हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 55, कुल 185 में से
संदर्भ में पढ़ें६ श्रीहम्मीरमहाकाव्ये [सर्गः .
स्पर्धां विधित्सोः सह येन संख्ये स्वस्याविवेकत्वविलुप्तबुद्धेः ।
तृणानि दद्भिर्दधतः पशुत्व मनागसे स्मारिगणा गदंति ॥ ६२ ॥
ततोभजद्राज्यरमामन्नंता-नंतापति गूंयकनामधेयः ।
येनानिशं धर्मतरूर्द्धरित्या मुत्सर्गनीरैरभिषिच्यतेस्म ॥ ६३ ॥
उद्दामधाराजलवाल्किं य-त्करांतराले करवालमेघं ।
अभ्युन्नतं वीक्ष्य विपक्षमान-हंसोद्रुतं मानसतोप्यनेशत् ॥ ६४ ॥
उच्चारयन्वैरिपशूंस्तृणानि निस्त्रिशदंडं च करे दधानः ।
निरंतरं भूषितसर्वदेहः सत्यां वितेने निजगोपतां यः ॥ ६५ ॥
पलायितानां रिपुभूपतीनां पिवन् कणेह्य यशःपयांसि ।
तत्स्त्रैणनिश्वाससमीरपुष्टो यस्यासिदंडो भुजगायतेस्म ॥ ६६ ॥
तन्नंदनश्चंदनवज्जनाना मानंदनो नंदननामधेयः ।
निहत्य शत्रून्समरे समग्रान् स्वसाच्चकारावनिमा समुद्रं ॥ ६७ ॥
आलोकमात्रेण शुभानि पुष्णं स्त्वार्थदृष्ट्या च तमांस्यपास्यन् ।
प्रजा विवस्वानिव वृत्तरम्यः संवर्धयामास निरंतरं यः ॥ ६८ ॥
पुरः परेषां किल पक्षपातं विहाय के नाधिकमाहुरेनं ।
नाजौ यथादीदृशदेष पृष्ठं निजं तथा वक्त्रमहो परेपि ॥ ६९ ॥
पुरः परेषां किल पक्षपातं विहाय केनाधिकमाहुरेनं ।
यथा स्वकोशादयमाचकर्ष खड्गं तथाजौ वसु वैरिणोपि ॥ ७० ॥
यस्य प्रतापो भुवि वाडवाधिक्षेपायदंहः कलयांबभूव ।
तःसंप्रमाष्टुं किमसो प्रविष्टः पारेबुधेस्तीरतपोवनानि ॥ ७१ ॥
भयार्त्तवप्रायितबाहुदंडः सर्वास्त्रविद्योपनिषत्करंडः ।
लीलापराभूतसुपर्वराजः क्ष्माभृत्ततो राजत वप्रराजः ॥ ७२ ॥
ज्वलत्प्रतापज्वलनोपतप्ता प्रत्यर्थिभूभोगजुषां जयश्रीः ।
यदीयनिस्त्रिशनिशातधारा-पाते व्यधान्मज्जनसञ्जलीलां ॥ ७३ ॥
सरीसृपस्यास्य च खङ्गयष्टे राकारमात्राद्यदि साम्यमासीत् ।
दंष्ट्रा हरेत्प्राणगणान्यदाद्यः परो द्विषां वीक्षितमात्र एव ॥ ७४ ॥