सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 53, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 53

[Page Header]
४ श्रीहम्मीरमहाकाव्ये [सर्गः

नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां ।
जितोहमैतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥ ३६ ॥
श्रीचंद्रराजेन नयैकधाम्ना ततो धरित्री बिभ्रांबभूवे ।
वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥ ३७ ॥
यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं ।
प्रज्वल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥ ३८ ॥
चापस्य यः स्वस्य चकार जीवा-कृष्टं रणे क्षेप्तुमनाः शरौघान् ।
जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेतन्महदेव चित्रं ॥ ३९ ॥
यस्य क्षितीशस्य च यन्महासे रन्त्योन्यमासीत्सुमहान् विरोधः ।
एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥ ४० ॥
तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा ।
यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥ ४१ ॥
भिन्नद्विषत्कुंभिघटाकटाह-कुंभोच्छलच्छोणितशोणशोचिः ।
यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोल्ललास ॥ ४२ ॥
अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः ।
यो द्यूतकृच्चतुरंगयुद्ध-क्रीडास्वजेयः समभूत्परेषां ॥ ४३ ॥
विदारितारातिकांरिद्रकुंभ-विलग्नमुक्ताफलकैतवेन ।
करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥ ४४ ॥
यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतार्कि ।
तप्तं प्रतापै र्ध्रुवमेतदीये र्विलिप्तमेतन्नवचंदनेन ॥ ४५ ॥
यदीयकीर्त्यापहतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य ।
पतत्प्रवाहध्वनिकैतवेन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥
रणे कणेहत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु ।
शिलीमुखा यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥ ४७ ॥
यस्य प्रसर्पद्विष्मायुधस्य प्रत्यर्थिनां संगरसँगतानां ।
स्वेदः प्रकंपो बलहानिरुच्चै रभूद्वधूनामिव वल्लभस्य ॥ ४८ ॥