सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 56, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 56

१ ] पूर्वजवर्णनम् ७
सर्वातिशायिद्रुतना विधात्रा विधित्सितौजोधशसी यदीये ।
अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥ ७५ ॥
शंके प्रतिक्षमापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तेः ।
स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥
अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।

  • सेनां कुमारीं बुभुजे मृधे य ललौ तथैको विजयश्रियं च ॥ ७७ ॥
    यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्ससत्प्रमोदः ।
    छुटज्जटानिर्यदमर्त्यसिंधु-पय प्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥
    खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य ।
    दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित् ॥ ७९ ॥
    अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं ।
    त्रैलोक्यलोकावलिवंद्यपादां सेवापरत्प्रत्तमहाप्रसादां ॥ ८० ॥
    शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य ।
    विश्वापतिर्विश्वहिताय शाकं-भर्या रुमां यः प्रकटीचकार ॥ ८१ ॥
    ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः ।
    शक्राधिराजस्य रणे निहत्य तन्मानवन्मुग्धपुरं ललौ यः ॥ ८२ ॥
    रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकत्या चकासे ।
    प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥
    भ्रांत्याप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः ।
    पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसन्ति ॥ ८४ ॥
    अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं ।
    निषेधतेो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः ॥ ८५ ॥
    अस्याऽवनीमघवतो ऽसिलतांबुराशे-
    रक्ताघता सुमहतीति किमद्भुतं नः ।
    अस्याद्भुताद्भुतमिदं तु सनीरतायां
    सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥