हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 607, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 607प्रवेगप्रशमाच्छ्लेष्मणः पूर्वलिङ्गत्वं प्रायशो भवति । ततस्त्रिफलारससंयुक्त-
५८८ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
प्रवेगप्रशमाच्छ्लेष्मणः पूर्वलिङ्गत्वं प्रायशो भवति । ततस्त्रिफलारससंयुक्त-
मयथोक्तप्रमाणं तैलं पाययेत् । अनेन कफजा विकाराः प्रशान्तिमुपगच्छन्ति ॥
अथ वसन्ते संजातबलवीर्यास्वोषधीषु प्रमुदितविहगेषु पुष्पभारावनतशा-
खिष्वाम्रकुरबकवनखण्डबहुलेषु द्विरेफानुनादिषु वनदेशेषु द्विरदपतीनां
त्रिभागप्रसन्नायुक्तं तैलं द्रापयेत् । पूर्वोद्दिष्टसामान्यक्रियाविधिग्नुष्ठेयो भवति ।
अनेन च मातङ्गाः प्रहृष्टा दीप्ताग्नयोऽनुपहतवीर्या यवसाभिनन्दिनः शुद्धमूत्र-
बस्तयः प्रसन्नवयसश्च भवन्ति । इत्येष षडृतुपानविधिर्विहितः ) पूर्वाचार्यै-
रिति । आस्वादे मधुरा विपाक ईषत्तिक्तकटुकषायां च व्युपगतफेना नातिबल-
वती सुरो तच्छील्याभिपूजिता भिषग्भिरुपयोज्या नागानां भवति द्रोणे
द्व्याढकं तु पयः सर्पिषोऽर्धाढकं विनीय दापयेत् । अथैव द्रोणे ततः प्रभृति यथा-
प्राणप्रमाणेन पयसः सर्पिषश्च वृद्धिरनुष्ठेयो भवति । एवमेतत्सर्पिःक्षीरपानमध्व-
क्रान्तस्तच्छविरदुर्बलकृष्यबालबलक्षीणभ्रममथितविष्वकतार्यातिनीतभारक्रा-
न्तधातुकोपहतशोणितपित्तपित्तातिसारविषसंसर्गोपहतदेहगात्ररोगाभिभूतानां
मदपरिस्रावक्षीणां क्षीणदेहानां नव(ग्र)हाणां प्रशस्तं भवति । न तु क्रान्तपीत-
पानीयमूर्छितश्लेष्मगुल्ममूत्राघातापष्टमेहीकृमिकोष्ठामाशयविकारगलग्रहात-
र्द्धाभिभूतानाम् । मृत्तिकाभ्यवहारिणां (च) क्षीरपानमप्रदेयं भवति ।
मस्तिष्कमज्जाघृतनवनीतं तिलतैलं फलतैलमेदोवसाः सर्वाण्येव च यथो-
र्द्दिष्टानि च प्रमाणतः पयांसि रसांश्च जाङ्गलभूशयानां च महति कटाहे समा-
लोड्य मृद्वग्निना पचेत्, शनैर्दर्य्याऽवघट्टयेत् । तत्संजातफेनमभिगतद्रव्यरसं
वृत्तगुलिकमात्रानुपहतमविदग्धमभिविज्ञाय दर्व्या तदौषधमुद्धृत्योद्वर्त्तनकृत-
मादाय तत्र मृदुपाकं तैलं पक्त्वा व्रणविधिषु योज्यम् । नागानां बल्यं स्थिरी-
करणं भवति । तदा मध्यमपाकं बस्तिनस्येषु प्रयोगकुशलैर्यथाविधिविहितम् ।
इहाऽऽचार्यैरभ्यङ्गसाधनार्थं च खरपाकं प्रशस्यते । तत्राभ्यङ्गमङ्गमस्त्यङ्गाश्रयव्या-
धिप्रशमनं क्रियाप्रयोगकुशलं प्रयुक्तं मृदुकरणमध्यं व्याधितृष्णोपशमने प्राहु-
राचार्याः । तत्र सहस्रपाकं प्रधानमुपदिशन्ति । शतपाकं मध्यमम्, दशावरे,
विंशत्यपरे, कनीयन्(?)स्नेहानुगतद्रव्यांनिष्पन्नं सततभावनात् । संयुक्ततैलद्र-
व्यकपालपालं काष्ठचर्मसंसर्गोपगमतैलैर्नित्यमत्र तैलविधानं कार्यमभ्यङ्गार्थम् ।
अत ऊर्ध्वं सद्यःस्नेहविधिमनुव्याख्यास्यामः ॥
१ क. ०या चेत्युप० । २ क. ०रावच्छी० । ३ क. ०नं वाऽऽहु० । ख.
०नं चाऽऽहु० ।