सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 596, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 596

३ अन्नपानविध्यध्यायः ] हस्त्यायुर्वेदः । ५७७
लवणं च महातप्यं वसन्ते दन्तिनां नृप ॥
एवमृतुषुसेवेषु विमृश्य गुणदोषतः ॥ ६४ ॥
स्वबुद्धया चैव दातव्यं विमृश्य गुरुलाघवम् ॥
—:०:—
विधाषां शालयः श्रेष्ठा ब्रीहयश्च नराधिप ॥ २६५ ॥
मध्यभं यवगोधूममध्य(ध)मं कङ्गकोद्रवम् ॥
(*त्रिविधेष्वपि मार्गेषु यथावदनुपूर्वशः ॥ ६६ ॥
विधाकाले सुपतिता (?) रसं तर्पयते नृप) ॥
रसस्तर्पयते रक्तं रक्तं मांसमथापि वा ॥ ६७ ॥
मांसं तर्पयते मेदो मेदोऽस्थीनि च दन्तिनाम् ॥
अस्थिभिः पुष्यते मज्जा मज्जा शुक्रं च पुष्यति ॥ ६८ ॥
शुक्रेण तर्पितो देहो हृष्टस्तृप्तमना भवेत् ॥
सस्वोत्साहबलोपेतः स्वस्थाशनश्च जायते ॥ ६९ ॥
स्वस्थाशनतया तस्य दोषा वातादयो नृप ॥
समीभवन्त्यथारोग्यं मदस्तस्मात्प्रवर्तते ॥ २७० ॥
मदः श्रीर्बलमोजस्तेजः कान्तिरागोग्यमेव च ॥
गन्धः सत्त्वञ्चशूक्त्वं च सत्त्वमुत्साहमेव च ॥ ७१ ॥
एवमादीन्महीपाल विधा वर्धयते गुणान् ॥
एतेषामेव संशोषमभावे विधया विना ॥ ७२ ॥
उपनाहे भवेन्द्याषां यवगोधूम एव च ॥
वृत्तमांगप्रमाणेन कर्तव्येन्धीपनाहिकम् ॥ ७३ ॥
भेदकान्द्रववांश्चैव तथैवोष्णकांश्चाथ पाः ॥
देयमपचितीनाय घृतं क्षीरं च दन्तिने ॥ ७४ ॥
तथैवोदकमन्थे च ग्रीष्मकाले प्रदापयेत् ॥
एवं पेयं तथा लेह्यं भोजनं च प्रदापयेत् ॥ २७५ ॥
नरेन्द्र द्विरदेन्द्रेभ्यो य इच्छेन्मोदमात्मनः ॥
वास्तसिद्धौ च ये दृष्टा गुणा ये वास्तुकर्मणः ॥ ७६ ॥
वास्तनेस्त्वप्रदानेन गुणाः सम्यक्प्रकीर्तिताः ॥
वास्तदानांशनाद्विद्या गुणांस्तुस्तगवांस्तु ॥ ७७ ॥

  • धनुश्चिह्नान्तर्गतो नास्ति पाठः कपुस्तके ।
    • १ घ. सुचरिता । २ क. ॰नश्च प्र० ।
    ७३