हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 118, कुल 185 में से
संदर्भ में पढ़ें[Header]
हम्मीरदेवराज्यप्राप्तिवर्णनम् ६९
प्राज्ञः सपत्नैः परिभूयमानो—प्युद्दीपनं न त्यजति स्वदेशं ।
दिवाकरालुप्तकरोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥
चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु ।
क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥
स्याद्राज्यमंत्रेषु किलैक एव श्रेयानमात्यो न पुनर्द्वितीयः ।
आरोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥
यो यत्र रक्तो यदि वा विरक्तो भवे विवेको नहि तस्य तत्र ।
अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥
मंत्रान्वहूनामपि धीसखानां श्रेयस्करात्रैव वदंति संतः ।
गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥
पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत ।
संवादता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरास्या ॥ १०० ॥
विराध्दपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः ।
तादृग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥
पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं ।
अद्यापि पश्चार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥
महाबलेनापि कलिर्न कार्यः समं शकेनेन लसच्छलेन ।
तथा समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥
पुरः पुरो जाग्रदुदग्रकष्टं दुरोदरं दूरत एव हेयं ।
दुरोदरारंभवशेन कां कां विडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥
बलाबलं सूत्रगतं विचार्य सविग्रहं यो विदधीत वृत्ति ।
स एव तत्तद्गुरुगौरवार्ह — शास्त्रज्ञधुर्यल मुपैति तात ॥ १०५ ॥
दत्वेति शिक्षां शुभवद्गराख्यां गेहेच देहेच निरीहचित्तः ।
जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्रीभ्राश्रमं पत्तनमन्वचालीत् ॥ १०६ ॥
शिवापि जंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः ।
यो ध्यातमात्रोप्युरुभक्तिभाजां दत्ते न किं भुक्तिमिवाशु मुक्तिं ॥ १०७ ॥