हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 566, कुल 742 में से
संदर्भ में पढ़ें१ स्नेहपानाध्यायः ] हस्त्यायर्वेदः । ५४७
एष एव क्रमो वृद्धेरा समासेर्विधीयते ॥
यथाग्नि पञ्चरात्रं वा त्रिरात्रं वा मतङ्गजम् ॥ ८८ ॥
सप्ताहं वा पि वा स्नेहं पानी गुणयुतो भवेत् ॥
यदि न स्नेहमर्यादां प्राप्य न स्निह्यते गजः ॥ ८९ ॥
स्नेहान्तां पीनिमेकेकां पुनस्तां प्रतिलोभयेत् ॥
केचित्पीनीं व्यवस्यन्ति दिनान्यष्टादशोत्तमाम् ॥ ९० ॥
मध्यमां दश पञ्चैव सप्त पञ्च कनीयसीम् ॥
तासां वक्ष्यामि राजेन्द्र प्रमाणं च शृणुष्व मे ॥ ९१ ॥ .
एष एव क्रमो वृद्धेरा समाप्तेर्विधीयते ॥
त्रिषष्टिराढकानि स्युरुत्तमायाः प्रमाणतः ॥ ९२ ॥
मध्यमाया द्विपञ्चाशदाढकानि च निर्दिशेत् ॥
कनीयसीं विजानीयाद्विचत्वारिंशदेव हि ॥ ९३ ॥
एतत्प्रमाणं निर्दिष्टं पीनीनां त्रिविधं मया ॥
यस्मात्प्रीणयते पीनी देहे नागस्य पार्थिव ॥ ९४ ॥
तस्मात्पीनीति सा प्रोक्ता सम्यग्दत्ता मनीषिभिः ॥
दिनान्यष्टादशैवात्र दापयेत्तैलसर्पिषी ॥ ९५ ॥
दश पञ्च च तैलस्य सर्पिषः सप्त पञ्च च ॥
मात्रा यद्यपि निर्दिष्टाः स्नेहस्य करिणां नृप ॥ ९६ ॥
अग्नेर्बलाबं ज्ञात्वा यथाग्न्येव प्रदापयेत् ॥
समस्तं पायितः स्नेहं स्निग्धो भवति नान्यथा ॥ ९७ ॥
तव त्वग्निपरीक्षायामिदं लक्षणमिष्यते ॥
वैद्यस्तत्र विबुध्येत गजरक्षार्थमुत्थितः ॥ ९८ ॥
तत्र यः पीतवान्स्नेहं परिणामेन मुह्यति ॥
न वा नमति मातङ्गो न चात्यर्थं प्रवेपते ॥ ९९ ॥
†स्पष्टलाङ्गूलनयनः †स्पष्टकर्णशिरोधरः ॥
न च तिष्ठति मातङ्गः स्तम्भमालानमाश्रितः ॥ १०० ॥
ग्रासार्थं चोद्यमानस्य न वा कुप्यति वारणः ॥
तस्य स्नेहं यथायोगं क्रमेणाभिवर्धयेत् ॥ १ ॥
† सृष्ट इति स्यात् ।
१ क. गुणवृतो ।