सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

९] हम्मीरदेवयागवर्णनम् ७९
द्विजादेशान्नृपो यज्ञ—दीक्षामीक्षाकटाक्षितः ।
स कृतोपनिषद्देवी वेदीपाश्र्वमशिश्रियत् ॥ ८७ ॥
मंत्राहूतत्रयस्त्रिंश—द्धनुजद्वेषिकोटयः ।
जुह्वति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥
वेदमंत्रानुभावात्सा रुचिना शुचिना ऽमुना ।
पिपिरे सर्पिषां विप्रा—र्पिताः स्फीताः परंपराः ॥ ८९ ॥
तदर्यास्यसुधायागात् दाहभीचकिता इव ।
आपतंत्यपि हव्यानि तदा जगृहिरे सुराः । ९० ॥
गायत्सु मधुरं वेदी—ऋचो विप्रेषु हर्षतः ।
चलत्कीलावलीव्याजा ननर्तेव हुताशनः ॥ ९१ ॥
नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः ।
ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥
हाटकानां ततः कोटिं क्षोणी.. ..गसंपदं ।
भूदेवेभ्यो नृदेवोऽदा दक्षिणां चारुलक्षणां ॥ ९३ ॥
नृपविश्राणितस्वर्ण—कूटेपु नटतो द्विजान् ।
निरीक्ष्य निर्जरा मेरु—क्रोडक्रीडामदं जहुः ॥ ९४ ॥
इहैव स्वर्णदानेन तथाऽभूतूपदार्थिनः ।
तान्विहायोच्चकैर्दातु नृपास्यित यथार्थता ॥ ९५ ॥
रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं ।
गजदं वाजिदं केचित् श्रीहम्मीरं तदाम्तुवन् ॥ ९६ ॥
विश्राणनं सृजन् चिंता—कल्पनाकामनातिगं ।
स चिंतामणिकल्पद्रु—कामकुंभेष्वधात् घृणां ॥ ९७ ॥
सितोपलामिलन्मुग्ध—दुग्धादिरसपेशलं ।
राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥
ततः पुरोहितेनाभि—युक्तो युक्तं पुरोहितं ।
आददे नृपतिः प्रीतो मासमेकं मुनिव्रतं ॥ ९९ ॥

८० श्रीहम्मीरमहाकाव्ये [ सर्गः
इतश्च शत्रुहृद्द्लचां दिल्लचां शकमतल्लिका ।
बभूवाल्लावदीनाख्यो व्याख्यातः शौर्यवतां धुरि ॥ १०० ॥
ज्ञातभूपस्वरूपेण तदा तेन स्वसोदरः ।
उल्लूखानाऽख्यया ख्यातो जगदे जगदेकजित् ॥ १०१ ॥
रणस्तंभपुराधीशो जैत्रसिंहोऽभवत्पुरा ।
प्रददौ स सदा दंडं मम चंडौजसो भयात् ॥ १०२ ॥
हम्मीरनामा तत्सूनु रधुनाऽखर्वगर्ववान् ।
दंडं दूरत एवास्तु न वाक्यमपि यच्छति ॥ १०३ ॥
स महौजस्तया शक्यो जेतुं नाभूदियच्चिरं ।
व्रतेस्थितिर्तयेदानीं लीलयैव विजीयते ॥ १०४ ॥
तद्गत्वास्यारणस्तंभ—तलं देशं विनाशय ।
हते देशे स संस्थातुं सासहिः कति वासरान् ॥ १०५ ॥
इत्यवाप्य प्रभोराज्ञा—मुल्लूखानोयमर्पणः ।
प्रतस्थेष्टायुतीमाना—श्ववारस्फारविक्रमः ॥ १०६ ॥
रंगत्तुरंगतुंगोर्मि गर्जद्द्विरदवारिदः ।
शाणोलेखितशस्त्रौर्वी रेजेऽस्य बलवारिधिः ॥ १०७ ॥
भुग्नयन् बलभारेण फटाटोपं स वासुकेः ।
प्रवेष्टुमक्षमोभ्यंत—र्वर्णनाशातटे स्थितः १०८ ॥
ज्वालयन्मुद्गसान् ग्रामान् आर्द्रवह्वांश्च चारयन् ।
आसन्नाष्टादशान् घस्रान् सुखेनैषोत्यवाहयत् ॥ १०९ ॥
त्रिशुद्ध्योच्चात्तव्रतत्वेन जोषं तस्थुषि भूपतौ ।
भीमसिंहोथ सेनानी—र्धर्मसिंहधियोद्धुरः ॥ ११० ॥-
उत्फालसमरोत्ताल—वीरवाराकुलं बलं ।
सहादाय महावीर्य श्चाचालारिबलं प्रति ॥ १११ ॥ युग्मं ॥
चाहमानबलेवाद्य—माननिस्नाननिस्वनन् ।
निशम्य व्याकुलीभावं शिबिरे दधिरे शकाः ॥ ११२ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८१
वारणेष्वक्षिपन् केपि प्रखरान् प्रखरा रणे ।
वाहनभ्युद्यतोत्साहा मंक्षु पर्याणयन् परे ॥ ११३ ॥
अबध्नंकेपि तूणीरा नगृह्लन् केपि मुद्गरान् ।
अकर्षन् केपि निस्रिंशा नन्वहन्के हि खेटकान् ॥ ११४ ॥
चंडदंडप्रपातेन केचित् वादान्यवीवदन् ।
योद्धृन् ज्ञापयितुं योद्धुं सन्निधीभवितुं रयात् ॥ ११५ ॥
धीरत्वं प्रापयन् सैन्या नथोल्लूखाननायकः ।
निर्ययौ स्वयमारुह्य सिंधुं सिंधुरोजसो ॥ ११६ ॥
वंशाग्रलंबितश्याम—सितचामरैकत्वान् ।
लग्नंगायमीलक्षं अंतरिक्षमजायत ॥ ११७ ॥
शक्राणां बाहुजानां च मिथोष्यथ निरीक्षणात् ।
अजागरीन्महावैरं दैत्यानां द्युसदामिव ॥ ११८ ॥
पदगः पदगं सादी सादिनं रथिनं रथी ।
निषादिनं निषादीचे—त्यवृण्वन् सैनिका मिथः ॥ ११९ ॥
माभूदुद्दरसच्छेदो ऽस्माकं तापनतापनात् ।
इतीव प्राक् भटास्तेनु र्गगने कांडमंडपं ॥ १२० ॥
अंगे लगंत प्रत्यर्थि—पत्रिणो वीरकुंजरान् ।
सुखयामासुरेणाक्षी—कटाक्षा इव कामिन ॥ १२१ ॥
वीरा. सर्वांगसंलग्ने रिपुक्षिप्तैः शिलीमुखैः ।
रेजु र्जयरामाश्लेष—सुखाद्रोमांचिता इव ॥ १२२ ॥
नीरंध्रप्रसृतैर्बाणैः कल्पिते मेघमंडले ।
युक्तमेवोदडीयंत हंसा हृत्सरसौजगिनां ॥ १२३ ॥
वैरिवक्त्रसरोजेषु भ्रामयित्वा शिलीमुखान् ।
अपाययन्मनोह्त्य तज्जीवितरसान्परे ॥ १२४ ॥
हर्षात्प्रनृत्यतां वीर—कोटीराणां रणांगणे ।
खङ्ङ्गाराः खड्गदंडानां कस्यासन्न मनोमुदे ॥ १२५ ॥
11 k

८२ श्रीहम्मीरमहाकाव्ये [ सर्गः
क्षणयायावरैः प्राणै श्चिरस्थास्नुयशोर्जनात् ।
भेजिरे भटकोटीरा दिव्यां व्यवहृतिक्रियाम् ॥ १२६ ॥
उत्प्लुत्योत्प्लुत्य धावंतः सादिशीर्षच्छिदेच्छया ।
जीवंतोपि यियासंत इव स्वर्गं बभुर्भटाः ॥ १२७ ॥
असृजारुणिता रेजु वीराणां तरवारयः ।
लोला इव पलादानां रणे कीलालपायिनां ॥ १२८ ॥
लग्नमात्रा अपि भटान् प्रापयंत्यो यमोदरं ।
यमदंष्ट्रानिर्ज नाम निन्यिरे चरितार्थतां ॥ १२९ ॥
खड्गळूनपतन्मुंड—दंतुरेपि रणांगणे ।
धावंतो नास्खलन्वीराः स्वशौर्यालंबिता इव ॥ १३० ॥
खत्कुचोन्नतिहत्कुंभा कुंभिनोद्य हता रणे ।
इयेके स्त्रीप्रतीत्यर्थं दंतिदंतानलांसिषुः ॥ १३१ ॥
समप्रदेशमापन्नान् यवना वीक्ष्य बाहुजान् ।
अधावंत पुरस्कृत्य वारणान्वीरवारणान् ॥ १३२ ॥
चाहमानैरुःपूरं पूरिता मर्मभिच्छरैः ।
तस्थुरूष्वंदमा एव द्विट्गजा स्तंभिता इव ॥ १३३ ॥
तदा भटप्रकांडानां युद्धं किमिव वर्ण्यते ।
यदयुध्यत शस्त्राण्य—प्यन्योन्यास्फालनच्छलात् ॥ १३४ ॥
बलोच्छलितधूलीभि र्महाध्वांते प्रसर्पति ।
स्वान्योपलक्षणं जज्ञे केवलं स्वस्वभाषया ॥ १३५ ॥
एवं स्फुरति कीनाश—कोटिहृत्तर्पणे रणे ।
धानापेषं स्म पिंषंति चाहमाना द्विषद्वलं ॥ १३६ ॥
शत्रुभीत्या कबंथांत—र्निंविष्टजनरक्षणात् ।
मृता अपि भटाश्चित्रं न शरण्यव्रतं जहुः ॥ १३७ ॥
दृढात्ततातपतच्छत्रैः पर्यस्तै र्भटपाणिभिः ।
युयुत्सुरिव भाति स्म तदा समरभूरपि ॥ १३८ ॥

हम्मीरदेवदिग्विजयवर्णनम् ८३
दंतिदंते पदं दत्त्वा प्रहरंतो निषादिनः ।
चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥
निषादिनो न ते ते न सादिनो न च ते भटाः ।
उर पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥
हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे ।
हायं हायं स्म नश्यंति काकनाशां शकायुधाः ॥ १४१ ॥
केचित्तृणं दधुर्दंतैर्निपेतुः केपि पादयोः ।
खङ्गैरिष्यवदन्केपि जीवं त्रातुं शक्नुवः ॥ १४२ ॥
इत्थं भंक्त्वा शतानीकं भीमसिंहो न्यवर्त्तत ।
अनुपतस्थे प्रच्छन्नमुलूखानो प्यमर्षणः ॥ १४३ ॥
बाहुजा लुंठितानेक—स्वर्णकोटीरकंकटाः ।
जितकाशितया भीमं पश्चात्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥
अद्रिघट्टान् विशन् भीम—सिंहोपि परया मुदा ।
आच्छिद्य स्वीकृतान्युधैः शकवाद्यान्यवीवदन् ॥ १४५ ॥
यत्र यत्र स्वकातोद्य—निर्घोषः प्रसरत्परं ।
तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥
इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः ।
तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥
मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत ।
वव्रे भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥
तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् ।
कांडखंडितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥
जितकाशी शकेंद्रोपि शिबिरं प्राप्य सत्वरं ।
बाहुजेभ्यः पुनर्बिभ्यत् वव्रे स्वपुरं प्रति ॥ १५० ॥
अथ पूर्णव्रतो धर्म—सिंह मल्याद्रिघट्टकान् ।
हित्वा गतं नृपो भीम—सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥

८४ श्रीहम्मीरमहाकाव्ये { सर्गः
स्फुटिते चक्षुषी नूनं यन्नादर्शि शक्रो बली ।
स्वयं पश्चाद्गदस्थासी स्तन्न पुंस्त्वमपि त्वयि ॥ १५२ ॥
साक्रोशमित्युपालभ्या—भित्सर्त्स्य भूपतिर्मुहुः ।
मुष्कयुग्मच्छिदा पूर्वं तद्दृशौ निरचीकरत् ॥ १५३ ॥
षंडोविंदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
भोजदेवाभिधः खड्—ग्राहीत्यपरनामभाक् ॥ १५४ ॥
धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
तं च निर्वासयन् देशादमुनैव न्यषिध्यत ॥ १५५ ॥
अथापमानात्सोभ्येत्य गुप्तवैरः स्वमंदिरं ।
अधीतीभरते धारां देवीं नृत्यमशिक्षयत् ॥ १५६ ॥
तां च प्रेष्यानिशं नृत्य—च्छलात्पार्थिवपर्षदि ।
वेश्मस्थोपि विदामास स सर्वं नृपतिस्थितिं ॥ १५७ ॥
चिंताचितांगी सान्येद्यु रागता नृपपर्षदः ।
पृष्टांऽधेन जगौ चिंता—कारणं हृद्दिदारणं ॥ १५८ ॥
ताताद्य वेधरोगेण मृताऽश्वश्रवणात् विभोः ।
प्रीत्यै न गीतनृत्यादि चिंता तेनेयमुल्बणा ॥ १५९ ॥
श्रुत्वेयसाविमामाह चिंता मास्म कृथा वृथा ।
तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥
आसाद्यते विभो धर्म—सिंहश्चेत्स्वपदं पुनः ।
मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥
ओमिति प्रतिपद्यैषा गता राज्ञे तदूचिषी ।
लोभात्सोप्यंधमाहूया—ध्यक्षार्षीत्स्वपदे पुनः ॥ १६२ ॥
विवेकदीपो दीप्येत तावद्धृदि सतामपि ।
तृष्णाझंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६३ ॥
तृष्णावलिरियं कापि नैवेव प्रतिभासते ।
सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥ १६४ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८५
बिंदवोपि स्फुरल्लोभ—मदेनांधंभाविष्णवः ।
सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥
प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां ।
चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुराशयान् ॥ १६६ ॥
लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना ।
स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥
गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च ।
क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥
द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः ।
वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥
प्रजादंडेने यत्तेने प्रतेने कोशवर्धनं ।
तत्किं स्त्रस्यैव मांसेन न स्वदेहोपबृंहणं ॥ १७० ॥
अथ स्वपदभोक्तृत्वात् बद्धवैराश्चिरं हृदि ।
स भुक्ताव्दव्ययादाय—शुद्धिं भोजमयाचत ॥ १७१ ॥
क्रुद्धौऽधस्फूर्तिमालोक्य भोजदेवोथ सत्वरं ।
गत्वा व्यजिज्ञपत् भूपं मौलिमौलीपितांजलिः ॥ १७२ ॥
देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥
निजगाद नृपो यस्य मयि भक्तिरनश्वरी ।
न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥
स्वामीव स्वामिनां मान्यः सेवनीयो ऽनुजीविभिः ।
सुस्थिरस्थाणुसत्कारात् अनड्डान् किन्न पूज्यते ॥ १७५ ॥
भाषणेनामुना रौद्र—दृग्वक्त्रालोकनेन च ।
नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥
निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् ।
मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं ॥

८६ श्रीहम्मीरमहाकाव्ये [ सर्गः
तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां ।
योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥
अन्येद्युर्नृपतिर्वैज - नाथयात्रामुपागतः ।
दृष्ट्वा पृष्ठस्थितं भोज मन्योक्त्येदमभाषत ॥ १७९ ॥
संख्येयांत्र पदे पदेपि बहवः क्षुद्रा निकामं खगा
नो कुत्रापि समोस्ति गर्ह्य इतरः काकाद्धराकात्परं ।
क्रोधाविष्ट पटिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै-
स्नुत्यत्पक्षचयोपि यत्तरूतटं नापत्रपः प्रोज्झति ॥ १८० ॥
अनयाऽन्योक्तिकौमुद्या भोजोऽम्भोजमिवास्तरूक् ।
वेश्मागत्य रहः पीथ - सिंहं सोदरमब्रवीत् ॥ १८१ ॥
देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः ।
सेवा हेवाकिनोप्यस्मा न्तृणान्यापि मन्यते ॥ १८२ ॥
अवाप्तामेयसाम्राज्य -- मदमोहितमानसाः ।
यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥
यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥
संमंत्र्य सोदरेणैवं भूपं गत्वा व्यजिज्ञपत् ।
काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५ ॥
जगाद भूपति र्यासि परतः परतो न किं ।
विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥
इत्याकृष्टोपि कौलिन्या त्क्षमामेव क्षमापतौ ।
बिभ्राणः प्रचचालैषो ऽनुकाशीं सपरिच्छदः ॥ १८७ ॥
तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद-
र्दण्डनायकपदे रतिपालवीरं ।
युक्त्याभिषिच्य जगदेकहितत्रिवर्ग-
संसर्गतोतिसरसान् दिवसाननैषीत् ॥ १८८ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८७
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरम-
हाकाव्ये वीराङ्के हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥
॥ अथ दशमः सर्गः ॥
धरणीरमणापमानना दथ भोजः सशिरोरुहामगतः ।
परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीयचिंतयत् ॥ १ ॥
विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गतिः ॥ २ ॥
गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः ।
स शरैरिव दुर्जनैर्नयतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥ ३ ॥
अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते ।
अपि शूकशिखा ततो वरं व्यथयत्यंघ्रिमसौ तदाऽहता ॥ ४ ॥
अपकारपरान्सहोदरान् अपि हन्यान्निल नास्ति पातकं ।
अभिमानवतां नयोन्मुखैः स्थितिरेशा जगदे सनातनी ॥ ५ ॥
सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
सुहृदप्यपकारकृत् द्विष न्नुपकारी तु सुहृद्विपन्नपि ॥ ६ ॥
सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि ।
जनिरेव जनिष्ट तस्य मा जननी यौवनगर्वगर्हिणी ॥ ७ ॥
परिपृच्छय ततः सहोदरं पिथर्म सन्मतिवासमंदिरे ।
अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥ ८ ॥
तादृक्कुलीनोपि तदा स भोज - देवोऽधुनाऽङ्गीकृतवान्यदेवं ।
तन्म्लेच्छभूजृंभितमेव तस्मात् सतां न तद्रूरपि वासयोग्या ॥ ९ ॥
तत्समागममहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै ।
वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥ १० ॥
तत्र चित्ररुचिभाजि स भोजः सोदरं स्वमदरं परिमुच्य ।
छाग् स्वयं पुनरुपेत्य च दिल्हीं सेवतेस्म शकनायकमॆव ॥ ११ ॥

८८ श्रीहम्मीरमहाकाव्ये [सर्गः

प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः ।
तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥
तं विपक्षर्माप यत्सदकार्षीत् साक् शक्रस्तदुचितोचितमेव ।
अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥
आत्मनीनमधिगत्य समुच्चै रन्यदेति यवनेदुरपृच्छत् ।
ब्रूहि भोज कथमेष हम्मीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥
सत्यमेव यदि पृच्छसि कार्य स्तर्हि नो मम गिरीश्वर कोपः ।
इत्युदीर्य गिरमाहितभारा माततान गतभीरथ भोजः ॥ १५ ॥
शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां ।
यो भूमेश्चंचलाक्ष्याः पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥
दीपः पर्यायशेषः स्फुरदरुणमणीदीप्तिराकारशेषः
सूरोप्याख्यानशेषः प्रलयशिखिशिखाश्रेणिराभासशेषः ।
यस्य प्रौढप्रतापे प्रसरति नितमां क्षोणिपीठे क्षितींदोः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥
यस्मिन् शश्वन्निवासा ऋतव इव गुणा हायने षट् क्षितींदौ
श्रित्वा तिस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि ।
अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १८ ॥
यं व्यालोक्यापि खड्गग्रहणपटुकरं बिभ्यतां पार्थिवानां
निःश्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
किंचैकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगवं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १९ ॥
अश्रांतस्त्राविदानोच्छलितपरिमलाकृष्टगुंजद्विरेफ-
श्रेणीदिट्टुंभिकुंभस्थलदलनकलाकेलिकंदूलहस्तः ।

१० ] भोजदेवसंवादवर्णनम् ८९
सोदर्यो यस्य वीरव्रजमुकुटमणीर्वीरमो विश्वजेता
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २० ॥
तद्वातुलुंठितार्थाऽर्यननिविदमते र्मानमुन्मूलयंन्तो
निःशंके मेनिरे तां स्फुटसुभटतया ये तृणायापि नैव ।
औदीच्यास्तेऽपि सेवां विदधति महिमासाहिमुख्या यदीयां
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २१ ॥
देशो यस्याप्युदग्रं कृतसुकृतजनाचारचारुप्रदेशो
दुर्गे दुर्गाह्यमेवाहितधरणिभुजां श्रेणिभिश्श्वेतसापि ।
अन्योन्यस्पर्द्धिवीर्याऽजिनगुणिगणसोप्याहवे वीरवाराः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २२ ॥
अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः
काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः ।
गार्जे नो गुर्जरेंद्रः प्रथयति पृथुधीर्धैर्य्य कौशेयकापे
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥
यस्याग्रे नैव किंचिद्————पतिर्भातिशुष्कोठकंठो
र्यं नात्यक्षनाथः प्रथितकृपणधीर्जीवरक्षामभीप्सुं ।
आत्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ॥
शूरः कश्चन कश्चनापि मतिमान्दाक्षिण्यवान्कश्चन
प्राज्ञः कश्चन कश्चनापि सुकृती दाता पुनः कश्चन ।
इत्येकैकगुणप्ररूढमहिमा जागर्ति भूयान् जनः
सर्वैः श्रेष्ठगुणैरधिष्ठिततनुर्हम्मीरवीरः परं ॥ २५ ॥
एतस्याधिपतेस्तयोन्नतकरांभोजप्रसादोदयात्
दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्या स्म मात्यद्भुतं ।
किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना
नांगुल्यस्तलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥
12 k

९० श्रीहम्मीरमहाकाव्ये [सर्गः
संग्रामेष्वस्य तुरंगनिष्ठुरखुरोत्खातैरजोभिः क्षणात्
पंकत्वं गमिते मिलद्रिपुशिरश्छेदोच्छलच्छोणितैः ।
व्योम्नो मध्यपथे रथस्खलनतामाशंकमानोर्यमा
ऽवाचीं कर्ह्यपि चंचरीति भगवान् कर्ह्युप्युदीचीमपि ॥ २७ ॥
दीपस्येव समीरणः सरसिजश्रेणेरिवांभोधरः
सूर्यस्येव दिनात्ययो यतिवरस्यैवेणदृक्संगमः ।
देहस्येव गदोदयो गुणगणस्यैवातिलोभाश्रयः
तद्राज्यस्य विनाशहेतुरधुनैकोधः परं दीव्यति ॥ २८ ॥
तदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रवितर प्रयाणकं ।
यदमुष्य नीव्वदधुना न वोल्लसत् सुमनप्ररोहहरितीकृताव्निः ॥ २९ ॥
ननु तेषु मक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
जहति प्रजा अमुमिता निराशातां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥
आचम्येत्थं तस्य वाचं शकाना मीशो ऽप्युल्लूखानमाहूय सद्यः ।
दत्वा लक्षं सादिनः सादितारीन् देशं येनाचीचलचाहमानं ॥ ३१ ॥
उल्लूखानः पूरवत्सोथ वार्धे वृत्तिं शत्रून् प्रापयन् वैतसीं खाक् ।
क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हिंदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥
चरैरथोकारिसमागमोऽसौ हम्मीरदेवः क्षितिपालमौलिः ।
न्यपातयत्पर्षदि हर्षहेला—मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥
राज्ञश्चेष्टासौष्ठवं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
वीराः स्मेरास्यांबुजाम्लेच्छभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥
दृष्ट्वा म्लेच्छान्मारितान्मत्प्रकाशे सूरीन् भूवन् काव्यमी मावसन्नाः ।
इत्थं ध्यात्वेवास भास्वान् प्रतीची—भूभृच्चूलाचुंबिविंबस्तदानीं ॥ ३५ ॥
जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
व्याचक्षाणामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥
गलद्विचारोलसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
तमांसि संगंतुमिव स्वबंधून् शकान्प्रसस्रुर्भुवनेभितोपि ॥ ३७ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९१

श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहिः ।
श्रीजाजदेवो दिशि दक्षिणस्यां दिश्युत्तरस्यामपि गर्भंरूकः ॥ ३८ ॥
आग्नेयभागे रतिपालवीरः समीरभागे तिचरः शकेशः ।
ईशानभागे रणमल्लमल्लः श्रीवैचरो नैर्ऋतनामभागे ॥ ३९ ॥
इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
हम्मीर हम्मीर इति ब्रुवाणा शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥
द्रुतमेव केपि परिखामपूरन् अदहन्परे दलिकदुर्गमुच्छ्रितं ।
न्यविशंत चांतरितरेतिगत. पटवासरज्जुनिचयानपरेऽलुनन् ॥ ४१ ॥
धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजा संतु के ऽमी ।
दूर्वालाचं मंख्यपीमान् लुनीमः शब्दाद्वैतं जातमेवं शकानां ॥ ४२ ॥
केचित्कृपाणाँलगुडाँश्च केचि चापान्परे केचन मुद्गराँश्च ।
आक्रम्यमाणा नृपवीरवौरै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥
श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान्
आतंककंपितहृदो यवना जवेन ।
संदेहमूर्ज्जितमिताः किल जीवितव्ये
कर्त्तं किमद्य भवितेत्यवदन्सदैन्यं ॥ ४४ ॥
श्रावं श्रावं सिंहनादान् भटानां भीताश्चक्रु- सारसी यामिमेंद्राः ।
तामाकर्ण्य त्राससंतोतिजीवं लावा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥
कराग्रायग्रनिशितासिदंड—दीप्रप्रभाप्रज्वलितप्रदीपैः ।
उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥
निष्कासयामास रणाय यो यः शकः क्षुधांधो युधि यद्यदंगं ।
तत्तल्लुनानाः किल तस्य तस्य न चाहमान. कुतुकाय कस्य ॥ ४७ ।
भीता जीवाघातमाकर्ण्य सद्यो म्लेच्छा यावद्दिक्षु चक्षु. क्षिपंति ।
बाणास्तावत्प्रेरिताश्चाहमानै विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥
चाहमानभटपाणिपंकजौ-न्मुक्तमार्गणगणैश्वितीकृताः।
रेजिरे करिवरा रणांगणे पर्वता इव नवोलसच्छदाः ॥ ४९ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९३
अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः ।
मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानिं ॥ ६३ ॥
परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्व ।
नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥
अस्मासु जीवत्सु यदिह भोज-देवः कृतघ्नो जगरां भुनक्ति ।
वीरव्रतं तर्हि विलीनमेव संत्रीभवन् मा कतरो नरेश ॥ ६५ ॥
सहामहे यच्च दिनांस्तमेता-न्तोऽत्र हेतुस्तव बंधुतैव ।
त्वद्देशमन्वानयतो ऽधुनारि-बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥
तद्यात्रायै गंतुमेते नरेश प्रादिश्यतां तेष्विति प्रोक्तवत्सु ।
भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥
जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुदुंबमेव ॥ ६८ ॥
इतश्च तस्मात्समराद्विनष्टः खानः स उल्लूपपदः कथंचित् ।
समेत्य दिल्लीं निजगाद राज्ञे तचाहमानप्रकृतं समस्तं ॥ ६९ ॥
पलायितः कातरवद्द्ववान् किं ततः क्षितीशे गदतीति सोऽवक् ।
पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि त्वामिलिष्यं ॥ ७० ॥
निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
मन्यूतीड्महिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥
विस्तार्यसिचयमये गतः सरस्तत्तदद्भुतमतीनां ।
कटुकं विरटन् तदुपरि सुतरां विंलुलोठ भूतचांत इव ॥ ७२ ॥
किमेरे किमेरे जातं पृष्टः शकभूभुजा जगादैषः ।
मरणाव्यपि स्वामि न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥
हम्मीरवीरनुन्नो महिमासाहिः स वीरकोटीरः ।
हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥ -
लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रवृत्तेऽसौ ॥ ७५ ॥

३ ] श्रीहम्मीरमहाकाव्ये [
तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि ।
हृदयं वातांदोलित—तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥
लुठितोऽसि किमिह सिचयो—परीति पृष्टोऽमुना पुनः सोऽब्रवीत् ।
जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥
रणभंगाकुलसोदर—परिदेवनदलिकसंकुले नितरां ।
नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥
तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपोधरो
वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
चक्रे काव्यपरंपरामिति तदा म्लेंच्छावनीवल्लभः ॥ ७९ ॥
रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां
हे भ्रातस्तत्कीर्तिकेलिसदनं स्थैर्यं त्वमप्याश्रय ।
दुःखेनेव सह क्षणेन युवयोरेतस्य सोऽहं वली
हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥
निद्रामुद्रणसांद्रनेत्रयुगुलः सिंहः समुत्थापितो
निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
सर्वांगं प्रचिकीर्षितं च हुतभुक्कीलापरिष्वंजनं
हम्मिरेण बताद्य कोपितवता म्लेंच्छावनीवल्लभं ॥ ८१ ॥
कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
कुंताग्रेण शितेन कश्च नयने कंडूयितुं कांक्षति ।
कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं
को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥
देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
दुर्गं यद्यस्ति दुर्गं प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥

१० ] अल्लावदीनामर्षगवर्णनम् ९५
तावद्गर्जन्तु जायन्मदभरतरलाश्चंचला वीरमान्या
वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।
ज्यारवैर्विस्फुरद्भिर्जगदखिलमपि प्रापयेन्नेडभावं
यावन्नालावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥
पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे
स्वर्गं चेत्समुपैति सैन्द्रमपि तं संपातयाम्यग्रतः ।
दृग्भ्यां चेद्ददृशे न संगरभरे महोद्दर्यीविक्रमः
कर्णाभ्यामपि शुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥
रे रे हम्मीर वीरस्त्वमसि परमसो सांप्रतं वीरता ते
नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपार्थ्यव्रतस्य ।
भ्राम्यत्युच्चैर्वनांते मदमलिनकपोलस्थलो हंत दंती
तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥
आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी
भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
यत्कर्म प्रतनोति संगरभरं प्राप्तस्तदेवाधुना
कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥
तत्कालं यवनावनीपतिरय प्रोल्लासिमानान् स्फुरन्
मानान्स्वेन शयाम्बुजेन लिखितान् विश्राण्य संप्रेषितैः ।
देशेभ्यो निखिलेभ्य एव निखिलान् दूतैः प्रभूतैरसौ
वीरानाह्वयतिस्म विस्मयकरप्रौदामदोर्विक्रमान् ॥ ८८ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमह
काव्ये वीरांके अल्लावदीनामर्षोनाम दशमः सर्गः समाप्तः ॥
अथैकादशः सर्गः
अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
पंचाल बंगाल धमीम भिल्ल नेपाल डाहल हिमाद्रिमध्याः ॥ १ ॥

इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीकाः ।
शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥२॥ युग्मं ॥
वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्योभवंतिस्म दिशां प्रदेशाः ॥ ३ ॥
याते मयीदं बलभारभुग्नं कः सासहिर्धत्तुमिमां धरित्रीं ।
इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥
साश्वद्विपेष्वेषु चलत्सु भूभृ—न्निदेशमात्रेण दिशो दशापि ।
दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ॥ ५ ॥
पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः ।
तलं तिलस्यापि तुषानुमेयं रिक्तं यया न काचिदास भूमेः ॥ ६ ॥
ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ ।
इदं महावीर्य्य वितीर्य्य सैन्यं अचीचलत् जेतुममुं हम्मीरं ॥ ७ ॥
शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥
लब्ध्वा सहायं निसुरत्तखानं ज्वलन् क्रुधोलूपपदः सखानः ।
इयेष मूलादपि वैरिवंशान् दग्धुं बृहद्भानुरिवाहिंकांतं ॥ ९ ॥
बलं किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तंत्र ॥
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य्यः ॥ १० ॥
पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसो न शक्तः ।
तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तुं गुर्वी ॥ ११ ॥
धावद्वयालीपद्पादजात—रेणूत्करैः पूरिषताब्धयो मा ।
हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १२ ॥
सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तार्हि पराभविष्यन् ।
इत्यूचुषः कांश्चिदुपेत्पूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥
गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च ।
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥

११ ] यवनवीरवर्णनम् ९७
सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरोद्राः ।
प्रधारमानाः सुभटा विरेजु लौहस्य गोला इव विस्फुरंतः ॥ १५ ॥
क्षणात् शकानां कटकैर्निपीता-शेषाम्भसामध्वनि निम्नगानां ।
गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥
भुक्तिं व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र ।
अयेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमा ॥ १७ ॥
सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः शैशवशंवदः सः ।
निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥
ततोऽद्रिघट्टान् प्रसमीक्ष्य पूर्वा-नुभूतभीसंस्मरणादयालुः ।
आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥
भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च ।
तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥
तद्द्वाहुजान् संधिमिषेण विप्र-तार्याद्रिघट्टेपु सुखं विशामः ।
उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥
मते मतेऽव्यानुमतेऽमुनापि श्रीमोल्हणं श्वाग् विधिनानुशास्य ।
दिदेश संधानकृते हमीर-(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥
स्वयं च सन्नह्य बलान्यमुष्मि क्षेत्रं छलेनाविशदंतरद्रि ।
मध्ये प्रविष्टः सुखसाध्य एवा-स्माकं भटैरित्यमुपेक्षितश्च ॥ २३ ॥
मुड्यां प्रतोल्यामनुजस्य शस्य श्रीमंउपे दुर्गवरे निजं च ।
सरश्च जैत्रं परितः परेषा मतिष्ठपत्सैन्यमपास्यदैन्यः ॥ २४ ॥
स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन ।
दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रार्पितनेत्रपद्मः ॥ २५ ॥
वप्रे यदीये स्फटिकोद्भवानां माला लसंखः कपिशीर्षकाणां ।
दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥
प्रदेशयोरप्युभयोर्मिलद्भि र्माणिक्यसोपानमयूखजालैः ।
विलासवापीपु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥
13 k

९८ श्रीहम्मीरमहाकाव्ये [सर्गः
यस्मिन्मृगाक्षीवदनेन्दुभाभि र्विसारिणीभिर्विजितः शशांकः।
खेयांबुपूरप्रतिबिंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥
त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे ।
लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुमहो न यत्र ॥ २९ ॥
मरुत्तरंगप्रविकंपितायां ध्वजावलौ इभयतमालयेषु ।
लीनेव यत्रास्थिरता न जातु रमासु रामासु समुल्ललास ॥ ३० ॥
जालैर्मणीनामधिकुट्टिमोद्य—द्भासैः समंतात्प्रसरन्मयूखैः ।
प्रासादशृंगेषु दृशौधनावली निन्येवकेशित्वमुषासु यत्र ॥ ३१ ॥
यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
मांगल्यहेतो र्नवरं निरीक्षां—चक्रुर्विभाते मुकुरेषु वक्त्रं ॥ ३२ ॥
यत्रेभदंतोद्भवचित्रजाल—वातायनस्थाः कृतदिव्यभूषाः ।
विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति ॥ ३३ ॥
नृपालयोत्तंसितशातकुंभं—कुंभप्रभा यत्र समुल्लसंत्यः ।
अभ्युन्नतासन्नपयोधराणां वर्षासु संपासमतामगच्छन् ॥ ३४ ॥
अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्च ।
मिष्टैः पयोभिः प्रतिभासमाना विभांति यागा इव यत्तडागाः ॥ ३५ ॥
वातायनाः किं किममी विमाना जनः समं तेष्विति संशयानः ।
अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥
विलासिवेश्मोदरदह्यमान—सुगंधिधूपोत्थितधूमसंगात् ।
व्यधायि यस्मिन्नपि किन्नरीभि र्यत्नजन्या पटवासयुक्तिः ॥ ३७ ॥
मद्वृद्धिसंस्पर्धिविवर्द्धिकीर्त्ति परं पुरं किंचिदिहास्ति नो वा ।
इतीव यद्ध्वंशिरोधिरुह्य भुवं दृशा पश्यति गोपुरेण ॥ ३८ ॥
निवासवद्भिः सुमनोभिरेभि र्विमानतास्मासु कृतेति दुःखात् ।
नैवास्वपन्नित्यपि निर्निमेष—कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९ ॥
विसारितक्रांतिचयाभिभूति—द्विरेफितस्वर्णतुलासु यत्र ।
स्त्रीणां मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव यमीषु रेजुः ॥ ४० ॥

११] हम्मीरराजपुरवर्णनम् ९९
सूर्याश्मकुड्यप्रतिबिंबिनारी—मुखानि यत्राब्जधिया वितर्क्य ।
दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥
कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
ध्वस्तेऽभवन् संतमसेऽवकेशि—यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥
निशम्य यत्रा[विरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥
दृग्मीलनकेलिषु यत्र बाला सखीमहातंकसुनिश्चलागी ।
पांचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
महाकुलकं
निभालयन् लोचनलोभिलाक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
नृपालयश्रीकरकैरवेषु दृशं भृशं स भ्रमरीचकार ॥ ४५ ॥
स्तंबेरमाणां मदवारिभिन्न—कुंभस्थलीसंचरणप्रमत्ताः ।
झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥
क्रीडागिरींदैरिव वीरक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्वैः पदखातविन्धैः ॥ ४७ ॥
भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं ।
पूर्वाद्रिचूलाश्रिततिग्मराश्म मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥
सिंहासनोत्तर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
रंगत्तरंगांगरुचीचयेने—व खर्वयंतं नवहेमगर्वं ॥ ४९ ॥
नक्षत्रचक्रेष्विव शीतरश्मि मर्मर्त्यचक्रेष्विव देवदेवं ।
नरेंद्रचक्रेषु विराज मान मनन्यजन्येन महामहिम्ना ॥ ५० ॥
निबद्धभूर्विवितसभ्यदंभान् सभामधस्तादिव कुर्वतीं गोः ।
अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५१ ॥
किमेषकामो न यतो ऽननंगः किमेष दक्षौ न यदद्वितीयः।
किमेषविष्णुर्न यतो ऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥