानं ब्रह्मरन्ध्रमाप्नोति । स्थानप्राप्त्यनुमेय उत्तमः । ततस्त-
स्माद् वायुं प्राणं निबन्धयेद् नितरां बन्धयेत् । कनिष्ठादीनां लक्षणमुक्तं
लिङ्गपुराणे (VIII. 46-50)—
‘प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम् ।
नीचो द्वादशमात्रस्तु सकृदुद्घात ईरितः ॥
मध्यमस्तु द्विरुद्घातश्चतुर्विंशतिमात्रकः ।
मुख्यस्तु यस्त्रिरुद्घातः षट्त्रिंशन्मात्र उच्यते ॥
प्रस्वेदकम्पोत्थानजनकश्च यथाक्रमम् ।
आनन्दो जायते चात्र निद्रा घूर्णिस्तथैव च ॥
रोमाञ्चो ध्वनिसंवित्तिरङ्गमोटनकम्पनम् ।
४० हठयोगप्रदीपिका
भ्रमणस्वेदजलपाद्यं संविन्मूर्च्छा जयेद् यदा ।
तदोत्तम इति प्रोक्तः प्राणायामः सुशोभनः ॥' इति ।
घूर्णिborder? no: घूर्णिश्चित्तान्दोलनम् । गोरक्षोऽपि—
‘ अधमे द्वादश प्रोक्ता मध्यमे द्विगुणाः स्मृताः ।
उत्तमे त्रिगुणा मात्राः प्राणायामे द्विजोत्तमैः ॥’
उद्घातलक्षणं तु—
‘ प्राणेनोत्सार्यमाणेण अपानः पीड्यते यदा ।
गत्वा चोर्ध्वं निवर्तेत एतदुद्घातलक्षणम् ॥’
मात्रामाह याज्ञवल्क्यः—
‘अङ्गुष्ठाङ्गुलिमोक्षं त्रिस्त्रिर्जानुपरिमार्जनम् ।
तालत्रयमपि प्राज्ञा मात्रासंज्ञां प्रचक्षते ॥’
स्कन्दपुराणे—‘एकश्वासमयी मात्रा प्राणायामो निगद्यते’ । एतद्व्या-
ख्यातं योगचिन्तामणौ । ‘निद्रावशंगतस्य पुंसो यावता कालेनेकः श्वासो गच्छ-
त्यागच्छति च तावत्कालः प्राणायामस्य मात्रेत्युच्यते’ इति । अर्धश्वासाधिकद्वाद-
शश्वासावच्छिन्नः कालः प्राणायामकालः । षड्भिः श्वासैरेकं पलं भवति । एवं
च सार्धश्वासपलद्वयात्मकः कालः प्राणायमकालः सिद्धः । सार्धद्वादशमात्रामितः
प्राणायामो यः स एवोत्तमः प्राणायाम इत्युच्यते । न च पूर्वोदाहृतलिङ्गपुराणगोरक्ष-
वाक्यविरोधः, तत्र द्वादशमात्रकस्य प्राणायामस्याधमत्वोक्तेरिति शङ्कनीयम् ।
‘जानुं प्रदक्षिणीकुर्यान्न द्रुतं न विलम्बितम् ।
प्रदद्याच्छोटिकां यावत् तावन्मात्रेति गीयते ॥’
इति स्कन्दपुराणात् ।
हठयोगप्रदीपिका ४१
'अङ्गुष्ठाङ्गुलिमोक्षं च जानोश्च परिमार्जनम् ।
प्रदद्याच्छोटिकामेकां मात्रा संख्यायते तदा ॥'
इति दत्तात्रेयवचनाच्च । लिङ्गपुराणगोरक्षादिवाक्येष्वेकच्छोटिकावच्छिन्नस्य कालस्य
मात्रात्वेन विवक्षितत्वात् । याज्ञवल्क्यादिवाक्येषु छोटिकात्रयावच्छिन्नस्य कालस्य
मात्रात्वेन विवक्षणात् त्रिगुणस्याधमस्योत्तमत्वं तत्राप्युक्तमित्यविरोधः । सर्वेषु
योगसाधनेषु प्राणायामो मुख्यः तत्सिद्धौ प्रत्याहारादीनां सिद्धेः । तदसिद्धौ
प्रत्याहाराद्यसिद्धेश्च । वस्तुतस्तु प्राणायाम एव प्रत्याहारादिशब्दैर्निगद्यते ।
तथा चोक्तं योगचिन्तामणौ—'प्राणायाम एवाभ्यासक्रमेण वर्धमानः प्रत्याहार-
धारणाध्यानसमाधिशब्दैरुच्यते' इति ।
तदुक्तं स्कन्दपुराणे—
'प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ।
प्रत्याहारद्विषट्केन धारणा परिकीर्तिता ॥
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ।
ध्यानद्वादशकेनैव समाधिरभिधीयते ॥
यत्समाधौ परं ज्योतिरनन्तं स्वप्रकाशकम् ।
तस्मिन् दृष्टे क्रियाकाण्डयातायातं निवर्तते ॥' इति ।
तथा—
'धारणा पञ्चनाडीभिर्ध्यानं स्यात् षष्टिनाडिकम् ।
दिनद्वादशकेन स्यात् समाधिः प्राणसंयमात् ॥'
इति च । गोरक्षादिभिरप्येवमेवोक्तम् । अत्रैवं व्यवस्था । किंचिदूनद्विचत्वारिं-
शद्विपलात्मकः कनिष्ठप्राणायामकालः । अयमेवैकच्छोटिकावच्छिन्नस्य कालस्य
४२ हठयोगप्रदीपिका
मात्रात्वविवक्षया द्वादशमात्रकः कालः। किंचिदूनचतुरशीतिविपलात्मको मध्यम-
प्राणायामकालः। अयमेकच्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया चतुर्विं-
शतिमात्रकः। पञ्चविंशत्युत्तरशतविपलात्मक उत्तमः प्राणायामकालः। अयमेक-
च्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया षट्त्रिंशन्मात्रकः कालः। छोटि-
कात्रायावच्छिन्नस्य कालस्य मात्रात्वविवक्षया तु द्वादशमात्रक एव। बन्धपूर्वकं
पञ्चविंशत्युत्तरशतविपलपर्यन्तं यदा प्राणायामस्थैर्यं भवति तदा प्राणो ब्रह्मरन्ध्रं
गच्छति। ब्रह्मरन्ध्रं गतः प्राणो यदा पञ्चविंशतिपलपर्यन्तं तिष्ठति तदा
प्रत्याहारः। यदा पञ्चघटिकापर्यन्तं तिष्ठति तदा धारणा। यदा षष्टिघटिकापर्यन्तं
तिष्ठति तदा ध्यानम्। यदा द्वादशदिनपर्यन्तं तिष्ठति तदा समाधिर्भवतीति
सर्वं रमणीयम्॥ १२॥
जलेन श्रमजातेन गात्रमर्दनमाचरेत्।
दृढता लघुता चैव तेन गात्रस्य जायते॥ १३॥
प्राणायामानभ्यस्यतः स्वेदे जाते विशेषमाह—जलेनेति। श्रमात्
प्राणायामाभ्यासश्रमाज्जातं तेन जलेन प्रस्वेदेन गात्रस्य शरीरस्य मर्दनं
तैलाभ्यङ्गवदाचरेत् कुर्यात्। तेन मर्दनेन गात्रस्य दृढता दार्ढ्यं लघुता
जाड्याभावो जायते प्रादुर्भवति॥ १३॥
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम्।
ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः॥ १४॥
अथ प्रथमोत्तराभ्यासयोः क्षीरादिनियमानाह—अभ्यासकाल इति।
क्षीरं दुग्धमाज्यं घृतं तद्युक्तं भोजनं क्षीराज्यभोजनम्। शाकपार्थिवादिवत्
समासः। केवले कुम्भके सिद्धेऽभ्यासो दृढो भवति। स्पष्टमन्यत्॥ १४॥
हठयोगप्रदीपिका ४३
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः ।
तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ १५ ॥
सिंहादिवच्छनैरेव प्राणं वशयेन्न सहसेत्याह—यथेति । यथा येन
प्रकारेण सिंहो मृगेन्द्रो गजो वनहस्ती व्याघ्रः शार्दूलः शनैः शनैरेव
वश्यः स्वाधीनो भवेन्न सहसा तथैव तेनैव प्रकारेण सेवितोऽभ्यस्तो वायुः
प्राणो वश्यो भवेत् । अन्यथा सहसा गृह्यमाणः साधकमभ्यासिनं हन्ति
सिंहादिवत् ॥ १५ ॥
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ १६ ॥
युक्तायुक्तयोः फलमाह—प्राणायामेनेति । आहारादियुक्तिपूर्वको
जालंधरादिबन्धयुक्तिविशिष्टः प्राणायामो युक्त इत्युच्यते । तेन सर्वरोगक्षयः
सर्वेषां रोगाणां क्षयो नाशो भवेत् । अयुक्त उक्तयुक्तिरहितो योऽभ्यासस्तद्युक्तेन
प्राणायामेन सर्वरोगसमुद्भवः सर्वेषां रोगाणां सम्यगुद्भव उत्पत्तिर्भवेत् ॥ १६ ॥
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः ।
भवन्ति विविधा रोगाः पवनस्य प्रकोपतः ॥ १७ ॥
अयुक्तेन प्राणायामेन के रोगा भवन्तीत्यपेक्षायामाह—हिक्केति ।
हिक्काश्वासकासा रोगविशेषाः । शिरश्च कर्णौ चाक्षिणी च शिरःकर्णाक्षि,
शिरःकर्णाक्षणि वेदनाः शिरःकर्णाक्षिवेदनाः । विविधा नानाविधा रोगा
ज्वरादयः । पवनस्य वायोः प्रकोपतो भवन्ति ॥ १७ ॥
युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ १८ ॥
४४ हठयोगप्रदीपिका
यतः पवनस्य प्रकोपतो विविधा रोगा भवन्त्यतः । युक्तं युक्तमिति ।
वायुं प्राणं युक्तं युक्तं त्यजेत् । रेचनकाले शनैःशनैरेव रेचयेन्न वेगत इत्यर्थः ।
युक्तं युक्तं च न चाल्पं नाधिकं च पूरयेत् । युक्तं युक्तं च जालंधरबन्धादियुक्तं
बध्नीयात् कुम्भयेत् । एवमभ्यस्येच्चेत् सिद्धिं हठसिद्धिमवाप्नुयात् ॥ १८ ॥
यदा तु नाडीशुद्धिः स्यात् तथा चिह्नानि बाह्यतः ।
कायस्य कृशता कान्तिस्तदा जायेत निश्चितम् ॥ १९ ॥
युक्तं प्राणायाममभ्यस्यतो जायमानाया नाडीशुद्धेर्लक्षणमाह द्वाभ्याम्—
यदात्विति । यदा तु यस्मिन् काले तु नाडीनां शुद्धिर्मलराहित्यं स्यात् तदा
बाह्यतो बाह्यानि । सार्वविभक्तिकस्तसिः । चिह्नानि लक्षणानि, तथाशब्देना-
न्तराण्यपि चिह्नानि भवन्तीत्यर्थः । तान्येवाह — कायस्येति । कायस्य देहस्य
कृशता कार्श्यं कान्तिः सुरुचिर्निश्चितं जायेत ॥ १९ ॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २० ॥
वायोः प्राणस्य यथेष्टं बहुवारं धारणं कुम्भकेषु । अनलस्य जठराग्नेः
प्रदीपनं प्रकृष्टता दीप्तिर्नादस्य ध्वनेरभिव्यक्तिः प्राकट्यमारोग्यमरोगता नाडिशोध-
नाद् नाडीनां शोधनाद् मलराहित्याज्जायते ॥ २० ॥
मेदश्लेष्माधिकः पूर्वं षट् कर्माणि समाचरेत् ।
अन्यस्तु नाचरेत् तानि दोषाणां समभावतः ॥ २१ ॥
मेदाद्याधिक्ये उपायान्तरमाह—मेदश्लेष्माधिक इति । मेदश्च श्लेष्मा
च मेदश्लेष्माणौ तावधिकौ यस्य स तादृशः पुरुषः । पूर्वं प्राणायामाभ्यासात्
प्राङ् न तु प्राणायामाभ्यासकाले षट् कर्माणि वक्ष्यमाणानि समाचरेत्