हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 568, कुल 742 में से
संदर्भ में पढ़ें१ स्नेहपानाध्यायः ] हस्त्यायुर्वेदः । ५४९
भिन्नं स्विन्नमदुर्गन्धि शकृदाशु प्रमुञ्चति ॥
कृच्छ्रादल्पल्पमापीतं मूत्रं सृजति वारणः ॥ १६ ॥
हस्तगात्रापरैर्नागः सीदति भ्रमतीव च ॥
न च सम्यक्तृणे लोभं कुरुते प्राणकर्षितः ॥ १७ ॥
अतिस्निग्धस्य नागस्य लिङ्गान्येतानि लक्षयेत् ॥
नागमेवंविधं स्निग्धं क्रमेणैवं विरूक्षयेत् ॥ १८ ॥
स्नेहजीर्णे तृणं किंचिद्भक्षयित्वा जलं पिबेत् ॥
स्नापयेच्च ततो युक्ता(क्त्या) दद्यात्तृणमनिग्रहम् ॥ १९ ॥
वातानुलोमता हर्षः श्रेष्ठता लिण्डमूत्रयोः ॥
प्रकाङ्क्षा लाघवं चैव स्नेहे जीर्णे निदर्शनम् ॥ १२० ॥
गुरुत्वं सर्वकायस्य मूत्रानिलशकृद्ग्रहः ॥
यवसेऽल्पप्रकाङ्क्षा च तदजीर्णस्य लक्षणम् ॥ २१ ॥
कृष्णाभं यच्च दुर्गन्धं विच्छिन्नं फेनिलं च यत् ॥
द्रवं खरं सशूलं च तत्पुरीषमपक्वजम् ॥ २२ ॥
अवेदनमदुर्गन्धं श्लेष्मणा विद्धि वर्जितम् ॥
यथा यवसवर्णं च पक्वमित्युच्यते शकृत् ॥ २३ ॥
परिषेकश्च कर्तव्यः सुखोष्णेनात्र वारिणा ॥
तैलघृतं तु पीताय कदुष्णेनोभयक्रियाम् ॥ २४ ॥
शय्याभागोत्थितं नागं पीततैलं तथैव च ॥
शनैरेकेन वा रूढं गमयेद्वै धनुःशते ॥ १२५ ॥
गजस्याधिकमक्रुतान्गुणान्दोषान्निबोध मे ॥
प्रवर्त्तनं ग्रासपाने छा(स्था)ने स्कन्धस्य कर्शनम् ॥ २६ ॥
उत्साहमाणजननं रुजाशोकनिबर्हणम् ॥
मृदूकरं शरीरस्य श्रो(स्रो)तसां परिशोधनम् ॥ २७ ॥
कामाग्निज्वलनं बल्यं मनसश्च प्रसादनम् ॥
गात्रापरव्यथार्ते च नागे कफविकारिते ॥ २८ ॥
श्रेयस्तु व्याधिते वाऽपि प्रागुत्थाय विचारणम् ॥
व्याधितेषु विशेषेण नित्यं चङ्क्रमणं हितम् ॥ २९ ॥
यत्पित्तं तैलजनितं लिण्डदोषं च यद्भवेत् ॥
तयोर्निर्हरणार्थाय तैलान्ते पाययेद्घृतम् ॥ १३० ॥
१ क. ॰न्गुणान्दो॰ । २ क. ख. घ. लिण्डं शेषं ।