हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 201, कुल 307 में से
संदर्भ में पढ़ेंइति। योगबीजेऽप्युक्तम्—
'चित्तं प्रनष्टं यदि भासते वै तत्र प्रतीतो मरुतोऽपि नाशः ।
न वा यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः ॥'
इति। एतेन प्राणबिन्दुमनसां जये तु ज्ञानद्वारा योगिनो मुक्तिः स्यादेवेति
सूचितम् । तदुक्तममृतसिद्धौ ।
'यामवस्थां व्रजेद् वायुर्बिन्दुस्तामधिगच्छति ।
यथा हि साध्यते वायुस्तथा बिन्दुप्रसाधनम् ॥
मूर्च्छितो हरति व्याधिं वृद्धः खेचरतां नयेत् ।
सर्वसिद्धिकरो लीनो निश्चलो मुक्तिदायकः ।
यथावस्था भवेद् बिन्दोश्चित्तावस्था तथा तथा ॥'
इति । ननु—
'योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥'
(Bhāg., XI. 20. 6)
इति भगवदुक्तास्त्रयो मोक्षोपायास्तेषु सत्सु कथं योग एव मोक्षोपायत्वेनोक्त
इति चेन्न; तेषां योगाङ्गेष्वन्तर्भावात् । तथाहि—'आत्मा वा अरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (Bṛh., II. 4. 5) इति श्रुत्या परम-
पुरुषार्थसाधनात्मसाक्षात्कारहेतुतया श्रवणमनननिदिध्यासनान्युक्तानि । तत्र
श्रवणमनने नियमान्तर्गते स्वाध्यायेऽन्तर्भवतः । स्वाध्यायश्च मोक्षशास्त्राणा-
मध्ययनम् । स च तात्पर्यार्थनिर्णयपर्यवसायी ग्राह्यः । तात्पर्यार्थनिर्णयश्च
श्रवणमननाभ्यां भवतीति श्रवणमननयोः स्वाध्यायेऽन्तर्भावः । नियमविवरणे