सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

११ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । ६६१
एवमेकविधः कालो द्विविधोऽयनभेदतः ॥
अयने द्वे समाख्याते दक्षिणोत्तरसंस्थिते ॥ ३ ॥
आदानं च विसर्गश्च संज्ञे द्वे कीर्तिते मया ॥
उत्तरायणमादानं विसर्गो दक्षिणायनम् ॥ ४ ॥
तत्र त्वादानमाग्नेयं विसर्गः सौम्य उच्यते ॥
शिशिरश्च वसन्तश्च ग्रीष्मश्चाऽऽदानमुच्यते ॥ ५ ॥
विसर्गे वर्ष(?)विज्ञेयः शरद्धेमन्त एव च ॥
विसर्गे वायवो वा(वा)न्ति नात्यर्थं रूक्षदारुणः(णाः) ॥ ६ ॥
गुणैराप्यायते सोमश्वांशुभिः पूरयञ्जगत् ॥
शश्वदाप्यापयतयेवं यद्बलं विसृजत्यलम् ॥ ७ ॥
प्रवृत्तौ च निवृत्तौ च ज्ञेयं पर्याययोगतः ॥
रसौ तत्राम्ललवणौ मधुरश्चापि इष्यते ॥ ८ ॥
स्निग्धत्वाच्चापि कालस्य सौम्यत्वाच्च निसर्गतः ॥
यथाक्रमं बलं तेजो जायते तत्र हस्तिनः ॥ ९ ॥
आदाने रूक्षपरुषा दारुणा वान्ति वायवः ॥
उत्तराभिमुखे सूर्ये चन्द्रसैन्यं विहन्यते ॥ १० ॥
विवस्वानंशुभिस्तीक्ष्णैर्जगत्स्नेहं प्रकर्षति ॥
तस्मादादानमाग्नेयमृषयः परिचक्षते ॥ ११ ॥
कालस्वभावमार्गस्य तथेश्वरपरिग्रहात् ॥
वाय्वर्कसोमा जगतो हेतुभूता न संशयः ॥ १२ ॥
कालं तु रसदोषाणां तथा देहबलस्य च ॥
प्रवृत्तौ च निवृत्तौ च ज्ञेयाः (?) पर्याययोगतः ॥ १३ ॥
यथाक्रमं रौक्ष्यवृत्तिरादानस्योपदिश्यते ॥
तस्माद्रूक्षा रसास्तत्र विवर्धन्ते क्रमात्त्रयः ॥ १४ ॥
तिक्तः कषायः कटुकश्चतुर्थो नास्ति कश्चन ॥
क्रमाद्दौर्बल्यमिच्छन्ति प्राणिनां रससेवनात् ॥ १५ ॥
रसश्चाम्लोऽथ लवणो मधुरश्च विवर्धते ॥
स्निग्धत्वाच्चापि कालस्य सौम्यत्वाच्च निसर्गतः ॥ १६ ॥
१ क. ॰दूसर॰ ।

यथाक्रमं बलं चैव योजन(प)न्त्यत्र हस्तिनाम् ॥
इत्युक्तो द्विविधः कालस्त्रिविधः *संप्रवक्ष्यते ॥ १७ ॥
शीतोष्णवर्षलिङ्गस्तु चतुर्मासविभागशः ॥
१षड्धंस्त्वेष भेदेन निसिद्धः *संप्रवक्ष्यते ॥ १८ ॥
हेमन्तः शिशिरश्चैव वसन्तो ग्रीष्म एव च ॥
वर्षा शरच्च ऋतवः षडुक्ताः कालचिन्तकैः ॥ १९ ॥
हेमन्ते हिमतेजोभिरंशुभिर्भगवान्रविः ॥
न तापयति भूतानि न च कर्षयति प्रजाः ॥ २० ॥
खे नीचैश्चन्द्रमा याति किरणैर्योजयन्प्रजाः ॥
मृदुशीतश्च पवनो वाति कालस्वभावतः ॥ २१ ॥
तस्मात्तस्मिन्नृतौ यान्ति विवृद्धिं मधुरा रसाः ॥
बलवन्तस्तु तेनात्र नागास्तु रससेवनात् ॥ २२ ॥
पित्तं तेषां शमं याति रसयोगात्समीरितम् ॥
चयं गच्छति च श्लेष्मा शोणितं च प्रसीदति ॥ २३ ॥
बलिनः शीतसंरोधात्तदेषां पावको बली ॥
द्रव्यमात्रागुरुसहो भवत्यवहितः ²पचन् ॥ २४ ॥
आयुक्ते त्वनलीभात्तु(?) स हिनस्ति शरीरजम् ॥
हेमन्ते त्वनिलः शीतः शीतकाले प्रकुप्यति ॥ २५ ॥
स गैरकः सर्वसेकस्तस्मादस्मिन्नृतौ चरः ॥
स्थानानि च निवातानि निष्कर्दमजलानि च ॥ २६ ॥
शय्याभागाश्च मृदवः सकरीषास्तुता हिताः ॥
आतपासेवनं चात्र कौपं तोयं च शस्यते ॥ २७ ॥
स्थलजं जाङ्गलं चात्र ३हस्तिनां यवसं हितम् ॥
सकृद्देवावगाहश्च कर्म चात्र विधीयते ॥ २८ ॥
शालीनां षष्टिकानां च द्विकालं मृदुभोजनम् ॥
भोजयेद्वारणं स्निग्धैर्युक्ताम्ललवणै रसैः ॥ २९ ॥
प्रसहानूपजलजैर्मांसपुटैर्यथाविधि ॥
वेसवारयुतैश्चात्र भोजनार्थं प्रशस्यते ॥ ३० ॥

  • 'वक्ष्यते' इति तूचितम् ।
    १ क. °त्यागस° । २ क. पतन् । ३ क. हस्तिनं ।

१९ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । ६४५
सुरा च प्रतिपानार्थं पञ्चभिर्लवणैर्युता ॥
सततं शस्यते चात्र शिरश्चरणरक्षणम् ॥ ३१ ॥
मषीयुक्तेन तैलेन शिरोभ्यङ्गश्च पूजितः ॥
पूर्वरात्राच्चतुर्भागं तथैवापररात्रिकम् ॥ ३२॥
प्रयत्नाच्चारयेन्नागं दिवसाल्पतया बुधः ॥
एवमायुर्बलं वीर्यं जवस्तेषां महीपते ॥ ३३ ॥
हेमन्ते यदुपाश्नन्ति वृक्षान्स्निग्धान्गुरून्गजाः ॥
आहारांस्तेन जीवन्ति तद्वर्षं नात्र संशयः ॥ ३४ ॥
शिशिरे हिमनीहारमारुतैर्भास्करांशवः ॥
सहिता न प्रकाशन्ते दिशश्च तमसाऽऽवृताः ॥ ३५ ॥
आदानपोगाद्रूक्षेऽतिशीतश्चापि प्रभञ्जनः ॥
वाति तिक्तो रसस्तस्मात्तस्मिन्काले विवर्धते ॥ ३६ ॥
दारुणत्वादृतौ तस्माद्रौक्ष्यं भवति दन्तिनः ॥
विधिस्तत्रापि सर्वोक्तः कर्तव्यः शिशिरे बुधैः ॥ ३७ ॥
शिशिरः किंचिदधिकः प्रोक्तो हेमन्तकालतः ॥
तस्माद्विशिष्यते तस्मिन्नृतौ तत्र प्रच(त्व)क्ष्यते ॥ ३८ ॥
तदा गजानां शालासु ज्वलयेत्तु हुताशनम् ॥
कम्बलावरणं चात्र शीतत्राणार्थमिष्यते ॥ ३९ ॥
तृणं पुलाकोपनाहस्तिक्षवश्चैव दन्तिनाम् ॥
ग्रासार्थं वृक्षभागांश्च शस्तं कोष्णं च भोजनम् ॥ ४० ॥
उष्णपिण्डः प्रदातव्यः कफवातहरः सदा ॥
आर्द्रकं मरिचं कृष्णा सैन्धवं च जवानिका ॥ ४१ ॥
शतपुष्पाऽजमोदा च सर्वाण्येकत चूर्णयेत् ॥
यावन्त्येतानि सर्वाणि तावन्मात्रो भवेद्गुडः ॥ ४२ ॥
हेमन्ते शिशिरे पिण्डः करिणां वह्निवर्धनः ॥
वातश्लेष्मप्रशमनो बलवर्णकरः परः ॥ ४३ ॥
मद्यानुपाने परमो रसायनविधिर्मतः ॥
(इति) ऋतुपिण्डः ।
प्रतिमानं प्रसन्ना च लवणं त्र्यूषणायुतः ॥ ४४ ॥


१ क. ०रात्रक० ।

सर्वसेकश्च तैलेन विहितो गैरिकाप्लुतः ॥
परिवाह्यांश्च मातङ्गा( ?) सकृदेवावगाहयेत् ॥ ४५ ॥
मेघमारुतवर्षोष्णशीतसंवृद्धितास्तथा ॥
शिशिरान्ते कफोद्रेकः पानात्ययनयोगतः ॥ ४६ ॥
सूर्यस्तपति चात्यर्थं वर्धन्ते दिवसास्तथा ॥
मेदुराः सुकुमाराश्च गजास्तैजोधिका भृशम् ॥ ४७ ॥
स्वल्पसंतापतो ह्येषां तस्माद्विष्यन्दते कफः ॥
वसन्ते नातिशीतांशुः सविता शीतमम्बु च ॥ ४८ ॥
पवनो नातिशीतोष्णो मङ्गां सर्वः प्रकाशते ॥
साधारणे तत्र काले गजानां वर्धते रसः ॥ ४९ ॥
श्लेष्मा प्रकोपमायाति सौमनस्यं च जायते ॥
धातुसौ(सा)म्यं च नागानां जायते कारणैरिमेः( ?) ॥ ५० ॥
हरन्ति पांसुं विशदं शीतमुक्तास्तथा द्विपाः ॥
सलिलानि च पानेषु पिबन्ति च हरन्ति च ॥ ५१ ॥
सस्पसत्पवतीं भूमिं दृष्ट्वा पुष्यन्ति चाधिकम् ॥
सलिलेनाभिसिक्तं च रसवत्तरणं *नृणाम् ॥ ५२ ॥
प्रचारेषूपयुञ्जानाः कामवन्तो मतङ्गजाः ॥
कोकिलाकुलनादैश्च भ्रमराणां च कूजितैः ॥ ५३ ॥
वातेन पुष्पचित्रेण मुखेनाऽऽहिततेजसा ॥
भवन्ति हस्तिनीकामा मन्यन्ते वनजं सुखम् ॥ ५४ ॥
तेषां सुखत्वात्कालस्य रम्यत्वाच्चाथ सर्वशः ॥
†मनस्तुषौ(?) च धातूनां शा(सा)म्यं

१९ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । १४७
अपिबज्जगतः स्नेहमंशुभिः पवनस्तथा ॥
तीव्रो रूक्षः खरो याति परुषः शोषणात्मकः ॥ ६० ॥
रसस्तदा तु कटुकः काले योगो विवर्धते ॥
भवेत्तदा धातुशोषो दौर्बल्यं सर्वदेहिनाम् ॥ ६१ ॥
प्रभवत्यधिकं तृष्णा प्रचयं याति चानिलः ॥
सोमात्मकाः शीतसात्म्या मातङ्गाश्च विशेषतः ॥ ६२ ॥
निदाघकाले जायन्ते नागाः पित्तहता भृशम् ॥
तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥
त्वग्दाहश्च क्षयस्तेषां गच्छतः श्लेष्ममेदसी ॥
हृष्यते रक्तपित्तं च घर्मयोगेन(ण) दन्तिनाम् ॥ ६४ ॥
जलाश्रयाश्रितं स्थानं तस्मिन्काले विधीयते ॥
घनच्छायं प्रभूतं च भूरितोयप्लुतं तथा ॥ ६५ ॥
त्रिस्त्रावगाहयेन्नागं ह्रदे शीते शिवोदके ॥
पूर्वाह्ने वाऽपराह्ने वा मध्याह्ने च विशेषतः ॥ ६६ ॥
हारयेत्कर्दमं शीतं त्वग्दाहविनिवृत्तये ॥
मध्याह्ने चापि शिक्यस्थाः स्रवेयुर्वारिपूरिताः ॥ ६७ ॥
वंशे घटाः शीततोया दृतयश्चैव दन्तिनाम् ॥
एवं दिनोपसेवा च रात्रौ तस्य प्रशस्यते ॥ ६८ ॥
शैय्याभागाश्च शीताः स्युर्मृदुपांशुजलावृताः ॥
निवृत्तिरध्वनश्चास्य कर्मणश्चोपदिश्यते ॥ ६९ ॥
शिरोलेपस्तथा काये शतधौतेन सर्पिषा ॥
• श्रो(स्रो)तःसिद्धिर्भवेत्तेन क्लेदनं चैव चक्षुषोः ॥ ७० ॥
औदकं यवसं चात्र हरितं च प्रदापयेत् ॥
क्षीरिणां चैव वृक्षाणां पल्लवांश्चैव दापयेत् ॥ ७१ ॥
कुल्माषाः पल्लवाश्चापि ससर्पिर्गुडमोदकाः ॥
प्रातराशः ससर्पिष्को गुन्द्रा*वसपयोगुडः ॥ ७२ ॥
रात्रौ च रक्तशाल्यादिभोजनं जाङ्गले रसैः ॥
पयः सर्पिर्विमिश्रं वा शीतमस्मै प्रदापयेत् ॥ ७३ ॥

  • 'सव' इति भवेत् ॥
    १ क. ॰लाशया॰ । २ क. ॰न्द्रावास॰ ।

पयःपानं च गजस्य घर्मकाले प्रशस्यते ॥
पयःपीतस्य वा शस्तो गजस्य रक्तमोक्षणे ।. ७४ ॥
प्रतिपानं गुडयुतं इक्ष्वाकुकमभिहितम् ॥
अविदाहि च यन्मद्यं विहितं तत्तदापयेत् ॥ ७५ ॥
काले तस्मिन्निशा ह्रस्वा कष्टश्चात्र तु जागरः ॥
तस्माद्दिनोपशयानं नार्तिरात्रकृतं भवेत् ॥ ७६ ॥
कट्वम्लोष्णविदाहीनि भोजनान्यौषधानि च ॥
घर्मकाले न शस्यन्ते यवसं तच्च तद्विधम् ॥ ७७ ॥
भाराध्वकर्मयोगांश्च नैव तत्र समाचरेत् ॥
ग्रासाभिजननं बल्यं मनसश्च प्रसादनम् ॥ ७८ ॥
विधायोगं चतुर्थांशं ध्रुवलेषूपनोहिकम् ॥
दापयेद्ग्रीष्मकाले तु यथाभोगं विभागशः ॥ ७९ ॥
मधुफाणितसंयुक्तं मद्यं यवसमेव च ॥
दुर्बलाश्चातियानाश्च

१९ ऋतुचर्याध्यायः ] हस्त्यायुर्वेदः । ६४६
भोजनार्थेऽन्नपानार्थे कार्याः कायाग्निदीपनाः ॥
*(विशेषोऽहनि शीते च वर्षवाताकुले भृशम् ॥ ८८ ॥
व्यक्ताम्लस्नेहलवणं भोज्यं स्यादनिलापहम् ॥
स्थलजं यवसं चैव द्विरदानां घनागमे ॥ ८९ ॥'
स्थानानि विगतस्वेदनिष्यन्दानि च कारयेत् ॥
धूमश्च दंशनाशार्थं कार्यः स्थानेषु दन्तिनाम् ॥ ९० ॥
प्रसन्नां सगुडव्योषां सतैलां प्रतिपादयेत् ॥
नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ९१ ॥
उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ॥
वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ ९२ ॥
बस्तिकर्म च नागेभ्यो वर्षासु नियतं हितम् ॥
ऋतुश्च विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥
तस्मादवसथुद्धयर्थं दीपं स्थानेषु कारयेत् ॥
शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥
संपचत्योषधीः सर्वाः फलमन्तानि(?) यानि च ॥
तीक्ष्णातपत्त्वाच्च रवेर्भूमिपाकं नियच्छति ॥ ९५ ॥
प्रकुप्यति च नागानां सूर्याथुपरितापितम् ॥
जगत्तु ताभिः शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥
तस्मात्तत्रापि लवणो रसो वृद्धिं नियच्छति ॥
प्रकुप्यति च नागानां पित्तं शाम्यति चानिलः ॥ ९७ ॥
तत्रापि यवगोधूमाः(?) †शाल्यन्नानि प्रदापयेत् ॥
गुडसर्पिर्विमिश्राणि पित्तकोपहितानि च ॥ ९८ ॥
शशानां हरिणानां च रसैर्मधुरतिक्तकैः ॥ )
विशेषार्थे तदा कार्यों दन्तिनां पित्तशान्तये ॥ ९९ ॥
स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा ॥
शस्यकालौ भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥
पूर्वस्निग्धशरीराणां शस्यारम्भो विधीयते ॥
संनाराः षष्टिका व्रीहिशालयः कङ्गुवोऽपि वा ॥ १ ॥
यावेक्षाऽऽर्द्रफलास्तावद्धस्तिभ्यः पुष्टये हिताः ॥
पुष्पिताः फलिताश्चापि मुद्गमाषमकुष्ठकाः ॥ २ ॥

  • धनुश्चिह्नान्तर्गतपाठः कघपुस्तकयोर्नास्ति । † 'गोधूमशाल्य' इति भवेत् ।
    १ क. ॰वदार्द्र॰ ।
    ८२

यवसार्थं प्रशस्यन्ते पावनं कठिनं फलम् ।
गोधूमः कठिनफलो मिश्रं देयो यवोऽपि वा ॥ ३ ॥
पुष्पितो रक्तजननः फलितो मांसवर्धनः ॥
अनूपजलजं मांसं वसा मेदो घृतं तथा ॥ ४ ॥
माहिषं च दधि क्षीरं तैलोष्णे चावमर्दयेत् ॥
घृतं क्षीरं यवाः शालीर्मांसानि मधुराणि च ॥ १०५ ॥
अतो यस्मिन्प्रशस्तानि दन्तिनां जलदात्यये ॥
शर्करं (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥
दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥
ग्रीष्मवच्चावगाहश्च कार्यः शरदि दन्तिनाम् ॥ ७ ॥
सूर्याशुपरितप्तानां चन्द्रेणाऽऽप्यायितानि च ॥
आगस्त्योदययुक्तानि निर्विषाणि शुचीनि च ॥ ८ ॥
निर्मलानि निपानेषु जलान्यमृतवत्तदा ॥
पानावगाहे करिणां प्रशस्तानि विशेषतः* ॥ ९ ॥
(†भोजनार्थे प्रदातव्यं जाङ्गलानूपमिश्रितम्) ॥
पूर्वाह्ने वाऽपराह्ने वा द्वौ कालो तत्र बुद्धिमान् ॥ ११० ॥
प्रचारयन्गजभागानरण्येषु विभागवित् ॥
काशपुष्पपटीं शुभ्रां तदावि(चि)त्रितनिम्नगाम् ॥ ११ ॥
परिपक्वतृणां चैव धरणीं तत्र शालिनाम् ॥
कमलोत्पलकह्लारजातां गन्धवहस्तदा ॥ १२ ॥
मारुतः सुखसंस्पर्शो वाति शीतांशुशीतलः ॥
विचित्राणि स्वादवन्ति तृणानि सलिलानि च ॥ १३ ॥
शरद्गुणैः सुमनसो भवन्ति करिणस्तदा ॥
काले तु प्रतिकुर्वीत हस्तिनां दन्तकल्पनम् ॥ १४ ॥
स्वातिसंपातयोगे च काले नीराजनास्तदा ॥
राज्ञश्च यात्राकालोऽयं शस्तः कर्मसु दन्तिनाम् ॥ ११५ ॥


  • क-घपुस्तकयोस्तु—एतदुत्तरमेव 'विशेषोऽहनि' इत्यारभ्य 'रसैर्मधुरतिक्तकैः'
    इत्यन्तो धनुश्चिह्नान्तर्गतपाठ उपलभ्यते ॥
    † धनुश्चिह्नान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र 'भोजनार्थे' इत्येव 'रसै-
    र्मधुरतिक्तकैः' इत्युत्तरमुपलभ्यते ॥

१९ ऋतुचर्याध्यायः ] हस्त्यायुर्वेदः । ६५१
ऋतुसाम्यमिदं प्रोक्तं चेष्टाहारव्यपाश्रयम् ॥
हिताहितविधानार्थं करिणां स्वच्छवृत्तकम् ॥ १६ ॥
चिकित्सायाः स्वच्छवृत्तिं स नित्यं हि चिकित्सितम् ॥
संवेशोत्थानयोः सम्यगवगाहे च दन्तिनाम् ॥ १७ ॥
यथाकालं समुद्देशं पालकाप्योऽब्रवीत्पुनः ॥
पूर्वाह्णे वाऽपराह्णे वा सर्वर्तुषु च पार्थिव ॥ १८ ॥
अनेन विधिना नागमवगाहनमानयेत् ॥
गच्छन्तं हारयेत्पांशुं वीथीमार्गेष्वनेकपम् ॥ १९ ॥
पङ्कं वा हारयेदेनं वमं च प्रतिषेधयेत् ॥
अवगाह्य प्रवातं च कर्णादूने समे जले ॥ १२० ॥
विशेषमात्रे मातङ्गो तोये प्रतिनिषादयेत् ॥
ततः संपच्य तैलेन तत्रैनं प्रतिघर्षयेत् ॥ २१ ॥
अवसिच्यावसिच्याद्भिरथैनमनुवर्तयेत् ॥
उभाभ्यामनुवृत्तं च पक्षाभ्यां वा मतङ्गजम् ॥ २२ ॥
कर्णौ यावत्समेतानि पुनः समवगाहयेत् ॥
( *आरक्षितानि शिरसि प्रक्षाल्यास्य प्रपीड्य च ॥ २३ ॥
प्रकामे(मं) तापयित्वा तु निवृत्तं स्थानमानयेत् ॥
आगतस्य च नागस्य मत्तस्य च विशेषतः ॥ २४ ॥
निर्वाणस्योपचारोऽयं सर्वेष्वृतुषु कीर्तितः ॥
ग्रीष्मे प्रागुदयान्नागमवगाहाय योजयेत् ॥ १२५ ॥
छायायां (च) द्विपौरुष्यां सीदन्तमवगाहयेत् ॥ )
• माध्यंदिने तु शालास्थं पाययेदुद्धृतोदकम् ॥ २६ ॥
इति ग्रीष्मविधिः प्रोक्तो वार्षिकः संप्रवक्ष्यते ॥
तस्याभ्युदितमात्रे तु सूर्ये वर्षासु बुद्धिमान् ॥ २७ ॥
निर्वापणाय नागानां कुर्यात्पूर्वाह्निकं हितम् ॥
पुनर्निर्वृत्तिमात्राहे (?) ¹हितं वर्षासु हस्तिनाम् ॥ २८ ॥
ऋतुसंधिषु सर्वेषु मृत्तिकाया निवारणम् ॥
गोमूत्रं पाययेन्नागं हस्ते शङ्कुं च बन्धयेत् ॥ २९ ॥


  • धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।

१ क. हस्तिनामृतुसंधिषु ॥ हितं वर्षं च सर्वेषु ।

१६२ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने-
मृत्तिकाभक्षणा*पन्नाद्रक्षा वर्षासु हस्तिनाम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि हेमन्ते विधिमुत्तमम् ॥ ३० ॥
मन्दीभूते पुनः शीते युगमात्रगते रवौ ॥
धू(पो)ऽह्निकोऽवगाहस्तु वारणानां हिमागमे ॥ ३१ ॥
त्रिभागशेषदिवसे त्वपराह्वेऽवगाहयेत् ॥
हेमन्ते वारणं 'तोये तथैव परिघर्षयेत् ॥ ३२ ॥
पूर्वाह्ने चाऽऽतपे †पांशुर्यथाकर्म हरेद्बुधः ॥
अवगाह्य च तोये तं क्षिप्रमुत्तारयेद्गजम् ॥ ३३ ॥
अत्यर्थं शिशिरे काले पौषे मासेऽथ वारणम् ॥
सिक्तैर्द्वैरिकतैलेन त्र्यहान्ते वाऽवगाहयेत् ॥ ३४ ॥
छविः प्रसन्ना भवति शीतं चैनं न बाधते ॥
व्रणाश्चाप्युपरोहन्ति यूका कण्डूश्च नश्यति ॥ १३५ ॥
[L

१६ कार्याकार्यविध्यध्यायः ] हस्त्यायुर्वेदः । ३६३
कषायं लवणं चैव निर्मलं च हितं भवेत् ॥
निर्दोषाणामलाभे तु यथालाभं पिबेज्जलम् ॥ ४४ ॥
जलावरोधान्निपते संमोहं वा नियच्छति ॥
तस्मात्सर्वास्ववस्थासु पानीयं न निवारयेत् ॥ ४५ ॥
अवगाहविधिश्चैव जलदोषाश्च कीर्तिताः ॥
शयनोत्थानकाण्डानां वक्ष्यते विधिरुत्तमः ॥ ४६ ॥
भुक्तवन्तं प्रतिच्छन्नं यवसेन तु वारणम् ॥
ग्रीष्मे संवेशयेद्रात्रौ गते त्वष्टार्धनाडिके ॥ ४७ ॥
शेषे षड्नालिके वाऽपि द्विपक्षशयनं गजम् ॥
नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्मृतः ॥ ४८ ॥
संवेशयेत्तु वर्षासु रात्रौ षड्नालिके गते ॥
यथोक्तेनैव विधिना भुक्तवन्तं त्वनेकपम् ॥ ४९ ॥
अष्टभागिकशेषायां स्थानं प्रति नयेद्गजम् ॥
इति संवेशनोत्थाने वर्षाकाले प्रकीर्तिते ॥ ५० ॥
हेमन्तकाले तु पुनर्यथोक्तमशितं गजम् ॥
संवेशयेद्गजं रात्रावतिक्रान्तेष्टनालिके ॥ ५१ ॥
उभाभ्यामपि पक्षाभ्यामनुवृत्तमनेकपम् ॥
पुनः प्रतिनयेत्स्थानं शेषे तु दशनालिके ॥ ५२ ॥
दिनानां दीर्घह्रस्वत्वं विज्ञाय क्रमशो भिषक् ॥
यथोक्तक्रमतस्तेषां वर्धयेद्वा स भोजनम् ॥ ५३ ॥
शयनोत्थानशालानामित्ययं कीर्तितो विधिः ॥
निर्वाणं शयनं चैव सर्वर्तुषु च कीर्तितः (?) ॥ ५४ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थान
ऋतुचर्याध्यायः पञ्चदशः ॥ १५ ॥
अथ षोडशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कार्याकार्यविधिं कृत्स्नं भगवन्वक्तुमर्हसि ॥ १ ॥
कस्मान्न दीयते तोयं भुक्तमात्राय दन्तिने ॥
कस्माच्चास्पात्कृता न स्यात्तथा कर्म विधीयते ॥ २ ॥
१ ख. °डूनाडिके ।

३८४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
उपस्थिते मदे वाऽपि प्रभिन्ने वाऽपि कुञ्जरे ॥
कस्मात्स्नेहो विरेको वा न देयस्तु महामुने ॥ ३ ॥
कस्मादुभयतः स्नेहो मुखतः पृष्ठतोऽपि च ।
न प्रदीयेत युगपन्मार्गेभ्यो द्विजसत्तम ॥ ४ ॥
कस्माच्च भोजितायाऽऽज्यस्नेहबस्तिः प्रदीयते ।
निरूहो भोजिते वाऽपि कस्मान्नेव प्रदीयते ॥ ५ ॥
कस्मात्पीतवते तोयं पश्चाद्भक्तं प्रदीयते ॥
कस्माच्च शून्यकोष्ठाय स्नेहबस्तिर्न दीयते ॥ ६ ॥
प्रत्युद्गतस्य नागस्य कस्माच्छिण्डं न शोध्यते ॥
*(आरोग्ये(गे) व्याधिते नाथ समं कस्मान्न बाध्यते ॥ ७ ॥
कस्मान्न हस्तिवैद्येन चिकित्स्यः पुरुषः स्मृतः ॥
कस्मात्तु नरवैद्येन न चिकित्स्यो मतङ्गजः ॥ ८ ॥
कस्माद्दन्तनिवृत्ताय न देयो मोदको द्विज ॥
प्रतिपानं यथा तच्च यथायोगं प्रदीयते ॥ ९ ॥
कस्माच्च हस्तिशालायां नखरोम न कल्पयेत् ॥
कथं नीराजिताः सन्तो न निर्वाप्यास्तु कुञ्जराः ॥ १० ॥
कस्माच्चैव दिवास्वप्नं न प्रशंसन्ति दन्तिनाम् ॥
प्रतिपानौषधानां च ब्रूहि कालमशेषतः ॥ ११ ॥
स्नानस्य चापि यः कालो भक्तस्य यवसस्य च ॥
युक्त्या प्रतिनयं ब्रूहि यथा वाऽभिनयं मुने ॥ १२ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
कार्याकार्यविधिं सर्वं हेतुभिः संप्रदर्शयेत् ॥ १३ ॥
भोजयित्वाऽथ मातङ्गं मोहाद्यः पाययेज्जलम् ॥
विषमं पच्यते भुक्तं स भवत्युत्तरोदकः ॥ १४ ॥
न चात्र समानः सम्यग्भुक्तं चास्य न जीर्यते ॥
तस्मात्करिणे भुक्तवंते पानीयं न विधीयते ॥ १५ ॥

  • धनुश्चिह्नान्तरगतपाठः खपुस्तके पालकाप्योत्तरवाक्ये, पालकाप्योत्तरवाक्यं
    'तस्मात्कर्मप्रयुक्ते तु' इत्यादिः 'व्याधितं परिवर्जयेत्' इत्यन्तः पाठोऽत्र राजप्रश्न-
    वाक्य उपलभ्यते ॥
    : १ क. °स्थितम्° ।

१६ कार्याकार्यविध्यध्यायः ] हस्त्यायुर्वेदः । ३८५
अजस्रं भक्षयन्त्येते शीतसात्म्या महाग्रयः ॥
यस्माद्भुक्तवतः स्नेहो दुःखं पच्येत विप्लुतः ॥ १६ ॥
तस्मादुदकपूर्वं तु सुखं भुक्तं न जीर्यते ॥
पूर्वं पानीयपीतस्य भक्तभुक्तस्य दन्तिनः ॥ १७ ॥
नस्यकर्म प्रयुङ्क्ते यस्तस्य तोयपरिप्लुतः ॥
मूर्च्छां वा नयति स्नेहो अ(ह्य)तीसारमरोचकम् ॥ १८ ॥
व्याप्रादं वा पुनर्घोरं मिथ्याकर्मप्रयोगतः ॥
तस्मादभुक्तवत्येव नस्यकर्म विधीयते ॥ १९ ॥
विधानं तस्य कात्स्न्येन नै*स्यदानं प्रकीर्त्यते ॥
विश्लेषं संघयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥
तस्मात्कर्मप्रयुक्ते तु न विरेको विधीयते ॥
तेजसो हि समावेशान्मदः संजायते गजे ॥ २१ ॥
तैजसं नस्यमप्युक्तमतस्तं नावचारयेत् ॥
यथा हि भवने दीप्ते सर्पिषा परिषेचनम् ॥ २२ ॥
भवेदाशु प्रदाहाय नियतं तस्य वेश्मनः ॥
एवमेव प्रभिन्नस्य कुञ्जरस्य महीपते ॥ २३ ॥
तैलावचारणाद्दोषो हेतुभिः संप्रदर्शितः ॥
यत एवं विकारार्थं ततः स्नेहो न युज्यते ॥ २४ ॥
तैलसर्पिर्विरेकाणां मत्तेनैवावचारणम् ॥
प्रभिन्नः सर्वसेकेन मूर्छां प्राप्नोति दारुणाम् ॥ २५ ॥
शिरोऽभितापं लभते दृष्टिश्चांस्योपहन्यते ॥
तस्मात्प्रभिन्ने मातङ्गे नाभ्यङ्गस्तु विधीयते ॥ २६ ॥
न सर्पिषा न तैलेन नित्यमेव विधीयले ॥
अपाने मुक्ततश्चैव युगपद्यदि दीयते ॥ २७ ॥
स्नेहः स्नेहेन सङ्गत्य परिणामं न गच्छति ॥
आनाहो वाऽतिसारो वा मूर्छा वाऽस्योपजायते ॥ २८ ॥
यस्मात्तस्मादुभयतो न स्नेहो दीयते नृप ॥
अभुक्तवान्भिरुल्लेत भुक्तवांश्च निराकृतः ॥ २९ ॥

  • 'नस्यदाने' इति भवेत् ।

५६६ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
भुक्त्वांश्चानुवासयेत तस्मान्नाभुक्तवान्गजः ॥
बस्तिसिद्धौ मया पूर्वमेतत्सिद्धमशेषतः ॥ ३० ॥
कीर्तितं क्रमयोगेन हेतुभिः स्पष्टलक्षणैः ॥
स्वकरीषे च वसतिः कार्या भवति दन्तिनाम् ॥ ३१ ॥
विवर्जयन्ति रक्षांसि ग्रहाः परिहरन्ति च ॥
अभिचारो न भवति मनो न प्रतिहन्यते ॥ ३२ ॥
व्याधयश्च प्रशाम्यन्ति नोद्विजन्ते च कुञ्जराः ॥
तस्मादस्तमिते सूर्ये रक्षार्थं मनुजाधिप ॥ ३३ ॥
प्रत्युद्गतानां नागानां न लिण्डमपकृष्यते ॥
व्याधितं चाप्यरोगं वा नैकस्थाने निवेशयेत् ॥ ३४ ॥
रोगसंलेपनभयाद्व्याधितं परिवर्जयेत् ॥
मनुष्यवैद्यो नागानां चिकित्सां न प्रयोजयेत् ॥ ३५ ॥
हस्तिवैद्यो मनुष्याणामतो हेतोर्नराधिप ॥
अन्नसात्म्या हि पुरुषास्तृणसात्म्या मतङ्गजाः ॥ ३६ ॥
मात्राप्रकृतिसात्म्यानां (*विशेषाच्चापि पार्थिव ॥
यस्माच्छास्त्राणि च पृथङ्नराणां दन्तिनामिह ॥ ३७॥
तस्मान्नागभिषङ्नागांश्चिकित्सेन्ना भिषङ्नरान् ॥
क्षीरमेदकमद्यानां) तथा सौवीरकस्य च ॥
अनिर्वृत्ता च नागानां प्रातः पानं विधीयते ॥ ३९ ॥
क्षीरादीनि महीपाल तोयं पीत्वा पिबेद्यदि ॥
कोपयन्ति कफं पश्चात् पीतान्येतानि दन्तिनः ॥ ४० ॥
श्लेष्मणा हृदयं तस्य कुञ्जरस्य प्रपीड्यते ॥
नाभिनन्दति चाऽऽहारं भुक्तं चापि न पच्यते ॥ ४१ ॥
कृमिकोष्ठी भवत्येवं मृत्तिकां चाभिनन्दति ॥
यस्मात्तस्माद्गजेभ्यस्तु प्रातः क्षीरादि दीयते ॥ ४२ ॥
ऐरावणादयो राजन्कीर्तिता ये दिशां गजाः ॥
तस्मात्प्रसूतिर्नागानां विद्धीमानिह वारणान् ॥ ४३ ॥
यस्माच्च देवहस्तिभ्यः प्रसूता वारणा नृप ॥
तस्माद्रजोपकरणं वारणानां महीपते ॥ ४४ ॥

✲ धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ।

१ ख. ग. कथं ।

१६ कार्याकार्यविध्यध्यायः ] हस्तिआयुर्वेदः । ६५७
अशुचिर्न स्पृशेत्कश्चिन्न वा रोहेन्मतङ्गजम् ॥
शुचिना तु सुखं वृद्धिं पुष्टिं च लभते सदा ॥ ४५ ॥
अनेनैव विशेषेण वारणानां महीपते ॥
शालासु *मुखवालानां कल्पनं न विधीयते ॥ ४६ ॥
पीडा भवति नागानां तस्मात्तत्र न कल्पयेत् ॥
षण्मासोंर्ध्वर्धते रात्रिः षण्मासोत्परिहीयते ॥ ४७ ॥
क्षयं वृद्धिं विभज्याथ स्वापयेच्च मतङ्गजम् ॥
दिवास्वप्रस्तु नागानां दोषकोपाद्यतः पुनः ॥ ४८ ॥
प्रतिषिद्धो दिवास्वप्रस्तस्मात्तु नृपपुङ्गव ॥
द्वात्रिंशन्नाडिका रात्रिर्दिवसश्च समो यदा ॥' ४९ ॥
तदा त्रिंशतिमे चैव नालिकं (?) स्वापयेद्गजम् ॥
सेवतां तु दिवा स्वप्नेषां श्लेष्मा प्रकुप्यति ॥ ५० ॥
शातार्त्तचुक्ष (?) नागानामतः स्वप्नो दिवा हितः ॥
प्रतिपानौषधादीनि पूर्वाह्ने भोजनानि वै ॥ ५१ ॥
स्नातस्य भक्तं पूर्वाह्ने सायाह्ने च तथाऽपरम् ॥
कृतमङ्गलशौचाश्च कृतस्वस्त्ययनक्रियाः ॥ ५२ ॥
नीराजनविधौ नागाः फाल्गुनाषाढकार्तिकैः ॥
समास्तेषु यथा प्रोक्ता इति राज्ञो घनाः स्मृताः ॥ ५३ ॥
नीराजीतानां स्नानं च गजानां न विधीयते ॥
अतो निर्वसतीकल्पस्तत्र पुण्यो विधिः स्मृतः ॥ ५४ ॥
शान्तिस्वस्त्ययनादीनि नित्यं कार्याणि हस्तिनाम् ॥
बालवृद्धातुराणां च क्षीणानां च विशेषतः ॥ ५५ ॥
कर्तव्यो हस्तिनां सम्यग्दयापूर्वमनुग्रहः ॥
रक्षिता वारणा राज्ञां भवन्ति विजयावहाः ॥ ५६ ॥
यावतः सुधृतॉन्कुर्याद्वारणान्सर्वकामतः ॥
तावतः पृथिवीपाल वारणांग्राहयेद्धितान् ॥ ५७ ॥

  • 'नखवालानां' इत्येव युक्तम् । 'कस्माच्च हस्तिशालायां नखरोम न कल्पयेत्'
    इतिप्रश्नानुकूल्येनैवोत्तरस्य वक्तव्यत्वात् ।
    १ क. ॰सान्वर्ध॰ । २ क. ॰सान्परि॰ । ३ क. यदि । ४ क. ॰तान्कृ-
    त्वा वार॰ ।
    ८३.

६५८ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
( ✱ रक्षिता वारणा राज्ञो भवन्ति विजयावहाः ) ॥
वहन्ति चैवं सुमीताः सततं पुरुषेश्वरान् ॥ ५८ ॥
इति श्रीपालकाप्ये गआयुर्वेदे महाप्रवचन उत्तरस्थाने
कार्याकार्यविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥
अथ सप्तदशोऽध्यायः ।
देवराजप्रतीकाशः पप्रच्छाङ्गो नराधिपः ॥
पालकाप्यमुपासीनं वेदविद्याविशारदम् ॥ १ ॥
प्रदक्षिणमभिक्रम्य पादानतकृताञ्जलिः ॥
भोजनेऽप्यथवा घासे पाने वोऽथ गुणान्मति ॥ २ ॥
संशयं ब्रूहि तत्त्वेन भगवन्मे प्रसीदत ॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
निखिलेनैव ते सर्वं व्याख्यास्याम्यनुपूर्वशः ॥
श्रूयतां मनुजाधीश यन्मां त्वं परिपृच्छसि ॥ ४ ॥
भोजनस्यानुपानस्य यथर्तुगुणसंपदः ॥
लवणं पाचयेद्रक्तमुदकं क्लेदयत्यपि ॥ ५ ॥
प्रीणनं प्राणजननं रसाश्रं शोषकृद्दधि ॥
क्षीरं जीवयति श्रीमन्मांसं बृंहयति द्विपम् ॥ ६ ॥
सर्पिस्तु स्नेहनं चायं (?) क्षौद्रं शोधनमुच्यते ॥
संस्कृतो दीपनं क्षीरं तैलं वातहरं भवेत् ॥ ७ ॥
संवर्धनश्च धातूनां मेदकः प्राणवर्धनः ॥
वसा वर्धयति प्राणान्मेदो बृंहणमेव च ॥ ८ ॥
मदिरा दीपयत्यग्निं श्रमघ्ना च नराधिप ॥
यवसेन विचित्रेण मृदुना हरितेन च ॥ ९ ॥
यथर्तु चोपयुक्तेन बलं तेजश्च वर्धते ॥
भोजनं गुणसंपन्नं यथोक्तं प्राणधारणम् ॥ १० ॥
बलसंजननं चैव धातूनां च विवर्धनम् ॥
भोजने खादने चैवमित्येते गुणसंग्रहाः ॥ ११ ॥
✱ धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
१ क. भवन्ति । २ क. वाऽस्य । ३ क. प्रसादय । ४ क. संस्कृतोद्दीपनं ।

१८ सौवीरकपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६९
वारणानां यथाकालं पच्यन्ते मनुजाधिप ॥
ऋतुं वयः प्रमाणं च ग्रहण्याश्च बलाबलम् ॥ १२ ॥
देशं कालं च विज्ञाय ततः कुर्याच्चिकित्सितम् ॥
इत्येते विहिता राजनन्नपानस्य वै गुणाः ॥ १३ ॥
पालकाप्येन मुनिना विनिश्चित्य यथातथम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थानेऽ-
न्नपानगुणाधिकारो नाम सप्तदशोऽध्यायः ॥ १७ ॥
────────
अथाष्टादशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
सौवीरकस्तु यः प्रोक्तो जानीयां सति तत्कथम् ॥ १ ॥
कथं वा सेचनं तस्य पालकाप्यस्ततोऽब्रवीत् ॥
शिरस्स्नातोऽनुलिप्ताङ्गः शुक्लवासाः समाहितः ॥ २ ॥
पूजां प्रपूज्य देवेभ्यः स्वस्ति वाच्य द्विजानपि ॥
तदर्थं साधयेदम्लं विमलं शृङ्गनादिकम् ॥ ३ ॥
आढकानां चतुःषष्टि (?) पुराणघृतभाजने ॥
वचां विडङ्गं पिप्पल्यो मुद्रान्ध्र मरिचानि च ॥ ४ ॥
शृङ्गवेरं मधुरसा पिप्पलीमूलमेव च ॥
उभे हरिद्रे कुष्ठं च मञ्जिष्ठा रोहिणी तथा ॥ ५ ॥
मधुकं लोध्रमित्येषामेकैकस्य विचक्षणः ॥
पलान्यर्धचतुर्थानि कुर्याद्वारपमत्र (?) वा ॥ ६ ॥
भल्लातकानां पञ्चाशदभयानां शतं तथा ॥
शालजम्बूपलाशस्य प्लक्षस्य वरणस्य च ॥ ७ ॥
करञ्जस्य मधूकस्य सर्जस्य कुटजस्य च ॥
खदिरस्याश्वकर्णस्य यवस्यांऽऽम्रातकस्य च ॥ ८ ॥
बिभीतकस्य निम्बस्य कृतमालस्य च त्वचः ॥
ग्र(गु)डूची कोविदारस्य सप्तपर्णस्य च त्वचः ॥ ९ ॥
उदुम्बरत्वचा सार्धं मुष्ककत्वक्तथैव च ॥
एकैकस्य त्वचो भागं पलानि दश कल्पयेत् ॥ १० ॥

६६० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
एतेन्मासरसियुतं प्रातः पानमध्ये प्रदापयेत् ॥
अर्धाढकीयं द्रोणं तु प्रमाणं परिकल्पितम् ॥ ११ ॥
एवं भक्ते च नागेभ्यो दद्याद्वै कुशलो भिषक् ॥
कृमिकोष्ठे वातगुल्मे मन्दाग्नौ दन्तिनां तथा ॥ १२ ॥
दापयेदन्तरायामे रोगेषु कफजेषु च ॥
सम्यक्सौवीरके दत्तो विधिं विज्ञाय तत्त्वतः ॥ १३ ॥
ठ्याधिं च शमयत्याशु बलं धातुश्च वर्धते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ १४ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने सौवीरक-
पानविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥
अथैकोनविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कथं प्रयोगकालेषु नागेभ्यो दीयते कथम् ॥ १ ॥
कथं हि कृतकर्मभ्यः पोतेभ्यश्च कथं सुरा ॥
स्थूलेभ्यश्च कृशेभ्यश्च मत्तेभ्यश्च प्रदीयते ॥ २ ॥
का च मद्यस्य संज्ञा वै वृद्धेभ्यो दीयते कथम् ॥
का मात्रा के गुणाः पाने कथं योज्या च वारुणी ॥ ३ ॥
षड्क्रमतिपानं च कथं कस्माच्च दीयते ॥
एतन्मे भगवन्ब्रूहि पृच्छतस्तु महामुने ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
सुरापानगुणांश्चापि संयोगं कालमेव च ॥ ५ ॥
बह्वोषधां जातरसां परिपक्वां चिरस्थिताम् ॥
तीक्ष्णां सुरां क्षौद्रयुतां दापयेत्कृतकर्मणि ॥ ६ ॥
अध्वागते गुडसुरामथवा विगुडोदकाम् ॥
मधुफाणितसंयुक्तां कोष्ठनिर्वापणे हिताम् ॥ ७ ॥
तस्य कोष्ठं शोधयति प्रसादयति शोणितम् ॥
आमं तन्द्रां पिपासां च वारुणी चापकर्षति ॥ ८ ॥
१ क. ॰तन्मांसं॰ । २ क. ॰रके देशे वि॰ ।

१९ सुराप्रतिपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६१
अपरेद्युश्च विश्रान्ते पुनः प्रातः पुरंजय ॥
चङ्क्रामितनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥
दद्यात्षडङ्गपानं तु बलवर्णकरं हितम् ॥
पिप्पली शृङ्गवेरं च मधु तैलं गुडं सुरा ॥ १० ॥
एकत्र मूर्च्छयित्वा च प्रतिपानं प्रदापयेत् ॥
तत्षडङ्गप्रतीपानमिति संज्ञा विधीयते ॥ ११ ॥
तेनास्य चीयते रक्तं बलं वर्णश्च जायते ॥
ये च प्रचलिता दोषा भवन्त्यध्वप्रयोजनात् ॥ १२ ॥
क्षुभ्यमानशरीरस्य वातपित्तकफादयः ॥
एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३ ॥
शमं गच्छन्ति नागस्य दोषाय न भवन्ति वा ॥
तत्षडङ्गप्रतीपानं विश्रान्ताय प्रदीयते ॥ १४ ॥
उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम् ॥
सुरां दद्यात्प्रयोगेण तैलं चैव न दापयेत् ॥ १५ ॥
अनयाऽध्वानं च सहते न च मूर्च्छति वारणः ॥
तृष्णा च न भवत्येव अनया पृथिवीपते ॥ १६ ॥
आ दशभ्यस्तु वर्षेभ्यः पोतकेभ्यो नराधिप ॥
गोक्षीरं नवनीतं च सदा प्रातर्विधीयते ॥ १७ ॥
सर्पिषा चैव सेकः स्यात्सर्पिषा चैव भोजनम् ॥
नित्यमुत्कारिकां दद्याच्छाळूकानि बिसानि च ॥ १८ ॥
एतत्तु दद्यात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥
आप्यायन्ते तथा पोता वपुश्चैषां न हीयते ॥ १९ ॥
स्थूलस्य मृदुमांसस्य क्षुभ्यन्तेऽङ्गानि यस्य च ॥
न तस्मै मेदकं दद्यात्तं यं कामादभीक्ष्णशः (?) ॥ २० ॥
तत्र श्रान्तं तथा स्विन्नं न च संक्रामयेद्रजम् ॥
दद्यात्तैलोदकं पातुं योगवित्कुशलो भिषक् ॥ २१ ॥
कामं द्विपञ्चरात्रं च सोमवल्कयुतां सुराम् ॥
दद्यात्सगुडतैलं वा पथायोगं यथाविधि ॥ २२ ॥
छविः शोभा स्थिरा चास्य बलं चैव न हीयते ॥
थिडङ्गमेदकौ चास्मै दद्याद्वा क्लीवमेदकौ ॥ २३ ॥

स्थूलस्य बलमांसस्य श्लेष्मणा चार्दितस्य वै ॥
कात्स्न्येन विधिरुक्तोऽयं यथावद्राजसत्तम ॥ २४ ॥
अतः परं प्रवक्ष्यामि विधिं विस्तरतोऽपरम् ॥
विद्धि प्रकारयोगा हि प्रतिपानस्य निश्चितम् ॥ २५ ॥
सुरा च मधुरा पूर्वा श्लेष्मघ्ना पित्तवर्धिनी ॥
तीक्ष्णत्वाज्जरयत्यन्नं दीपनीयतमा स्मृता ॥ २६ ॥
वातशूलेषु भूयिष्ठं *तस्य दोषाः प्रशस्यते ॥
अतस्तीक्ष्णतरां प्राहुः प्रसन्नां मनुजाधिप ॥ २७ ॥
उष्णवीर्यां तनुरसां तथा वह्निप्रदीपनाम् ॥
वातश्लेष्महरां चैव तथा वेक्षिविवर्धनीम् ॥ २८ ॥
बलं विज्ञाय नागेभ्यस्तदेनां संप्रदापयेत् ॥
भोजितानां च नागानामनुपानेषु पूजिते ॥ २९ ॥
अत्याशितं जरयति कण्ठमार्गविशोधनी ॥
सौमनस्यकरी हृद्या मनोवर्णप्रसादनी ॥ ३० ॥
वातलेष्वपि सुतरां मन्दाग्नौ च प्रशस्यते ॥
मन्दोद्धृता या सुतरां तरुणी साप्यतिस्थिरा ॥ ३१ ॥
अव्यक्तरसवीर्यत्वान्न सा कर्मसु पूजिता ॥
वातपित्तप्रकोपी तु सीधुरुक्तो मनीषिभिः ॥ ३२ ॥
रूक्षश्च सकषायश्च विपाके कटुकस्तथा ॥
रूक्षत्वात्कटुकत्वाच्च श्लेष्माणमपकर्षति ॥ ३३ ॥
तथा रूक्षकषायत्वाद्रक्तपित्तहितोऽमरः ॥
एष पक्वरसः सीधुरपक्वरस एव च ॥ ३४ ॥
तत्तुल्यो रसवीर्येण गौरस्त्वम्लगुणाधिकः ॥
शार्करो भृशशीतत्वादिष्टो वातविवर्धनः ॥ ३५ ॥
पित्तकोपी तु तीक्ष्णत्वाच्छ्लेष्माणं च निरस्यति ॥
अरिष्टो दीपनीयत्वात्सर्वेभ्योऽभ्यधिकेर्गुणैः ॥ ३६ ॥
सर्वदोषहरश्चैव नागानां मनुजाधिप ॥
उष्णवीर्यश्च रूक्षश्च विपाके कटुकश्च सः ॥ ३७ ॥

  • 'तस्या दोषः' इति भवेत् ।
    १ क. पित्तप्रवर्धनीम् ।