हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
१३४ श्रीहम्मीरमहाकाव्ये [सर्गः
तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना-
माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥
ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस-
प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः ।
वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा
नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥
काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत्
तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् ।
तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत्
कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥
वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः ।
किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥
रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय ।
सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥
कविता वनिता गीतिः प्रायो नादौ रसप्रदाः ।
उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥
प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः ।
न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥
प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् ।
वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥
वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ
प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः ।
मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता
द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥
भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा ।
प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥
३] कविवाक्यवर्णनम् १३५
क्षंतव्य एव कविभिः कृपया प्रमादात्
काव्येऽत्र कश्चिदपि यः पतितोऽपशब्दः ।
प्रीतिर्यथास्तु सुहृदामयथा सुशब्दैः
किं सा तथास्वसुहृदामापि मापशब्दैः ॥ ४२ ॥
काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्विधाताधुने
त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि ।
तद्धूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं
चक्रे काव्यमिदं हम्मीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥
हंसाः संतः क्व येषां गुणपयसि रतिर्नौ रतिर्दोषवारि-
ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु ।
तेमी तिष्ठंतु दूरे क्वचन तितउवोदूपणं क्लीकशे ये
विधृत्योच्चैरधश्चोज्ज्वलगुणसंमिता संचयं चिक्षिषंति ॥ ४४ ॥
राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा
तेषां विक्रमवर्णने च कवयः शश्वत्कृतंत्वांतमां ।
अश्रांतं च समुल्लसंलिह रसैर्वाचः सुपारोक्रिमाः
स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥
पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकव्यामृतं
कोनामाऽमरचंद्रमेव पुरतः साक्षान्नपश्येद्ध्रुवं ।
आदावेव भवेदसावमरता चेत्तस्य नो बाधिका
दुर्वारः पुनरेष धावतुतमां दर्पावलीविभ्रमः ॥ ४६ ॥
ते श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर-
काव्ये 'वीरांक' कविवाक्यवर्णनोनाम चतुर्दशः सर्गः ॥ समाप्तमिदं
हम्मीरमहाकाव्यं ॥
कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य-
त्तेषामिव नोपि कर्हिच-न किं चेतश्च मत्ताचिकीः ।
· १३६ तत्समाप्तिश्च [सर्गः १४]
नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं
श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥
काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां
सृष्टौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा ।
चकुर्यां कवयो नयेंदुरमरो हर्षश्च नानारसैः
सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादतः ॥ २ ॥
नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं ।
संतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥
लालित्यममरस्येव श्रीहर्षस्येव वक्रिमा ।
नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥
काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतघ्नस्य नो
मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं ।
यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं
तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥
यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव ।
पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥
संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छेश्रीश्रीजयसिंहसूरिशि-
ष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे
कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४
The provided image is completely blank and contains no visible text to transcribe.