हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
DevanagariSanskritpublished185 पृष्ठ
पृष्ठ 112, कुल 185 में से
संदर्भ में पढ़ेंपृष्ठ 112
८ ] प्रभातवर्णनम् ६३
- अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे ।
इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥
स्फुटं स्फुटत्कुङ्गलकोशनिर्य—द्विलोलरोलंबमिषेण हर्षात् ।
समागमे पत्युरिनस्य पश्याऽङ्गानीव मुंचंति सरोरुहिण्यः ॥ १९ ॥
कापि ह्रदे व्योमसुरिद्वरायाः पतिर्नदीनामनुबिंबितः किं ।
यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥
एषाहमेतच्च गृहं तवैवा—ऽगंतव्यमेवाशु पुनः प्रियेण ।
इत्युक्तिपूर्व्वं परिरभ्य गाढं भिंगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥
प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज ।
हंसे प्रकाशं यति यत्सतीव जडेपि शांतत्वमुपैति मूत्तं ॥ २२ ॥
विच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासाः ।
काले कलौ संत इवोडवौऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥
लोलत्तणूनां मयनेन दध्रस्तनूदरीणां कबरीमिषेण ।
ध्वांतावलीकुट्टनजातकाष्ण्र्यः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥
भिंगैर्निषिद्धैरपि दत्तदंत—पदालिवित्रेषु रदच्छदेषु ।
संभ्रांतचित्ताः पतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥
स्मराहवे स्मेरतरे प्रवृत्ते पलाय्य पृष्ठे मलिनो यमस्थात् ।
इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥
कांचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन ।
मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥
शिलालिहंतोप्यगसैंधवानां वक्त्रोष्महिष्मा मलयंति वाहाः ।
निश्वासवातैरिव पाणिगानाऽदर्शांन्निशाभोगवियोगिनार्यः ॥ २८ ॥
समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य ।
मांगल्यहेतोरविविंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥
भिंगैर्वितीर्णानणुवित्तवैर्रा दिवाप्रभातं भृशमर्दितांग्यः ।
सर्वांगसंस्पर्श्यापिभानवीय—करोत्करे जाग्रति नो भुजिष्याः ॥ ३० ॥