हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 565, कुल 742 में से
संदर्भ में पढ़ेंउष्णश्चैवोष्णवीर्यश्च गुरुश्चापि प्रकीर्तितः ॥
वातरोगहरो वृष्यः स्रोतसां परिशोधनम् ॥ ७३ ॥
तैलादर्धं घृते मात्रा ततोऽधं त्रिवृता भवेत् ॥
मज्ज्ञश्चैव वसायाश्च मात्रा प्रायोगिकी स्मृता ॥ ७४ ॥
इति स्नेहगुणाः प्रोक्ताः कालाकालौ च हस्तिनाम् ॥.
अतः परं प्रवक्ष्यामि स्नेहपाने विधिं नृप ॥ ७५ ॥
शालां सुगुप्तां सुच्छि(च्छ)भ्रां सर्वतः कटकेर्वृताम् ॥
.देशे यथोक्ते कुर्वीत नित्यं बलिविभूषिताम् ॥ ७६ ॥
अजातपर्व तरुणं शुचि चोपहरेत्तृणम् ॥
यथाकालं यथामात्रं स्थलजं च विशेषतः ॥ ७७ ॥
उष्णोदकः(कं) कटाहानि स्नानपानाय दन्तिनाम् ॥
नित्यं संनिहितानि स्युः स्नेहकाल उपस्थिते ॥ ७८ ॥
अलिन्दांश्च घटांश्चैव पर्याप्तानुपकल्पयेत् ॥
पानार्थे चैव तैलस्य सलिलस्य च हस्तिनः ॥ ७९ ॥
काष्ठान्युष्णोदकस्यार्थे संशुष्कान्युपकल्पयेत् ॥
कुशलांश्चापि गृह्णीयान्नागस्य पर्चारकान् ॥ ८० ॥
वैद्यं च शास्त्रकुशलं दृष्टकर्माणमेव च ॥
हस्त्यध्यक्षं च तत्रैव संदिशेत्पितृवद्धितम् ॥ ८१ ॥
मुखद्वारविशुद्धाय सुकृतं पानपायिने ॥
हस्तेः सुमर्दिर्त कृत्वा तैलं नागस्य दापयेत् ॥ ८२ ॥
दापयित्वा त्र्यहं मद्यं ततो रूक्षं च भोजनम् ॥
विरूक्षितशरीराय स्नेहं नागाय दापयेत् ॥ ८३ ॥
उपायं चापि सुकृतं तैलं चक्रसमुद्भवम् ॥
स्थापयेद्भोजने स्निग्धे तैलं दद्याद्विचक्षणः ॥ ८४ ॥
उपार्जयेच्च स्त्रवतं सर्वं स्नेहसमुद्भवम् ॥
. पानार्थे च वसा ग्राह्या गात्राभ्यङ्गे च हस्तिनाम् ॥ ८५ ॥
मापयित्वा प्रमाणेन यथोक्तेन तु बुद्धिमान् ॥
यथोक्ते तिथिनक्षत्रे स्वंस्थं विज्ञाय वारणम् ॥ ८६ ॥
भक्ततैलप्रमाणेन श्रेष्ठां मात्रां प्रदापयेत् ॥
पादहीनं(नां) तथा मध्यां मध्यार्धेन कनीयसीम् ॥ ८७ ॥
१ क. ख. घ. स्वच्छं । २ ख. घ. चारणम्।