हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 57, कुल 185 में से
संदर्भ में पढ़ें८ श्रीहम्मीरमहाकाव्ये [सर्गः
[दंतपृष्ठफणचक्रसहस्रैः] क्रोडकूर्मभुजगाधिपा दधुः ।
क्ष्मां सुखेन भुजयैकया दधत्तामसा वतत कं न विस्मयं ॥ ८७ ॥
उद्यच्छौर्यविनिर्जितोर्जितरिपुस्तंवेरमौघोनघ-
स्त्रीसंचालितचारुचामरयुगव्याजोलसत्केसरः ।
आत्मीयासनमाश्रितो वनजुषा मीशस्वभावं दधत्
जज्ञे सिंह इवोन्नतक्रमगतिः श्रीसिंहराज स्ततः ॥ ८८ ॥
एतेनोत्रासितानां प्रतिधरणिभुजामुल्लसद्दुर्यशस्सु
स्फूर्जत्पर्जन्यमालाललितमुपगतेष्वाजिभूमौ समंतात् ॥
किन्न स्थाने तदेतत्प्रवसितमचिरान्मानहंसैर्यदेशा-
मश्चैर्यद्वा प्रवृत्तं विरहविधुरिमालिगनात्तद्वधूनां ॥ ८९ ॥
क्षारोप्यंबुनिधिः शितिद्युतिरपि प्रासूत यस्मात्कथं
शुभ्रांशुश्च सुधामयश्च सविधुस्तुल्योहि पुत्रः पितुः ।
आसीदुत्तरमस्य नो ऽद्य नृपते र्यस्य प्रसर्पद्यशः
पीयूषैः परिपुष्ट एष उदधिस्तादृग्भवँ स्तज्जनौ ॥ ९० ॥
लक्ष्मीरमेषपराश्रिता मपिवला दाकृष्यभोगास्पदं
प्रीत्या स्वस्य तनोति मां च जननादप्येकपत्नीव्रतां ।
स्वस्माद्दूरयति स्तुतां कविजनै र्न श्रोतुमुत्कंठते
क्रुद्धेतीव विपक्षभूमिमभजत्कीर्ति र्यदीयोच्चकैः ॥ ९१ ॥
बाणे महीमघवतोस्य तथा कृपाणे
पाणौ स्थितेप्युभयमद्भुतमेतदासीत् ।
एको दधाव समरे परलक्ष्यहेतो
रन्यः स्वकोशमपि दूरमुदौज्झदेव ॥ ९२ ॥
- अगाधं पाथोधिं गुरुगरिमसारं सुरगिरिं
पृथकृत्वा वेधा न खलु कृतकृत्यो मम मते ।
द्वयं निर्मायास्मिन् पुनरपि किलैकत्र भगवान्
तथा प्रीतः सृष्टिं व्यधित न यथा तत्प्रणयने ॥ ९३ ॥