सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 507, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 507

प्रदेहः शीतलैश्चैव प्रदिह्यात्तु पुनः पुनः ॥
सर्पिः क्षीरं च नागाय विधिवत्संप्रदापयेत् ॥ ९१ ॥
शीतांश्च मधुरांश्चैव भावांस्तस्मै प्रदापयेत् ॥
यद्येवं नोपपद्येत क्षिप्रं प्राणैर्विमुच्यते ॥ ९२ ॥
सम्यग्वेधे तु दोषाणां समो वृद्धिविपर्ययात् ॥
छव्व्यस्त्वपि महाराज षट्पूर्वं संप्रकीर्तिताः ॥ ९३ ॥
तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते ॥
एका तत्र प्रमाणेन अध्यर्धं(र्ध) यवसंमिताः(ता) ॥ ९४ ॥
प्रथमा तु महीपाल द्वितीया द्वियवा स्मृता ॥
शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप ॥ ९५ ॥
अध्यर्धाङ्गुलमेवं तु प्रमाणमभिधीयते ॥
श्वयथुष्वपि विज्ञेयो दोषलिङ्गैः पृथग्विधैः ॥ ९६ ॥
व्रीहिवक्त्रेण शस्त्रेण विध्येदत्वरया भिषक् ॥
अथ चोत्पलपत्रेण कुशपत्रेण वा पुनः ॥ ९७ ॥
त्र्यङ्गुलं निर्गमं कुर्याद्रागं विज्ञाय तत्त्वतः ॥
बहुलं च चतुश्चैव प्रदेशमभिलक्षयेत् ॥ ९८ ॥
यथोक्तेनोपचारेण विध्येदत्वरया नृप ॥
दोषलिङ्गेन निर्मुक्तं विशुद्धं दोषवर्जितम् ॥ ९९ ॥
प्रमुच्य यन्त्रं विधिना निर्वाणे चावगाहयेत् ॥
निवृत्तं पीतपानीयं भोजयेद्रसभोजनम् ॥ १०० ॥
एष सर्वो विधिः कार्यो भिषजा सिद्धिमिच्छता ॥
—:०:—
अत ऊर्ध्वं शिराणां तु विचयः संप्रवक्ष्यते ॥ १ ॥
येषु देशेषु यं दोषं यथोवद्विनिवर्तयेत् ॥
संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु ॥ २ ॥
अवग्रहस्य चाधस्तात्कुम्भस्योपरि संश्रिताः ॥
विद्रवग्रहयोश्चापि(?) विज्ञेया मध्यमाश्रिताः ॥ ३ ॥


* 'श्रापि' इति भवेत् ॥


१ क. श्वयथुं स्व॰ । २ क. अङ्गुलं । ३ क. पूर्वो । ४ क. ख. संप्रचक्ष्यते । ५ क. ॰थाविधि नि॰ ।