हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 48, कुल 307 में से
संदर्भ में पढ़ें३० हठयोगप्रदीपिका
पूर्वश्लोके मिताहारीत्युक्तं, तत्र योगिनां कीदृशो मिताहार इत्यपेक्षाया-
माह—सुस्निग्धेति । सुस्निग्धोऽतिस्निग्धः स चासौ मधुरश्च तादृश आहारश्चतु-
र्थांशविवर्जितश्चतुर्थभागरहितः । तदुक्तमभियुक्तैः—
‘द्वौ भागौ पूरयेदन्नैस्तोयेनैकं प्रपूरयेत् ।
वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥’ इति ।
शिवो जीवः ईश्वरो वा । ‘भोक्ता देवो महेश्वरः ’ इति वचनात् । तस्य
संप्रीतये सम्यक्प्रीत्यर्थं यो भुज्यते स मिताहार इत्युच्यते ॥ ५८ ॥
कट्वम्लतीक्ष्णलवणोष्णहरीतशाक-
सौवीरतैलतिलसर्षपमद्यमत्स्यान् ।
आजादिमांसदधितक्रकुलत्थकोल-
पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः ॥ ५९ ॥
अथ योगिनामपथ्यमाह द्वाभ्याम्—कट्विति । कटु कारवेल्ल इत्यादि,
अम्लं चिञ्चाफलादि, तीक्ष्णं मरीचादि, लवणं प्रसिद्धम् , उष्णं गुडादि, हरीतशाकं
पत्रशाकम् , सौवीरं काञ्जिकम् , तैलं तिलसर्षपादिक्नेहः, तिलाः प्रसिद्धाः, सर्षपाः
सिद्धार्थाः, मद्यं सुरा, मत्स्यो झषः । एषामितरेतरद्वन्द्वः । एतानपथ्यानाहुः ।
अजस्येदमाजं तदादिर्यस्य सौकरादेस्तदाजादि तच्च तन्मांसं चाजादिमांसम् ,
दधि दुग्धपरिणामविशेषः, तकं गृहीतसारं दधि, कुलत्थो द्विदलविशेषः, कोलं
कोल्याः फलं बदरम् । ‘कर्कन्धूर्बदरी कोलिः’ इत्यमरः (II. 4. 36) । पिण्याकं
तिलपिण्डम् , हिङ्गु रामठं, लशुनम् । एषामितरेतरद्वन्द्वः । एतान्याद्यानि यस्य
तत्तथा । आद्यशब्देन पलाण्डुगृञ्जनमादकद्रव्यमाषान्नादिकं ग्राह्यम् । अपथ्य-
महितम् । योगिनामिति शेषः । आहुर्योगिन इत्यध्याहारः ॥ ५९ ॥