हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 610, कुल 742 में से
संदर्भ में पढ़ें३ स्नेहविध्यध्यायः ] हस्तिआयुर्वेदः । ५९१
सप्त गवां पयसश्चतुःप्रस्थे मधुकभद्रदारुणोऽर्धपलं पेषयित्वाऽधिश्रयेत् ।
प्रस्थान्पञ्चात्र तैलं पञ्चमालोक्य पाचयेत् । तदनुपदग्धं सिद्धमवतार्य बस्ति-
कर्मपानाभ्यञ्जनस्यकर्मसूपयोज्य यथार्थं सिद्धिर्भवति ।
-:०:-
अथ वज्रकतैलविधिं व्याख्यास्यामः ।
बलातिबलयोः पलशतं खण्डशः कल्पयित्वा विंशतिप्रस्थेऽपामधिश्रयेत्,
चतुर्भागावशिष्टमवतार्य निष्क्वाथं तत्राऽऽवपेत् । देवदारुमधुकरास्नाजीवक-
र्षभकाकोलीमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीपयस्याकाकनाशा
इत्येतेषामौषधानां कार्षिकान्भागान्कृत्वा पयोष्टगुणं निष्क्वाथ्यानूपानां मांसानां
पलशतप्रमाणं पञ्चमं तैलप्रस्थं कृत्वाऽधिश्रयेत् । तद्यथार्थसिद्धमवतार्य सर्ववात-
जानां विकाराणां निबर्हणार्थं दद्यात् । एतेनैव निष्क्वाथेन प्रतिवापौषधैश्च पयो-
जाङ्गलर्ससनिहितैः सिद्धं सर्पिः कृत्वा पित्तजानां विकाराणामुपशमनीयं बला-
वहं मंदसंजननं दद्यात् ।
-:०:-
अथ त्रिवृतविधिमनुव्याख्यास्यामः ।
द्विपञ्चमूलं श्वदंष्ट्रा द्विदभं द्विगुच्छं द्विशेरेयकं वत्साडनीशतावरीकुलत्थय-
वबदरश्रीपर्णीमधूकानां पूर्वोद्दिष्टप्रमाणं निष्क्वाथं कृत्वा सर्वमधुरप्रतीवापः ।
अनन्तावनकुष्ठटं द्राक्षासवलोध्रहरिवरसरलभद्रदारुव्याघ्रनखरास्नाकुष्ठतगर-
हरेणुकापिप्पलीशृङ्गवेरवचापातमालपत्रनलिकोशीरमञ्जिष्ठादारुहरिद्राणां सर्पि-
स्तैलवसानां प्रस्थे प्रतिवापं कार्षिकमौषधानां भागं कृत्वा चतुर्गुणेन पयसा
संयोज्य विंशतिपलकं मांसप्रमाणं कृत्वा जाङ्गलातूपोदकानां रसं त्रिगुणं खज-
वमथितमवतार्य ततो नक्रमहिषवराहशिशुमारवसानामुपदानं कृत्वा यथार्थं
कटाहेऽधिश्रयेत् । तं मन्दाग्निना सिद्धं यथाक्रममवतार्य सिद्धलक्षणसंपन्नं
कनीयसं तृवृतमाचक्ष्महे । ततस्तद्वातसमुत्थानां शरीराणां च हस्तिनां नस्य-
कर्माभ्यङ्गोपजोनोत्तरपानेषु हितं तद्यथार्थमेवंविधानामन्येषाम् च प्रयोजयेत् ।
इत्येवं सुवृतविधिराद्यः कनीयान्व्याख्यातः ॥
अथाशीतिव्यञ्जनस्य वायोर्निबर्हणं कोष्ठानुगतशरीरस्य च वापोर्विशे-
षतः प्रशमनं जलधरसलिलविसर्गादद्विद्राप्यायितायां मेदिन्यां बस्तिनस्या-
भ्यङ्गाच्छपानादिषु सततम्रुपयुज्यमानं तेजोबलवीर्यसंपादनं चाऽऽयुषश्च प्रत्या-
नयनं रसशोणितमांसमेदोस्थिमज्जाशुक्रक्षयावसन्नानां च बलक्षीणमदक्षीणो-
त्कर्णकवातगतिहस्तग्रहदन्तरोगपादरोगगात्ररोगादितदेहानां वातस्कन्दबा-