सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 54, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 54

१] पूर्वजवर्णनम्

  • स्फुरद्धृतिः प्राप्तलसत्प्रतिष्ठो विशुद्धवर्णः स्पृहणीयवृत्तः ।
    कीर्त्तिं स्मरन्सत्कवित्परार्थ-हेतौ मतिं क्वापि न यश्चकार ॥ ४९ ॥
    विरुद्धवासादिह मां न कोपि वेत्तीति बिभ्यत्किल यत्प्रतापात् ।
    दारूणि वह्निः प्रविवेश नोचे तद्धर्षणात्तत्प्रभवः कुतः स्यात् ॥ ५० ॥
    कामं यदोजःसृजि वेधसोपि स्वेदोदयः कोपि स आविरासीत् ।
    प्रसर्पता येन नदीवदंबु-राशेरपि क्षारमकारि वारि ॥ ५१ ॥
    तद्वास्तु तत्तद्धनवस्तुसार-प्राग्भारवीक्षास्तुतधातृसर्गं ।
    स्वर्गश्रियं जित्वरकांनिकांत-मतिष्ठिपत् योऽजयमेरुदुर्गं ॥ ५२ ॥
    अदीपि तस्माज्जयराजभूपू स्त्रैलोक्यविख्यातयशःस्वरूप ।
    यत्कीर्त्तिचंद्रैर्मुखमंडलानि दिकामिनीनां सुरभीवभूवुः ॥ ५३ ॥
    यशो विताने स्फुरिते यदीये व्यक्तो यदाऽलक्ष्षि न शीतराश्मिः ।
    तदादिशंके विधिना व्यधायि तदीयबिंबांतरयं कलंकः ॥ ५४ ॥
    यस्मिन्महीं शासति राजमार्ग-प्रोलंघनं तुंगसुरालयेषु ।
    *निख्रिंशताऽस्त्रेषु मदो द्विंपेषु करग्रहोऽभूत् करपीडनेषु ॥ ५५ ॥
    जगत्प्रदीपे किमु यत्प्रतापे पतंगवद्व्यान्निपपात भास्वान् ।
    पतंग इत्येतदमुष्य नामा ऽन्यथा कवींद्राः कथ मामनंति ॥ ५६ ॥
    सत्यं किलैकोदरजोपि चैक-नक्षत्रजातोपि सदृग्भवेन्न ।
    अप्येकतोसेः सममस्य जात मुष्णं यदोजः शिशिरं यशस्तु ॥ ५७ ॥
    सामंतसिंहो नृपतिस्ततोऽभूत् मत्तारिदंताबलवारसिंहः ।
    यस्य प्रतापैर्नपतोश्चक्रं बभूव भूषैव कृपाणदंडः ॥ ५८ ॥
    *अहो अहोरात्रमहोदयश्री र्यशःशशी यस्य नवो बभासे ।
    *नान्यायसिंहीसुतलब्धभीति र्नामित्रधाराधरलब्धकांतिः ॥ ५९ ॥ (३ष्ट!
    महीभृतां मूर्धसु यत्प्रतापो भास्वान्नवो भात्किल यः प्रसर्पन् ।
    तताप शत्रून् विधुतातपत्रां स्यक्तातपत्रात्र पुनः कदाचित् ॥ ६० ॥
    पिस्पर्धिषू एष ममैदूहीनौ पातीति कोपादिव यस्य कीर्त्तिः ।
    जटास्वटत् स्वस्तटिनी छलेना-हरोह मौलिं हिमराश्मिमौलेः ॥ ६१ ॥