सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

७ ] . जलक्रीडावर्णनम् ५३
प्रियसरोजदृशां रतविज्ञता—स्थितिविवेकरुविभाविव दीक्षिताः ।
विविधभोगवतां रतमंदिरे रुरुचिरे परितोपि दशौधनाः ॥ २९ ॥
प्रणयिभिः सह सांप्रतमाहवः स्मरभवो भविता गुमहादिति ।
विविधभूषणकंकटसंग्रहा ड्यहवशां सुदृशो हृदयं व्यधुः ॥ ३० ॥
श्रवणकुंडलवेणिविलोचनां—युजमृजोषपिना मृगलोचनाः ।
सपदि चक्रहपाणशरावली—प्रभृति शस्त्रचयं किमराञ्जयन् ॥ ३१ ॥
उपगते दयिते भविता मया किमिह संपतयापि मुटर्मुहुः ।
इति रणत्कलकिंकिणिकामिषा—च्छ्रवणपूरित मेखलया जगौ ॥ ३२ ॥
तरुणिमोष्मविशुष्यदुपाहिता—च्छतरचंदनलेपनकौतवात् ।
मदनयुद्धकृते परिधापिता—विव कुचौ परया नववाससा ॥ ३३ ॥
रणितकिंकिणिसन्मनिमेखला—वलिमिषेण नगोढवपूरते ।
पतिभयादभितः स्मरमंदिरं स्फुरितजागरिदुर्गमिव व्यधात् ॥ ३४ ॥
रुरुचिरतितरां रुचिरद्युति—प्रसवसंभवशेष्परराजपः ।
स्मितसरोजदृशां मुखचंद्रमः—प्रसरदुन्नतिकांतिचया ’इव ॥ ३५ ॥
सरलकुज्जलकांतिलिपिच्छलात् वशकृतौ जगतः कमिता रतेः ।
ससुभटेषु पुरोगमतां दृशोः कथयतिस्म न किं हरिणीदृशां ॥ ३६ ॥
प्रतिफलन्निह मा रजनीकरो विदितलक्ष्ममुग्वं वितनिष्ट नः ।
इति धियेव जितेन्दुकपोलयो विदधिरे नवपत्रलताः स्त्रियः ॥ ३७ ॥
सहजपाटलतातिमनोहरे दधुरमूरधरे यदलक्तकं ।
तुहिनभासिरितीकरणश्रम—भ्रमकरं तदजायत नो किमु ॥ ३८ ॥
उरसिजेषु सखीजननिर्मिता मकरिका विवभुर्मृगचक्षुषाम् ।
मकरकेतुविभोस्तनवासिता—नुमिति साधनवंधुरविभ्रमाः ॥ ३९ ॥
परिपिबन् रमणो ध्वनिमेतयो र्भवति नैव समाभरतादरः ।
चरणयोर्विधृते इति नूपुरे मृदुगिरो हृदये बहु मेनिरे ॥ ४० ॥
न पटयोरपि सूचिकया विना भवति योग्यतमा किल योजना ।
दयितसंगमनेष्विति दूतिका जनगतागतमभ्यलपन् स्त्रियः ॥ ४१ ॥

५४ श्रीहम्मीरमहाकाव्ये [सर्गः
स्वमपि कांतममूष्वभितो विला-सिनमवेक्ष्य परिच्युतमत्सरा ।
रतिरपि श्रयतिस्म तनूदरी र्वलवता हि बलं न सहोचितं ॥ ४२ ॥
अथ मिथोपि मुखांबुजदर्पणे नयनगोचरचुंबितनुश्रियः ।
उदितकामरसादियतागमो-त्सुकतरं दधिरे प्रमदा मनः ॥ ४३ ॥
चलदृशां दयितेषु समानतां-बुजरुचेव कृशत्वमाश्रयत् ।
शितिसरोजरुचेव सह क्षणा दतिशयत्वमगादनुनेतृता ॥ ४४ ॥
मृगदृशः स्म विभांति कटाक्षिताः प्रणयिभिः स्फुटितोष्मपयःकणाः ।
निशितपक्ष्मविभिन्नवपुःस्रुता-द्यरसविंदुचयोपचिता इव ॥ ४५ ॥
मृदुरवा दयितेषु यथा यथा-यतकटाक्षचयानभिचिक्षिपुः ।
रतिपतिः स्पृशति स्म तथा तथा धनुरधिज्यमसौ विदयाशयः ॥ ४६ ॥
चरणलंबितहारमिषाच्छिता-क्षवलयैस्तलिमर्जुपसोद्यमैः ।
अजनि वारवधूटिनिर्मित-प्रवलमोहनभंगभयादिव ॥ ४७ ॥
इह धृते प्रविलोकयिता स मां तमहम्प्यखिलात्मतया रते ।
इति विचिंत्य पराधितपार्श्वतो गृहमणिं ज्वलितोज्वलवर्त्तिकं ॥ ४८ ॥
अयि तनोषि किमु द्यणुकोदरी-ति निगदन्नपि भर्त्तरि सत्वरं ।
त्यजति मानमशेषमपि प्रिया-स्म कटरे रजनीसंमयोर्जितं ॥ ४९ ॥
प्रियसमागमसूचकवामदृक्-स्फुरणतो मुदिताशयय दन्यया ।
हृदयनाथमनुप्रहितापि किं निजसखी न पथः स्म निवर्त्यते ॥ ५० ॥
आपि लवो युगकोटिशतायते धृतिपरस्य जनस्य ऋते यतः ।
हृदयहारिणि तत्र किमौचितीं स्पृशति मानिनि मानपरिग्रहः ॥ ५१ ॥
अनुनयन्नपि चैवमुपेक्षितो ह्यसुभगामिव चेद्भवतों त्यजेत् ।
किमयशःपटहो न तदा तव व्रजति कोपिनि डिंडिमडंबरं ॥ ५२ ॥
रतिकृतां प्रथितो रिपुरेव य स्तमपि मानभरं परिपुष्णती ।
सुचरितेत्युदितापि तदाशये कथमिव प्रतिभासि विलासिनी ॥ ५३ ॥
प्रतिवधूरधिगत्य समं त्वया सकलहं विदधे यदि तं स्वसात् ।
तव तदास्तु पुनः स कुतः करे परिचिताः पुरुषा हि न कस्यचित् ॥५४॥

७ ] जलक्रीडावर्णनम् ५५
सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज ।
परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढता ॥ ५५ ॥
मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति ।
इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥ ५६ ॥
षड्भिः कुलकं
स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं ।
समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥ ५७ ॥
हृदयनिकूटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी ।
सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥ ५८ ॥
अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं ।
स समुपैति यथा न च कुप्यती—त्यभिविबोध्य सखीप्रहितान्यया ॥ ५९ ॥
यदि वियोगमवेक्ष्यमियद्व्यथं स्मयमधास्यमिमं हृदि किं तदा ।
इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमयाक्षिपत् ॥ ६० ॥
प्रिय स मेद्यसि सुभ्रु विमानह त्व किमीश यशो मदनस्य किं ।
सहि भवेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥ ६१ ॥
प्रतिदिनं शतशोऽपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया ।
कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥ ६२ ॥
विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽग्रहीत ।
स्वयमपि स्फुरितोद्धषणैर्गल—न्निवसना सहसाथ किमातत ॥ ६३ ॥
यतिविरोधिंलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः ।
बभतुरीशकरांबुरुहे अधो—मुखपिधानतुलामिव बिभ्रती ॥ ६४ ॥
दृगतीतौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽल्लसत् ।
गृहपतौ समुपैयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥ ६५ ॥
स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतध्रुवः ।
रासमुदतिष्ठदसंशयमत्रुटन् इतरया किमु कंचुकसंधयः ॥ ६६ ॥

५६ श्रीहम्मीरमहाकाव्ये [सर्गः
सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् ।
समधित प्रतिशस्त्रमिवाथ सा जलमयं स्वदश्रुततिच्छलात् ॥ ६७ ॥
तव मुखं कमलं मम चंद्रमा स्तनदनयो रधुना स्मरकारितः ।
भवतु संधिरिति प्रवदन् परः स्वदयिताऽऽननयोजनमातनोत् ॥ ६८ ॥
तव ममाप्यधरं निपिपासतोर्विधुरतास्तु न कस्य च नेत्यथ ।
विलसतः स्म तथापपतुर्र्यथा—धरदलं सममेव वधूवरौ ॥ ६९ ॥
उपरि यावमृतस्य तयोरिहा—प्युपरितैव भवत्विति दंपती ।
विलसतः स्म तथा धरयोर्यथो—परितयैव मिथो जनि चुंबने ॥ ७० ॥
दयितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं ।
अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मियः ॥ ७१ ॥
अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं ।
निमिमिषुर्यदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ॥ ७२ ॥
विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् ।
मुकुलिताक्षससीत्कृतशब्दिता—ननपुरः करणेन विलासिनः ॥ ७३ ॥
हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् ।
दयितमित्यभिधास्खलनादवा—ङ्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥
प्रियतमाधरपल्लवचुंबनो—पनतकांतमुखेंदुमिषाच्छशी ।
मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥
दयितयोर्मिथ एक मुखासव—ग्रहणलंपटयोर्मुखसंगमे ।
द्विशशितापनिमित्तमुदलरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥
श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधरः शशी ।
अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेण विलासिनः ॥ ७७ ॥
प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल ।
क्रिमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥
भजं धृतिं त्यज भीतिमहेतुकां हियमवांचय वक्त्रमुदंचय ।
अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ॥ ७९ ॥

७ ] शृंगारवर्णनम् ५७
जघनसंगमनोत्सुकमानसं हृदयनाथमवेत्य मृगीदृशः ।
स्वयमपासरदेव तदंशुकं किमुधिताचरणे गुणिनो ऽबुधाः ॥ ८० ॥
असह आशु विदूरायितुं परो युवतिनीविमतिश्रुटदुत्सुकः ।
विषहते समुदीरितमन्मथो न खलु कश्चन कालविलंबनं ॥ ८१ ॥
परिसमाप्तरतोपि परः प्रिया—धररसं सुरसायनमन्विबन् ।
पुनरपि स्फुरिताप्तमसायको व्यधित किं किमसो न हदीपितं ॥ ८२ ॥
शशिमुखी सुरतेषु तथा चलत्—कनककुंडलकैतवकंपितौ ।
मृगदृशः पुरुषायित मूर्जितं समभिवीक्ष्य शलक्ष्णशालिनाश्विर ॥ ८३ ॥
वरयिता रतकेलिषु कौशलं भृशमसौ वहतीति परा मुदा ।
ऋजुरणन्नूपुरसिंञ्जितै रभिजगावि तद्गुणगौरवं ॥ ८४ ॥
मम मुखस्य विधोरपि दर्शनात् तव दृशौ कुमुदे अपि मीलितः ।
किमिदामन्यपरा शयनोन्मुखं स्तनतटेन जघान हि सं मुहु ॥ ८५ ॥
पुनरुपैषि तदोकसि तां विलो—क्यति जल्पसि वाथ तया समं ।
दयितयेत्युदितो विदधे शठो नहि नहीति मृषाप्यमृगोत्तरं ॥ ८६ ॥
जहिहि लाक्षणिकीं रूपमुत्तमे नहि न वेद्मि मनस्तव यन्मयि ।
अहह पश्य तवाधरपल्लवः स्फुरति मामिव चुंबिनुमुत्सुकः ॥ ८७ ॥
अपिच रागममांतमिवाशये न यहतो न दृशौ बहिरुद्गतं ।
इति विदग्धवचाः कुपितामपि प्रियतमां न परः किमहासयत ॥ ८८ ॥ युग्मं
रचयिता सखि तत्र किमेष मां नवरतं भविता च कथंकथं ।
इति मुहुः समवादि न का सखी रतिरसोत्सुकयापि नषोढया ॥ ८९ ॥
प्रियतमे पुरुषायितलाघवं किमपि पश्यति वक्त्रिनकंधरं ।
असहया रतमुज्झितुमन्यया गृहमणिः शमितः कुसुमौहया ॥ ९० ॥
सुरतकेलिषु शुभ्रु तवाहितं किमपि चेच्छपथोऽस्तु तदात्र मे ।
ऋतगिरं यदि मां न च मन्यसे ननु विधाय न पश्यसि किं तदा ॥ ९१ ॥
इति नवां रमणीं रतये परः स्मरकलाविदुरः समवूवुपत् ।
अतिविचक्षणतातिविमुग्धता—सुगविबोध्यमिदं यदि वा द्वयं ॥ ९२ ॥
8 k

५८ श्रीहम्मीरमहाकाव्ये [सर्गः
इति नवां रमणीं रमणः परः स्मरविलासकृते समबूबुधत् ।
सततनिर्मितकामकथोलसन् नवनवोक्त्यभिषिक्तमनोभवः ॥ ९३ ॥
प्रियतमस्य भृशं सुरतार्दने शपथपूर्वमदात् सुरतं पुरा ।
तदनुलब्धरसा न तदस्मर न्नववधूर्वपुरेस्मरवल्गितं ॥ ९४ ॥
अधरपानविधौ स्तनमर्दने नखरदोल्लिखने परिरंभणे ।
क्वचिदपि स्खलति स्म न कामिनां मतिरिहाप्यवधानभृतामिव ॥ ९५ ॥
हृदि यदेव दधे दयितैरते युवतयो ऽग्रत एव तदाचरन् ।
इतरथा कथमक्रमनस्रुकता रतिरहस्यमुपैति यथार्थतां ॥ ९६ ॥
इह सुखेषु सुखं सुरतोद्भवं महदिहापि मिठोप्यनुकूलता ।
रहसि केलिरिहापि यदृच्छया सममिहापि रतिर्यदि किं पुनः ॥ ९७ ॥
प्रियसखीभिरपि प्रतिबोधिता नवरतोत्सवतोभयशांकिनी ।
अतितरां परिरभ्य हृदीश्वरं कपटमुद्रितदृक् शयितेतरा ॥ ९८ ॥
दयितदष्टरदच्छदपल्लवा नववधूः करकंपनकैकवात् ।
विगतवंति दिनानि रतोत्सवै र्विरहितानि शुशोच मुहुर्न किं ॥ ९९ ॥
रतिरसं कलयन्नितमां पर स्तदुरुतागुणविघ्नितचुंबनः ।
परिनिनिंद कुचौ मुहुरीक्षयन् नच वधूं समयः स हि तादृशः॥ १०० ॥
रतिरसोपरमे स्खलनात्परः प्रणयिनीकुचपर्वतमस्तके ।
निपतितोपि मुमूर्च्छ न सन्मुखं दृढतरोजनि रंतुमहो पुनः ॥ १०१ ॥
प्रणयिनां यदभिद्यत कौसुमै रपि शरैर्हृदयं सुमधन्वनः ।
प्रणयिनीकुचशैलमहाहती—स्तदसहिष्ट यदद्भुतमेव तत् ॥ १०२ ॥
सपरिवेशशशिश्रियमूद्वहत् भुजयुगांतरवर्ति मुखं स्त्रियः।
चिचलिषो ऽहृदयाधिपरेतसो ऽपशकुनाय न किं समजायत ॥ १०३ ॥
रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिनः ।
यदि सुखी परमात्मविदेकको रतिविदो सुखिनौ पुनरप्युभौ ॥ १०४ ॥
अधिकृतां करकंकतयोजनां विदधतौ रहसींदुमुखीवरौ ।
विबभतुः सुगृहीतपरस्परा—विव मिथोऽप्युपपादयितुं रतिं ॥ १०५ ॥

७ ] शृंगारवर्णनम् ५९
अधिशिरोधि मिथः करकंकत—प्रगुणिताननयुग्ममिपादभात् ।
प्रणवसंपुटयंत्रमिव स्फुर—द्विवलयं रतिकृष्टिकृतेन्ययोः ॥ १०६ ॥
प्रणयिनो मुखचंद्रमसि स्फुर—त्यभिमुखं तरले परिचुंबितुं ।
अनुचितं किमिदं नवनायिका—मुखसरोजमजायत यत्पराक् ॥ १०७ ॥
रतिविरामभवादुपगूहनात् विघटनेच्छुमवेक्ष परा प्रियं ।
सुदृढमूरुयुगेन निपीडयं—स्तत हुंहुमिति स्मितजल्पितं ॥ १०८ ॥
परिपिबन् दयितो दयिताधरं मुकुलिते नयने यदसौ व्यधात् ।
किममुनैव जगाद न यत्पुरो ऽमृतमवेक्षितुमप्यरमंजसं ॥ १०९ ॥
सुरतकौशलशालिनि वलभे मुकुलिताक्षिमियात्समीविक्षत् ।
अविषयो वचसां किमिहांतरा स्फुरति द्रष्टुमिवेति परा दृशौ ॥ ११० ॥
रतकलां कलयत्यसुवलभे किमपि कुंचिमुखी सुमुखी नवा ।
हह ननेति ममेति वचोमिषात् मदनदीपनमंत्रमिवास्मरत् ॥ १११ ॥
अपदयं दयितस्य रतोत्सवं रचयतो नतनाभिपथादधः ।
करतलं ददती मुदमातनो न्नववधूरधिकां सुरतादपि ॥ ११२ ॥
अदहदीश्वरनेत्रहुताशनो रतिपतिं विदुषामिति यद्वचः ।
ऋतममंस्त तदत्र स एव यो वशयितुं प्रबभूव न मानिनीं ॥ ११३ ॥
मदनोरिरस्य मदनारिरित्यसौ मदनेन देह इति साधुरन्वयः ।
भुवि कामतलमधुनेति केवलं कथमप्यथालसदहो समंततः ॥ ११४ ॥
उत्थुष्य तल्पादितरा रतांति कांतं भुजाभ्यां दृढमालिलिंग ।
आदातुकामेव तदंगयष्टे रंगसर्वस्तमपि प्रपीड्य ॥ ११५ ॥
दद्यैांगानि यथा यथातिकठिनान्त्येपा नवोढा रते
शंके धत्त तथा तथातिकठिनं चेतोपि चित्तप्रियः ।
मा मा मा न न मुंच मुंच हहहेत्युल्लापवत्यां मुहु-
स्तस्यां नो कथमप्यथास्य करुणातारुण्यमासादयत् ॥ ११६ ॥
दंपत्योर्वदनैर्दुसंगममिपात्तथ्यं मिथश्चुंबने
किं नैवाभ्युदगच्छदच्छरुचिभृत्सद्यः शशांकद्वयं ।

६० श्रीहम्मीरमहाकाव्ये [सर्गः
आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत्
प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥
दृष्ट्वा स्वं प्रतिबिम्बमेव वहति प्रेयानयं स्वप्रिया-
मक्ष्णीति स्ववदश्रुवारिभिरकरोन्मुग्धानिपानं पुरः ।
तत्रैव प्रतिबिम्बनान्निपतितां भर्त्रा समंयत्पद-
द्वंद्वे स्वे मुमुदे च वीक्ष्य किमितोपि स्यात्परं योषितां ॥ ११८ ॥
कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्च्छामतुच्छामिव हंतुकामः ।
शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः ॥ ११९ ॥
सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया-
पणेणाक्ष्या प्रोक्तं स्मरशरशरव्यत्वमितया ।
परेषां सर्वेषामवनि हिमरुचे तव पुनः
करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२० ॥
स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां ।
निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥ १२१ ॥
स्मरस्मेरलीलासुतल्पोदधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति ।
मृगाक्षीवपुर्वल्लिविश्लेषभावा-न्निरासानदुःखाद्ददंतीव झंपां ॥ १२२ ॥
यस्यांगं तावदेवं बहिरपि विहितस्पर्शनं कामिनीना-
मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः ।
इत्थं ध्यात्वा रता॑ते सुदृढतमपरीरंभदंभेन मध्ये
कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ॥ १२३ ॥
भानोः संक्र्मणे श्रयेत मृदुतां विश्वं समस्तं यथा
मन्ये शिश्रियतुस्तनावपि तथा स्त्रीणां रतेः संक्रमे ।
नैवं चेदुरुशैलवत्कठिनयोः श्रांता रता॑ते भृशं
प्रेयांसः कणशोभवन्न पतिता मध्ये तयोस्तत्कथं ॥ १२४ ॥
क्षणं माने॑माने क्षणमथ मिथः काक्षकषणे
क्षणं हासोल्लासे क्षणमथ दृढालिंगनविधौ ।

७ ] शृंगारवर्णनम् ६१
इति व्यधा निन्युः प्रतिगृहमशेषामपि निशां
रतोत्साहैस्तैस्तैः समुदितमुदस्तै युवजनाः ॥ १२५ ॥
अन्योन्यार्पितरदच्छदखंडनानां नि शंकनिर्मितनखक्षतमंडनानां ।
संभोगसंभवपरिश्रमखिदितानां निद्रासुखं क्षणमभूद्रतयेथ यूनां ॥ १२६ ॥
अन्योन्यप्रवितीर्णदंतनखरमोद्यत्पदव्यंजनै-
र्यूनोर्वीक्ष्य परां स्थितिं गतवतो निर्व्याजवीरव्रते ।
कंदर्पोपि गिरीशदर्पदलने निश्चिततामुद्वहन्
आशिश्राय चिराय संगसुभगां निद्रां विशंके तदा ॥ १२७ ॥
तूलं स्पर्शानुकूलं मुखशशिरुचिरश्रीसमाकृष्टिमूलं
तांबूलं नासिकायाव्रतसुकृतफलं स्फारपुष्पोपहारः ।
कांताश्रांतास्तनाभ्यामुरसि खिलमिदं न श्रुतः सप्तमश्चेत्
सर्गः शृंगारसंजीवन इति विदितो वीरहम्मीरकाव्ये ॥ १२८ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते महाकाव्ये
हम्मीरचरिते वीरांके सुरतवर्णने शृंगारसंजीवनो नाम सप्तमः सर्गः
समाप्तः ॥
अथाष्टमः सर्गः
प्रपंचयंतः स्फुटतारमंद्र — मध्यस्वरान् पंचमरागगर्भान् ।
हम्मीरदेवाय निशाऽवसानं वैतालिका विज्ञपयां बभूवुः ॥ १ ॥
विच्छायमिंदुं मुखमावहंती विनिम्नताराकलुषांबैरैषा ।
विभावरी याति रजस्वलेव स्नातुं पयोधौ दिशि पश्चिमायां ॥ २ ॥
वियुक्तनारीजननेत्रपातो — ल्काभिः समंतादिव दीप्यमानं ।
विहाय शीतांशुरसौ विहाय आसीदपूर्वाचलचूलचुंबी ॥ ३ ॥
स्वातंत्र्यहंता न उदेति भास्वानस्पामिति क्रोधभरारुणाभिः ।
दृष्टेव दृग्भिः कुलटाजनेन पुरंदराशारुणतां जगाम ॥ ४ ॥

६२ श्रीहम्मीरमहाकाव्ये [सर्गः
अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं ।
इत्यभ्यसूयन्निव मानिनीभ्य स्वनोति शब्दान् कृकवाकुरेषः ॥ ५ ॥
जायापतीनां रंतकौतुकेन रात्रिं समग्रामपि जागरित्वा ।
घूर्णंस्यमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥
निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्तंति युवान एते ।
मार्दंगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥
विलेपनामोदितांततांत—स्वेदोदकास्वादनमंदचारः ।
संभोगशालासु निविश्य यूनः सुखाकरोत्येष उषासमीरः ॥ ८ ॥
प्राप्तप्रबोधा गुरुणोपदिष्टान्‌महाप्रयोगान् प्रणिधाय चित्ते ।
क्लिष्टै कवींद्रा इव निर्मलाथो—त्पत्तिं नरेंद्राः परिभावयंति ॥ ९ ॥
विप्राननोद्गीर्णविविक्तवर्ण—प्रचारचारुध्वनिवेदमंत्राः ।
सतां हृदंतस्तरसा प्रविश्य तमः कर्षंतीव समूलकाषं ॥ १० ॥
तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेथ नवं सिसृक्षन् ।
प्रत्यूषसंध्याभवरागदंभात् चिनोति शृंगानि हिरण्मयानि ॥ ११ ॥
विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि ।
इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥
संभोगकेलीं प्रविधाय पश्चात्सुप्तापि नारी प्रथमप्रबुद्धा ।
आलिंग्य सुप्तं प्रियसृप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥
कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं ।
स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥
अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः ।
इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥
असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः ।
तेनैव शंकेस्तमुपैति पकपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥
समस्वरूपे शशिनो रवेश्व बिंबेस्तभावादुदयत्वतश्च ।
उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥

८ ] प्रभातवर्णनम् ६३

  • अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे ।
    इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥
    स्फुटं स्फुटत्कुङ्गलकोशनिर्य—द्विलोलरोलंबमिषेण हर्षात् ।
    समागमे पत्युरिनस्य पश्याऽङ्गानीव मुंचंति सरोरुहिण्यः ॥ १९ ॥
    कापि ह्रदे व्योमसुरिद्वरायाः पतिर्नदीनामनुबिंबितः किं ।
    यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥
    एषाहमेतच्च गृहं तवैवा—ऽगंतव्यमेवाशु पुनः प्रियेण ।
    इत्युक्तिपूर्व्वं परिरभ्य गाढं भिंगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥
    प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज ।
    हंसे प्रकाशं यति यत्सतीव जडेपि शांतत्वमुपैति मूत्तं ॥ २२ ॥
    विच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासाः ।
    काले कलौ संत इवोडवौऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥
    लोलत्तणूनां मयनेन दध्रस्तनूदरीणां कबरीमिषेण ।
    ध्वांतावलीकुट्टनजातकाष्ण्र्यः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥
    भिंगैर्निषिद्धैरपि दत्तदंत—पदालिवित्रेषु रदच्छदेषु ।
    संभ्रांतचित्ताः पतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥
    स्मराहवे स्मेरतरे प्रवृत्ते पलाय्य पृष्ठे मलिनो यमस्थात् ।
    इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥
    कांचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन ।
    मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥
    शिलालिहंतोप्यगसैंधवानां वक्त्रोष्महिष्मा मलयंति वाहाः ।
    निश्वासवातैरिव पाणिगानाऽदर्शांन्निशाभोगवियोगिनार्यः ॥ २८ ॥
    समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य ।
    मांगल्यहेतोरविविंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥
    भिंगैर्वितीर्णानणुवित्तवैर्रा दिवाप्रभातं भृशमर्दितांग्यः ।
    सर्वांगसंस्पर्श्यापिभानवीय—करोत्करे जाग्रति नो भुजिष्याः ॥ ३० ॥

[सर्गः

घूकादिवैदोरिव नीलनीर----रुहादिवाकृष्य विभातकालः ।
रथांगनामार्कसरोरुहेषु मुदं प्रकाशं श्रियमार्दधाति ॥ ३१ ॥
पत्यूरुरुचीनामहिताङ्गयेन तमःसमूहो विरहय्य धात्रीम् ।
निशाटनेत्राणि विवेश नून मुत्पश्यतैतेषु कुतोऽन्यथासु ॥ ३२ ॥
विभावरीयाय विनाशमेषा मुदं दधस्वेत्यसुवल्लभा स्वा ।
विबोध्यते द्वंद्वचरेण याव----त्सा तावदागात्स्वयमेव पार्श्वम् ॥ ३३ ॥
क्रुधेव ताम्रं वपुरादधान मायांतमालोक्य सहस्ररश्मिम् ।
निलीयते भ्रश्यदितस्ततोपि भिया तमिस्रं गिरिगुह्वरेषु ॥ ३४ ॥
इत्युद्गतैर्वाक्यभरैर्विबोध----करैः समाख्यातविभातकालः ।
तदर्हकृत्यं विरचय्य दान----केलिं कुमारः कलयांचकार ॥ ३५ ॥
विभूषितास्थानसभं शुभैषी श्रीजैत्रसिंहं रिपुकुंभिसिंहं ।
गत्वा कुमारोथ मुदा नमस्या----मासानणीयस्तरभक्तिनम्रः ॥ ३६ ॥
कृतप्रणामं तमवेक्ष्य हृष्यद्रोमा पुलोमारिरिवो धरित्र्याः ।
रहस्युपानीय रहस्यवेदी जगाद निस्तंद्रतरास्यचंद्रः ॥ ३७ ॥
साम्राज्यलक्ष्मीकरपीडनाय जातप्रवीणप्रतिभे तनूजे ।
विदांवरेण्य क्वच नापि नास्म----दृशाः प्रशस्या विषयाभिवृष्ट्याः ॥ ३८ ॥
विध्वस्तबाह्यारिचयोप्यजित्वा----तरंगशत्रूनतिमात्रशक्तीन् ।
बाह्येतरारीन् जितवत्सु तेषु स्थितः कथंकारमहंचकास्मि ॥ ३९ ॥
कियद्वराका सविकाशमाहू----राज्यं नृपाणां विगलत्कृपाणां ।
इदं तु योगप्रणिधानभाजां यावद्वराकासविकाशमेव ॥ ४० ॥
बाह्याः शरीरे किल शैशवीया भावा यथा ऽत्यजिषताल्पयेस्य ।
हातुं तथाभ्यंतरगानपीमान् उदासते हंत किमत्र संतः ॥ ४१ ॥
शक्तावस्थां विषयाभिलाषो विडंवयत्येव जनान् प्रयोक्तॄन् ।
शांतोऽनलः फूत्क्रियमाण उच्चैः किं पूरयत्याशु न भस्मनाऽस्यं ॥ ४२ ॥
अपास्तलज्जं बहुदैन्यमस्मा नकामयंत स्मरकातरा याः ।
ताः कामयेम ह्यधुना मृगाक्षी र्वयं हहाऽतोपि विडंबना किं? ॥ ४३ ॥

८ ] हम्मीरदेवराज्याप्तिवर्णनम् ६५
मलातुराणामशुचौ शुचौ वा यथाप्रदेशे न विचारणास्ति ।
स्त्रीणां तथा मूत्रपुरीषपात्रे गात्रे नराणां मदनातुराणां ॥ ४४ ॥
यत्प्रेरणादुत्तरलीभवन्तः कृत्यान्यकृत्यान्यपि न स्मरंति ।
तदप्यहो यौवनमस्तमस्तु कायापि तृष्णा विषयेषु निष्णा ॥ ४५ ॥
ये यौवनोन्मादभरे गतेपि कुर्वत्यखर्वे विषयेषु रागम् ।
निर्मांसमज्जाऽस्थियु ते शृगाला लालारसास्वादनमाचरंति ॥ ४६ ॥
सर्वांगेषु निकृष्टमंगयुगलं स्त्रीणां तदुक्तं तयो-
राद्यं विड्विवरं प्रसिद्धमितरत्प्रस्रावरंध्रं पुनः ।
तन्मध्ये यदपत्यरंध्रमसकृद्विस्रस्रवच्छोणितं
ये तस्मादधुनापि नान्यवदनास्तेभ्योपि निंद्योऽस्तु कः ॥ ४७ ॥
तद्राज्यकक्षीकरणान्ममैता माज्ञां गुणैकालय पालयाशु ।
साहाध्यतस्तेऽयमुपेंद्रसेवा—हेवाकिचेताः सुखमस्तु भूपः ॥ ४८ ॥
वार्धक्यदोषोदयदुर्भगत्वान्मुक्त्वाद्य सद्यः कमलानिवास्मान् ।
पतिं द्विजानामिव सौम्यमूर्त्ति साम्राज्यलक्ष्मीरुपतिष्ठतां त्वां ॥ ४९ ॥
सुधाकिराज्येव गिरा चभक्ति—वल्लीं प्रवेल्लन्नवपल्लवाढ्यां ।
कुर्वन्निव व्यज्ञपयन्नर स्नातं जगद्वेयतमावदातं ॥ ५० ॥
द्वेधापि राजन्नरकतमेत द्राज्यं न चेतो बहु मन्यते मे ।
द्युसद्गवीवद्विबुधालिसेव्या त्वदंघ्रिसेवा यदि लभ्यतेऽसौ ॥ ५१ ॥
त्वत्पादपद्मे सदसद्विवेक—कृद्राजहंसत्वमभीप्सतो मे ।
हर्षाय सुव्यक्तकलंककारि राजनराजत्वमिदं कदाचित् ॥ ५२ ॥
ज्येष्ठे तनूजे सति राज्यलक्ष्मी र्देया कदाचिन्न किलेतरस्मै ।
जानन्नपीत्यं नयवर्त्मसंस्थां मह्यं कथं दित्ससि तामधीशः ॥ ५३ ॥
हम्मीरदेवाय वितीर्य राज्यं मदंघ्रिसेवानिरतो भवेति ।
स्वप्ने निशांते शयितं निशांते मामाह विष्णुः करवै किमार्थ ॥ ५४ ॥
निरुत्तरीकृत्य ततोहठेन—निच्छंतमप्येनमतुच्छचित्तं ।
हम्मीरदेवं नृपतिर्बलक्ष्मी ममीमनत्स्नातु मिलाविलासी ॥ ५५ ॥
9 k

६६ श्रीहम्मीरमहाकाव्ये [ सर्गः
ततश्च संवन्नववह्निवह्नि—भूहायने माघवलक्षपक्षे ।
पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्ने ॥ ५६ ॥
पुरा पुरोधास्तदनु क्षितीन्दु भूपास्ततोन्ये सचिवास्ततश्च ।
ततो महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥
छायाकरैस्तस्य सितांशुशुभ्रं यदातपत्रं विभरांबभूवे ।
छायाखिलस्यापि जगत्त्रयस्य बभूव तेनाऽद्भुतमेतदुच्चैः ॥ ५८ ॥
एवं पतिष्यत्यसकृत् पदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके ।
शिरोभितोप्यापतती नृपस्य तस्याञ्च वालव्यजने व्यभातां ॥ ५९ ॥
अपाठिषुुर्विद्विजनास्तदानी मराणिषुर्मंगलतूर्यकाणि ।
अनर्त्तिषुर्नर्त्तविदश्च गीत मगासिषुुर्गायकमंडलािन ॥ ६० ॥
पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः ।
गृहावलीनां नयनायमान—द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥
नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः ।
कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रकाशाः ॥ ६२ ॥
हर्षप्रकर्षेण समंततोपि सद्यस्रक्वाल्हीकजलप्रसिक्ताः ।
नवे हृदीशे प्रकटीकृतात्म—रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥
प्रत्यालयोत्तंसितशातकुंभ—मांजिष्ठकौसुंभिककेतुदंभात् ।
अधीश्वरं प्राप्य नवं हमीर—देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥
साम्राज्यलब्ध्या मुदितोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन् ।
वृथा व्यषीदत्फणिराट् विवेद —————— ॥ ६५ ॥
हृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः ।
प्राप्तोदयो भूवलये स राजा ऽऽऽ न कस्याऽजनि विस्मयाय ॥ ६६ ॥
विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य ।
काले कलौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥
धर्मो जगर्जैव दरिद्रमुद्रा काचिन्ननाशेव बभाविव श्रीः ।
समुल्ललासेव नयद्रुमोपि समं जनैरेव तदीयराज्ये ॥ ६८ ॥

४. अलाउद्दीन खिलजी की सेना का घेरा व भीषण युद्ध

८] हम्मीरदेवराज्याप्तिवर्णनम् ६७
कालानलो ना ऽजनि नाभिरामो रामो भवन्नो भरती रतोभूत् ।
आसीन्न चित्ते जनकोपि कोपि हम्मीरमालोकयतां जनानां ॥ ६९ ॥
अहानि तान्येव सुखावहानि हम्मीरदेवो ऽजनि येषु भूपः ।
लोकास्त एवात्तशुभावलोका वक्त्रांबुजं ये ददृशे ऽदसीयं ॥ ७० ॥
विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिर्भाक् ।
दृग्दुलसद्भाङ्गररागसिंधो विस्तारयंस्तारतरानिवोर्मीन् ॥ ७१ ॥
रूजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् ।
स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥ ७२ ॥
स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां ।
रक्ता विरक्ताश्च सतामपि स्युः पदे पदे ऽमूर्विपदे यदाशु ॥ ७३ ॥
साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश ।
पुमान् वृद्धानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥ ७४ ॥
अप्यार्यकार्याणि विचार्य कुर्वन् विवेकवानेष जगज्जनेष्टः ।
जगन्निवासा तदियं नृपत्व-लक्ष्मीः कथं तं विजहाति तात ॥ ७५ ॥
शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः पराभूतिपदं सदैव ।
कारीषवह्निर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥ ७६ ॥
सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां ।
कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥ ७७ ॥
धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः ।
सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥ ७८ ॥
अनंतरो यो विषयेषु राजा संवर्धितः क्लेशकरः स्व एव ।
गृहांगणातंविषवृक्ष उत्त कालं कियंतं कुशलं गृहस्य ॥ ७९ ॥
राज्यस्य धर्माः किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः ।
प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्यथैव ॥ ८० ॥
शक्तिं समासाद्य सदोद्यतेन कार्या मति विक्रम एव पुंसा ।
तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः ॥ ८१ ॥

नये धियं सम्यगनास्यिला युक्तः प्रयुक्तो न पराक्रमोपि ।
छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेटिभं किं? ॥ ८२ ॥
बुद्धचैव सिद्धिर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः ।
पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥
शौर्यं च बुद्धिर्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं ।
न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वं ॥ ८४ ॥
जिगीषुणाऽसौ बलशालिनापि यात्रा विधेया खलु जेय एव ।
ज्वालाजटालीकृतदिङ्मुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥
रिपोरपि स्वाश्रयमागतस्य करोति सत्कारविधिं विधिज्ञः ।
तथाहि मीनांशमुपागतस्य् नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥
यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि ।
किं नाम पुष्पाणि चिनोति पुष्प—लावी लतानां जनयन्त्रिबाधां ॥ ८७ ।
निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं ।
वंध्या विजानाति किमंग गर्भ—प्रपोषणं वा वहनक्लमं वा ॥ ८८ ॥
धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः ।
इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ॥ ८९ ॥
सर्वस्वनाशोपि कुले विरोधोद्बोधं सुधीर्नो विदधीत कश्चित् ।
कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ॥ ९० ॥
प्रजासु पीडा स्वकुले विरोधः पक्षद्वयं पेषणयंत्रमस्मिन् ।
चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ॥
स्वमेव पुष्णन् प्रभुवंचनेन नार्हत्युपेक्षामनुजीविवर्गः ।
कर्षद्रसाया रसमात्मने किं नोन्मूल्यते क्षेत्रगतं तृणादि ॥ ९२ ॥
मातेव राजा हितकृत् प्रजानां मातुः सपत्नीव नियोगिवर्गः ।
तयार्पितानां च करे तदस्याः क्व वृद्धिरासां क्वच जीवितव्यं ॥ ९३ ॥
स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव ।
यतो जडात्मा वटवत्प्रवृद्धः स राज्यसौधस्य विनाशहेतुः ॥ ९४ ॥

[Header]
हम्मीरदेवराज्यप्राप्तिवर्णनम् ६९

प्राज्ञः सपत्नैः परिभूयमानो—प्युद्दीपनं न त्यजति स्वदेशं ।
दिवाकरालुप्तकरोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥
चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु ।
क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥
स्याद्राज्यमंत्रेषु किलैक एव श्रेयानमात्यो न पुनर्द्वितीयः ।
आरोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥
यो यत्र रक्तो यदि वा विरक्तो भवे विवेको नहि तस्य तत्र ।
अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥
मंत्रान्वहूनामपि धीसखानां श्रेयस्करात्रैव वदंति संतः ।
गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥
पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत ।
संवादता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरास्या ॥ १०० ॥
विराध्दपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः ।
तादृग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥
पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं ।
अद्यापि पश्चार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥
महाबलेनापि कलिर्न कार्यः समं शकेनेन लसच्छलेन ।
तथा समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥
पुरः पुरो जाग्रदुदग्रकष्टं दुरोदरं दूरत एव हेयं ।
दुरोदरारंभवशेन कां कां विडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥
बलाबलं सूत्रगतं विचार्य सविग्रहं यो विदधीत वृत्ति ।
स एव तत्तद्गुरुगौरवार्ह — शास्त्रज्ञधुर्यल मुपैति तात ॥ १०५ ॥
दत्वेति शिक्षां शुभवद्गराख्यां गेहेच देहेच निरीहचित्तः ।
जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्रीभ्राश्रमं पत्तनमन्वचालीत् ॥ १०६ ॥
शिवापि जंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः ।
यो ध्यातमात्रोप्युरुभक्तिभाजां दत्ते न किं भुक्तिमिवाशु मुक्तिं ॥ १०७ ॥

७० श्रीहम्मीरमहाकाव्ये [ सर्गः
मज्जच्छचीदृग्युगलाकुवेल—विश्वग्गलत्कज्जलमेचकांबु ।
चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥
ज्वलिष्यदेतद्विरहाग्नितप्त मिवांब्रकाब्जस्रवदम्बुवर्षैः ।
पृष्टेऽथ हृत्सेसिंचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ॥
साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानपि संप्रतीश ।
खद्योतवत् तद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥
भवत्दृगलोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश ।
रंगत्पतंगोज्वलंबिंबडिंब—विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥
वृष्ट्या सुधाया इव सौम्यदृष्ट्या सिंचन्नथैतान्निजगाद भूपः ।
मा कार्ष्ट कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥
इदं पुरव्योममदंशुमालि—प्रतारोचिश्चयशून्यशोच्यं ।
हंमीरचंद्रेभ्युदिते प्रकाम—श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥
मद्वंशपाथोरुहराहहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः ।
संसेव्यमानोहमिव प्रसाद—दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥
इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेशः ।
लूता विनिर्गत्य पपात तावत् स्वयं च भेजे लघु देवभूयं ॥ ११५ ॥
असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथान्वितस्य ।
तत्रैव संस्कारविधिर्विधिज्ञैः श्रीजैत्रसिंहाधिपते र्वितेने ॥ ११६ ॥
अथाभिषिञ्चन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः ।
चकार मोहग्रिहिलीकृतात्मा हम्मीरदेवः परिदेवनानि ॥ ११७ ॥
तातेति तातेति वचः प्रघोष—शुष्यद्गलस्यापि ममाऽवनीश ।
यद्दर्शनं न प्रददासि तत्क्वा तवौचिती संगतिमंगतीयं ॥ ११८ ॥
विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं ।
कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताश ॥ ११९ ॥
हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त ।
श्रीजैत्रसिंहं नृपतिं प्रणिघ्नन्नजायतास्योत्तरमद्य वेधाः ॥ १२० ॥

हम्मीरदेवराज्याप्तिवर्णनम् ७१
धातर्विगर्हादभितोपि लोका—पवादतो यद्यपि नासि भीतः ।
तयापि पाणी कथमत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥
केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः ।
क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्धि ॥ १२२ ॥
कंठस्य हाहेति वचांसि दृष्टगो रक्तं कपोलस्य कराब्जक्रोडाः ।
चित्तस्य शोकः शरणं हम्मीर—देवस्य तत्राहान जायते स्म ॥ १२३ ॥
इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय ।
अकर्णधारायतविप्रवीणैत्राजदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥
जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं ।
कस्याप्यवंध्या निधनस्य शस्य दृष्टाः श्रुता वा पितरो च विश्वे ॥ १२५ ॥
श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव ।
वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥
क्रीडां करिष्यति कियच्चिरमेष हंसः
स्निग्धोल्लसत्कलरवोत्न शरीरवाप्यां ।
कालारघट्टघटिकावलिपीयमान
मायूर्जलं झगिति शोषमुपैति यस्मात् ॥ १२७ ॥
इयं मायारात्रिर्बहलतिमिरा मोहललितैः
कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः ।
अलक्ष्यः संहर्तु ननु तनुभृतां जीवितधना-
न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिदिनं ॥ १२८ ॥
लंकाभर्तुर्निधनरुचिना चापहस्तेन येन
क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां ।
सोपि स्फूर्जद्दिवसरजनीघोरवक्त्रेण राम-
स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥ १२९ ॥
सूनोर्मन्मन्भाषितानि शिशुता हृदयस्य जीवादिशे-
त्युक्तौर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।

७२ श्रीहम्मीरमहाकाव्ये [सर्गः
क्व स्वर्गो वसुधासुधाकरसुधास्वादोऽधुना प्रीतये
तस्य ह्यद्यशसैव तृप्तिरमरीगीतेन पीतेन चेत् ॥ १३० ॥
इत्थं स्मार्तविनोदमोदिहृदयप्रज्ञालवक्त्रांबुज-
प्रादुर्भूतविशेषतत्वभणितिश्रेणीप्रबुद्धाशयः ।
शोकद्वेषिचमूरमूर्दलयितुं वीरं विवेकं सृजन्
वेश्मेव स्वमपालयत्क्षितितलं हम्मीरदेवस्ततः ॥ १३१ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांक श्रीहम्मीरदेवराज्याप्तिवर्णनो नामाष्टमः सर्गः समाप्तः ॥
अथ नवमः सर्गः
अथास्य षड्गुणाँस्तिस्रः शक्तीर्भूपस्य बिभ्रतः ।
दिग्जयायानपायाय स्पृह्यालु मनो ऽभवत् ॥ १
ततो दैवज्ञविज्ञात--लग्ने लग्नेद्धरुग्ग्रहे ।
वंद्याभिर्गोत्रवृद्धाभिः कृतयात्रिकमंगलः ॥ २ ॥
पश्चाद्धृतोष्णरुग्बिंब ऊर्ध्वाकृष्टसमीरणः ।
नृपस्तुरंगमारुक्षत्पुरस्कृतसितद्युतिः ॥ ३ ॥ युग्मं
स्वतोधिकौजसं वीक्ष्य माम्लासीदेनमुष्णरुक् ।
इतीवास्योज्वलं शीर्षे छत्रं छायाकरैर्दधे ॥ ४ ॥
पास्यंत्यस्याखिलं सैन्या मद्धारीति विशंकिनी ।
तं वालव्यजनव्यांजा--दागाद्गंगेव सेवितुं ॥ ५
चंपाया इव चंपेश स्त्रिपुरस्त्रिपुरादिव ।
प्रकंपयन् धरां धीरो निर्ययौ नगराद्बहिः ॥ ६ ।
पराग इव पाथोजा त्पार्थपाणेः शरा इव ।
पुरतः स्फुरितोत्साहाः पृष्ठे सैन्या विनिर्ययुः ॥ ७
निर्मिमाणा मदांभोभि र्विश्वकर्दमिलामिलां ।
गर्जसंतर्जिताराति--शौंडीर्या निर्ययुर्गजाः ॥ ८