सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 552, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 552

५१४ गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ८
द्वितीये, ऋक्शस्तृतीये । स यत् प्रथमे सूक्ते विहरति, वाचं चैव तन्मनश्च विहरति ।
यद् द्वितीये चक्षुश्चैव तच्छ्रोत्रं च विहरति । यत्तृतीये प्राणं चैव, तदात्मानं च
विहरति । तदुपाप्तो विहरेत्, कामः, अन्ये तु वै प्रगाथाः कल्पयन्तेऽतिमर्शं समेव
विहरेत् । तथा वै प्रगाथाः कल्पयन्ते । यदेवातिमर्शं, तत् स्वर्गस्य लोकस्य रूपम् ।
यद्देवातिमर्शं, आत्मा वै बृहती, प्राणाः सतोबृहती, स बृहतीमशंसीत् । स आत्माथ
सतोबृहतीं, ते प्राणा अथ बृहतीमथ सतोबृहतीं, तदात्मानं प्राणैः परिवृहन्नेति ।
यद्देवातिमर्शं, आत्मा वै बृहती, प्रजाः सतोबृहती स बृहतीमशंसीत् । स आत्माथ
सतोबृहतीं ते प्रजा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्रजया परिवृहन्नेति ।
यद्देवातिमर्शं आत्मा वै बृहती पशवः सतोबृहती, स बृहतीमशंसीत् । स आत्माथ
सतोबृहतीं, ते पशवो थ बृहतीं, अथ सतोबृहतीं तदात्मानं पशुभिः परिवृहन्नेति ।
तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने सम्प्रयच्छति । एतस्य त्वं
प्रजनयेति, सुकीर्त्तिं शंसति, देवयोनिर्वे सुकीर्त्तिः तद्यज्ञियायां देवयोन्यां यजमानं
प्रजनयति । वृषाकपिं शंसति, आत्मा वै वृषाकपिः, आत्मानमेवास्य तत् कल्पयति ।
तं न्युङ्खयति, अन्नं वै न्युङ्खः, अन्नाद्यमेवास्मै तत् सम्प्रयच्छति, यथा कुमाराय
जाताय स्तनम् । स पाङ्क्तो भवति, पाङ्क्तो ह्ययं पुरुषः पञ्चधा विहितः लोमानि
त्वगस्थिमज्जामस्तिष्कम् । स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याच्छावाकाय
सम्प्रयच्छति । एतस्य त्वं प्रतिष्ठां कल्पय, इत्येवयामस्तं शशंसति, प्रतिष्ठा वा
एवयामस्त प्रतिष्ठाया एवैनमन्तः प्रतिष्ठापयति । याज्यया यजति, अन्नं वै
याज्या, अन्नाद्यमेवास्मै तत् प्रयच्छति ॥ ८ ॥
कण्डिका ८ ॥ नाभानेदिष्ट, नाराशंस, बालखिल्य, प्रगाथ,
बृहती, सतोबृहती, वृषाकपि, न्युङ्ख, एवयामरुत्
और याज्या का विनियोग ॥
(नाभानेदिष्ठं शंसति) नाभानेदिष्ठ [नाभानेदिष्ट ऋषि वाले सूक्त-क० ७]
को वह [ होता ] बोलता है। (रेतः वै नाभानेदिष्ठः, अस्य रेतः एव तत् कल्पयति )
वीर्यं ही नाभानेदिष्ठ [ वेद सम्बन्ध में अति समीप पदार्थ ] है, इस [ यजमान ] के वीर्य
को ही उस से वह समर्थ करता है। (तत् रेतः मिश्रं भवति, क्ष्मया सञ्जग्मानः रेतः
निष्षिञ्चत् इति, रेतसः समृद्धयै एव ) फिर वीर्य [ रज के साथ ] मिला हुआ होता है.
[ जैसे ] पृथिवी के साथ संगति करता हुआ [ सूर्य ] जल सींचता रहता है [ वैसे ही ]
वीर्य की सफलता के लिए ही [ यह कर्म है ] । (तं नाराशंसं शंसति) उस नाराशंस
[ नाभानेदिष्ठ ऋषि वाले सूक्त-ऋ० १० । ६२ । १-११] को वह बोलता है। (प्रजाः
वै नरः वाक् शंसः, प्रजासु तत् वाचं दधाति ) प्रजायें ही नर हैं, और वाणी शंस है
[ अर्थात् नर+शंस=नाराशंस ] प्रजाओं में उससे वाणी [ जिह्वा ] को वह स्थापित
८-( कल्पयति ) • समर्थयति ( मिश्रम् ) रजसा मिश्रितम् ( क्ष्मया )
भूम्या-निघ० १ । १ (रेतः) वीर्यम् । उदकम्-निघ० १ । १२ (सञ्जग्मानः)