गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 443, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ३ । कं० २२ ४०५
भावार्थः-मनुष्यों को गुणों के अनुसार ही स्तुति करनी चाहिये ॥ २१ ॥
विशेषः १-इस कण्डिका को ऐतरेय ब्राह्मण ३ । २३ के अन्तिम भाग से
मिलाओ ॥
विशेषः २-(ग्रहाः) शब्द के स्थान पर (गृहाः) पद ऐतरेय ब्राह्मण और
गोपथब्राह्मण की अगली कण्डिका २२ से शुद्ध किया है ॥
कण्डिका २२ ॥
स्तोत्रियं शंसति । आत्मा वै स्तोत्रियः, स मध्यमया वाचा शंस्तव्य
आत्मानमेवास्य तत् कल्पयति । अनुरूपं शंसति, प्रजा वा अनुरूपः, तस्मात्
प्रतिरूपमनुरूपं कुर्वन्ति । प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः । तस्मात्
प्रतिरूपमनुरूपं कुर्वन्ति । स उच्चैस्तरामिव शंस्तव्यः, प्रजामेवास्य तच्छ्रेयसीं
करोति । धाय्यां शंसति, पत्नी वै धाय्या, सा नीचैस्तरामिव शंस्तव्याप्रति-
वादिनी हैवास्य गृहेषु पत्नी भवति, यत्रैवं विद्वान् नीचैस्तराम् धाय्यां शंसति ।
प्रगाथं शंसति, पशवो वै प्रगाथः, स स्वरवत्या वाचा शंस्तव्यः । पशवो वै प्रगाथः,
पशवः स्वरः, पशूनामाप्त्यै । सूक्तं शंसति । गृहा वै सूक्तं, प्रतिवीतं तत्,
प्रतिवीततमया वाचा शंस्तव्यम् । स यद्यपि ह दूरात् पशूल्लभते गृहानेवैनाना-
जिगमिषति । गृहा हि पशूनां प्रतिष्ठा । निविदं शंसति यदन्तरात्मन्, तन्निवित्,
तदेवास्य तत् कल्पयति । परिधानीयां शंसति, प्रतिष्ठा वै परिधानीया, प्रतिष्ठाया
एवैनमन्तः प्रतिष्ठापयति । याज्यया यजति, अन्नं वै याज्या, अन्नाद्यमेवास्य
तत् कल्पयति । मूलं वा एतद्यज्ञस्य, यद्धाय्याश्च याज्याश्च । तद्यदन्नाः अन्नाद्धाय्याश्च
याज्याश्च कुर्युः, उन्मूलमेव तद्यज्ञं कुर्युः । तस्मात्ताः सामान्या एव स्युः ॥ २२ ॥
कण्डिका २२ ॥ स्तोत्र इत्यादि यज्ञाङ्गों की आत्मा आदि से
सदृशता का अधिक विवरण ॥
( स्तोत्रियं शंसति ) वह [ ऋत्विज् ] स्तोत्रिय [ स्तोत्र ] बोलता है।
( आत्मा वै स्तोत्रियः, सः मध्यमया वाचा शंस्तव्यः ) आत्मा [ जीव के तुल्य ]
ही स्तोत्रिय है, वह मध्यम [ न ऊंची न नीची ] वाणी से बोलना चाहिये, ( अस्य
आत्मानम् एव तत् कल्पयति ) इस [ यजमान ] के आत्मा को ही वह समर्थ करता है।
( अनुरूपं शंसति ) वह अनुरूप [ विषय सदृश स्तोत्र ] बोलता है। ( प्रजा वै अनुरूपः,
तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति ) प्रजा [ के तुल्य ] ही अनुरूप है, इसलिये प्रतिरूप
[ समान विषय वाले स्तोत्र ] को अनुरूप [ अनुकूल वा योग्य स्तोत्र ] वे करते हैं। ( अस्य
प्रजायाम् प्रतिरूपः ह एव आजायते, न अप्रतिरूपः ) इस [ यजमान ] की प्रजा में
[ कुल आदि के ] सदृश ही [ सन्तान ] उत्पन्न होता है, असदृश नहीं। ( तस्मात् प्रतिरूपम्
अनुरूपं कुर्वन्ति ) इसलिये प्रतिरूप [ समान विषय वाले स्तोत्र ] को अनुरूप [ अनुकूल
२२-( शंसति ) पठति ( अस्य ) यजमानस्य ( कल्पयति ) समर्थं करोति
( प्रतिरूपम् ) सदृशम् । विषयसदृशतुल्यगुणम् ( श्रेयसीम् ) प्रशस्य-ईयसुन्,