हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 53, कुल 307 में से
संदर्भ में पढ़ेंद्वितियोपदेशः
अथासने दृढे योगी वशी हितमिताशनः ।
गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥ १ ॥
अथासनोपदेशानन्तरं प्राणायामान् वक्तुमुपक्रमते—अथेति । अथेति
मङ्गलार्थः । आसने दृढे सति वशी जिताक्षः हितं पथ्यं च तन्मितं च
पूर्वोपदेशोक्तलक्षणं तत्तादृशमशनं यस्य स हितमिताशनः गुरुणोपदिष्टो यो मार्गः
प्राणायामाभ्यासप्रकारस्तेन प्राणायामान् वक्ष्यमाणान् सम्यगुत्साहसाहसधैर्यादि-
भिरभ्यसेत् । दृढे स्थिरे कुक्कुटादिविवर्जिते सिद्धासनादाविति वा योजना ॥ १ ॥
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ २ ॥
‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति महदुक्तेः प्रयोजनाभावे
प्रवृत्त्यभावात् प्राणायामप्रयोजनमाह—चले वात इति । वाते चले सति चित्तं
चलं भवेत् । निश्चले वाते निश्चलं भवेत्, चित्तमित्यत्रापि संबध्यते । वाते चित्ते
च निश्चले योगी स्थाणुत्वं स्थिरदीर्घजीवित्वमिति यावत् । ईशत्वं वाप्नोति ।
ततस्तस्माद् वायुं प्राणं निरोधयेत् कुम्भयेत् ॥ २ ॥
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते ।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ३ ॥