हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 199, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १८१
एवं योगमुपासीनः शक्रादिपदनिस्पृहः ।
सिद्ध्यादिवासनात्यागी जीवन्मुक्तो भवेन्मुनिः ॥' इति ।
'विस्तरस्य भिया नोक्ताः सन्ति विघ्ना ह्यनेकशः ।
ध्यानेन विष्णुहरयोर्वारणीया हि योगिना ॥' इति ॥ ११३ ॥
यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे
यावद् बिन्दुर्न भवति दृढः प्राणवातप्रबन्धात् ।
यावद् ध्याने सहजसदृशं जायते नैव तत्त्वं
तावज्ज्ञानं वदति तदिदं दम्भमिथ्याप्रलापः ॥ ११४ ॥
इति श्रीसहजानन्दसंतानचिन्तामणिस्वात्मारामयोगीन्द्रविरचितायां
हठयोगप्रदीपिकायां समाधिलक्षणं नाम चतुर्थोपदेशः
अयोगिनां ज्ञानं निराकुर्वन् योगिनामेव ज्ञानं भवतीत्याह-
यावदिति । मध्यमार्गे सुषुम्नायां चरन् गच्छन् मारुतः प्राणवायुः यावत्
यावत्कालपर्यन्तं न प्रविशति प्रकर्षेण ब्रह्मरन्ध्रपर्यन्तं न विशति । ब्रह्मरन्ध्रे
गतस्य स्थैर्याद् ब्रह्मरन्ध्रं गत्वा न स्थिरो भवतीत्यर्थः । सुषुम्नायामसंचरन्
वायुरसिद्ध इत्युच्यते । तदुक्तममृतसिद्धौ-
'यावद्वि मार्गगो वायुर्निश्चलो नैव मध्यगः ।
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ॥'
इति । प्राणयति जीवयतीति प्राणः स चासौ वातश्च प्राणवातः तस्य प्रबन्धात्
कुम्भकेन स्थिरीकरणाद्विन्दुर्वीर्यं दृढः स्थिरो न भवति प्राणवातस्थैर्ये बिन्दुस्थैर्य-
मुक्तमत्रैव प्राक् ।
'मनःस्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् ।' (IV. 28)
इति । तदभावे त्वसिद्धत्वं योगिनः । उक्तममृतसिद्धौ-