हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 200, कुल 307 में से
संदर्भ में पढ़ें१८२ हठयोगप्रदीपिका
'तावद् बद्धोऽप्यसिद्धोऽसौ नरः सांसारिको मतः ।
यावद् भवति देहस्थो रसेन्द्रो ब्रह्मरूपकः ॥
असिद्धं तं विजानीयान्नरमब्रह्मचारिणम् ।
जरामरणसंकीर्णं सर्वक्लेशसमाश्रयम् ॥'
इति । यावत् तत्त्वं चित्तं ध्याने ध्येयचिन्तने सहजसदृशं स्वाभाविकध्येयाका-
रवृत्तिप्रवाहवन्नैव जायते नैव भवति, प्राणवातप्रबन्धादिति देहलीदीपन्यायेनात्रापि
संबध्यते । वायुस्थैर्ये चित्तस्थैर्यमुक्तममृतसिद्धौ—
'यदासौ श्रियते वायुर्मध्यमां मध्ययोगतः ।
तदा बिन्दुश्च चित्तं च म्रियते वायुना सह ॥'
तदभावेऽह्यसिद्धत्वमुक्तममृतसिद्धौ—
'यावत् प्रस्यन्दते चित्तं बाह्याभ्यन्तरवस्तुषु ।
असिद्धं तद्विजानीयाच्चित्तं कर्मगुणान्वितम् ॥'
इति । तावद्यज्ज्ञानं शाब्दं वदति कश्चित् तदिदं ज्ञानकथनं दम्भमिथ्याप्रलापः
दम्भेन ज्ञानकथनेनाहं लोके पूज्यो भविष्यामीति धिया मिथ्याप्रलापो मिथ्या-
भाषणं दम्भपूर्वकं मिथ्याभाषणमित्यर्थः । प्राणबिन्दुचित्तानां जयाभावे ज्ञानस्या-
भावात् संसृतिर्दुर्धारा । तदुक्तममृतसिद्धौ—
'चलत्येष यदा वायुस्तदा बिन्दुश्चलः स्मृतः ।
बिन्दुश्चलति यस्याङ्गे चित्तं तस्यैव चञ्चलम् ॥
चले बिन्दौ चले चित्ते चले वायौ च सर्वदा ।
जायते म्रियते लोकः सत्यं सत्यमिदं वचः ॥'