हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
DevanagariSanskritpublished185 पृष्ठ
पृष्ठ 58, कुल 185 में से
संदर्भ में पढ़ेंपृष्ठ 58
१ ] पूर्वजवर्णनम् ९
- यत्सौन्दर्यवशीकृतेव विजयश्रीकन्यका संगरे
सर्वानप्यपहाय राजतनुजान् दौर्भाग्यदग्धानिव ।
उद्वोढुं यमुपागता करतलं स्पृष्ट्वापि सद्यो महः
सूनुं कीर्तिसुतामसूत तदिदं लोके महत्कौतुकं ॥ ९४ ॥
कर्णाटश्चटुपाटवप्रकटनो लाटः कपटप्रद-
श्चोलश्वासविलोमहृत् परिगलद्वीजर्जरो गुर्जरः ।
अंगः संगररंगभंगुरमतिः संपद्यते स्म क्षणात्
दिक्कुक्षिभरि यत्प्रयाणपटहध्वाने समुत्सर्पति ॥ ९५ ॥ - “गांभीर्येण विनिर्जितोहममुने” त्यंभोनिधे त्वं वृथा
खेदं मास्म कृथा जनः किल जनं दृष्ट्वा समाश्वासयेत् ।
सत्त्वाधारतया तथोन्नततया पश्यैष देवाञ्चलो
जिग्ये ऽनेन तथा यथा नयनयो र्हित्वा गतो गोचरं ॥ ९६ ॥
यावत्कर्तु मयं ववांछ विलसत्कोदंड माजौ करे
तावद्वैरिनृपः पुरैव विलसत्कोदंडमाधात्पुरः ।
एतस्मात्कयमन्यया प्रकुपितात्साक्षात्कृतांतादिव
प्राणत्राणविधिर्दिगंतबलिभूः स्वर्गं गतानामपि ॥ ९७ ॥
निर्विण्णोयमरीन्निहत्य गणशोप्याजौववाह क्षमां
इत्याकर्ण्य निधत्त दर्पिततमान् रे भूपुजो मा भुजान् ।
दुर्लक्ष्यं किमु वेधसापि चरितं जानीय नास्याखिलं
बाह्यामेव वहत्यसौ सुमहतीमेनां न चांतर्गतां ॥ ९८ ॥
पंचाप्यस्य करेण दानविधिना कल्पद्रुमा निर्जिता
एकैकां कलिकां बलिव्यतिकराद्दत्त्वांगुलीं स्वामिव ।
आसन्नांगुलिकाः स चाभिरभवत्पंचांगुलिः पप्रथे
लोकेपि व्यवहार एष न भवेत्प्राग्भिः किमंगीकृतं ॥ ९९ ॥
उज्जत्येष विपक्षवृत्तिमपि नो खड्गं करात्कर्हिचित्
नांगुल्यापि यदि स्पृशेद्वृणवतोप्यस्मान्सपक्षानपि ।
2 k